摩诃婆罗多 · 章 5.120
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.120.1
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् ।
उपगम्याश्रमपदं गङ्गायामुनसङ्गमे ॥ ५.१२०.१ ॥
那位国王想再为她举行自选夫婿的仪式,便来到恒河与阎牟那河交汇处的修行处。
5.120.2
गृहीतमाल्यदामां तां रथमारोप्य माधवीम् ।
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ॥ ५.१२०.२ ॥
将手持花环的摩陀维扶上战车后,普卢与雅度追着他们的妹妹在修行处中奔跑。
5.120.3
नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम् ।
शैलद्रुमवनौकानामासीत्तत्र समागमः ॥ ५.१२०.३ ॥
那里聚集了龙族、夜叉、人类、乾闼婆、走兽飞禽,以及山、树、林中的居民。
5.120.4
नानापुरुषदेश्यानामीश्वरैश्च समाकुलम् ।
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ॥ ५.१२०.४ ॥
这片森林挤满了来自各地的人和君主,四周又被与梵天相等的仙人所环绕。
5.120.5
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी ।
वरानुत्क्रम्य सर्वास्तान्वरं वृतवती वनम् ॥ ५.१२०.५ ॥
在报出众候选人名字时,这位美丽的女子越过他们所有人,选择了森林本身作为夫婿。
5.120.6
अवतीर्य रथात्कन्या नमस्कृत्य च बन्धुषु ।
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ॥ ५.१२०.६ ॥
少女下了战车,向亲族行礼,来到神圣的森林,在那里,耶耶提之女修行苦行。
5.120.7
उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा ।
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ॥ ५.१२०.७ ॥
她以种种斋戒、受戒与律仪使自身变得清瘦,于是成为与鹿群一同游荡的女子。
5.120.8
वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च ।
चरन्ती श्लक्ष्णशष्पाणि तिक्तानि मधुराणि च ॥ ५.१२०.८ ॥
啃食柔嫩青绿的草,如同琉璃嫩芽,光滑,有甜有苦。
5.120.9
स्रवन्तीनां च पुण्यानां सुरसानि सुचीनि च ।
पिबन्ती वारिमुख्यानि शीतानि विमलानि च ॥ ५.१२०.९ ॥
饮用圣河中甘美、洁净、上等、清凉而澄澈的水。
5.120.10
वनेषु मृगराजेषु व्याघ्रविप्रोषितेषु च ।
दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च ॥ ५.१२०.१० ॥
在狮子出没的森林中,老虎已离去,无林火的、空寂而幽深的丛林里。
5.120.11
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी ।
चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम् ॥ ५.१२०.११ ॥
她与鹿群一同如母鹿般游于林中,以梵行守护自身,广行法道。
5.120.12
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः ।
बहुवर्षसहस्रायुर्युयुजे कालधर्मणा ॥ ५.१२०.१२ ॥
耶耶提也遵循先前诸王的行为;虽寿至数千年,他终究归于时间的法则。
5.120.13
पुरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ ।
ताभ्भां प्रतिष्ठितो लोके परलोके च नाहुषः ॥ ५.१२०.१३ ॥
普鲁与雅度,两个在两支族系中兴盛的最好的人。依靠他们,那历之子在此世与彼世都得以确立。
5.120.14
महीपते नरपतिर्ययातिः स्वर्गमास्थितः ।
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ॥ ५.१२०.१४ ॥
大地之主啊,人主耶耶提已升天。那位如大仙人一般的国王,强大者,享受天界的最高果报。
5.120.15
बहुवर्षसहस्राख्ये काले बहुगुणे गते ।
राजर्षिषु निषण्णेषु महीयःसु महर्धिषु ॥ ५.१२०.१५ ॥
当那被称为许多千年、多善德的时代过去之后,具大福德的王仙们已经就座,
5.120.16
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा ।
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ॥ ५.१२०.१६ ॥
耶耶提心智迷惑,心被惊异所攫取,轻视了所有的人、诸天以及众仙人。
5.120.17
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः ।
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् ॥ ५.१२०.१७ ॥
于是斩杀弁的天神帝释(因陀罗)认出了他;那些王仙都说:“可耻!可耻!”如此说道。
5.120.18
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् ।
कोऽन्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः ॥ ५.१२०.१८ ॥
看见那历之子后,便生出疑问:“他是谁?属于哪一族?是哪位国王之子?又是如何来到天界的?”
5.120.19
कर्मणा केनसिद्धोऽयं क्व वाऽनेन तपश्चितम् ।
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ॥ ५.१२०.१९ ॥
此人以何业成就?他在何处积累了苦行?在天界如何被认出,或由谁认出?
5.120.20
एवं विचास्यन्तस्ते राजानं स्वर्गवासिनः ।
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ॥ ५.१२०.२० ॥
天界居民如此思量,见到那位国王,便彼此询问关于国王耶耶地的事。
5.120.21
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः ।
पृष्टा आसनपालाश्च न जानीमेत्यथाऽब्रुवन् ॥ ५.१२०.२१ ॥
天车守卫、天门守卫及座位守卫,数以百计,被问到时说:“我们不知道。”
5.120.22
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् ।
स मुहूर्तादथ नृपो हतौजाश्चाभवत्तदा ॥ ५.१२०.२२ ॥
他们的智慧被遮蔽,都不认识那位国王。随后,片刻之间,那位国王便失去了光辉。