摩诃婆罗多 · 章 5.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.13.1
अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट् तदा ।
त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते ॥ ५.१३.१ ॥
于是天王那呼沙见到她,说道:“清净微笑的女子啊,我即是三界之因陀罗。”
5.13.2
भजस्व मां वरारोहे पतित्वे वरवर्णिनि ।
एवमुक्ता तु सा देवी नहुषेण पतिव्रता ॥ ५.१३.२ ॥
“美臀的女子啊,美色的女子啊,请接受我为夫君。”那呼沙如此说道,那位守贞的天女……
5.13.3
प्रावेपत भयोद्विग्ना प्रवाते कदली यथा ।
प्रणम्य सा हि ब्रह्माणं शिरसा तु कृताञ्जलिः ॥ ५.१३.३ ॥
她因恐惧而战栗不安,如同无风之处的芭蕉树一般颤抖。随后她合掌低头,向梵天行礼。
5.13.4
देवराजमथोवाच नहुषं घोरदर्शनम् ।
कालमिच्छाम्यहं लब्धुं त्वत्तः कंचित्सुरेश्वर ॥ ५.१३.४ ॥
于是她对形貌可怖的天王那呼沙说:“诸天之主啊,我想从你那里得到一些时间。”
5.13.5
न हि विज्ञायते शक्रः किं वा प्राप्तः क्व वा गतः ।
तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो ॥ ५.१३.५ ॥
“主啊,不知帝释是来了还是去了何处。若知晓此实情后仍不得而知……”
5.13.6
ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते ।
एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् ॥ ५.१३.६ ॥
“那时我便会去见你,这是实话告诉你。”因陀罗尼如此说后,那呼沙心中欢喜。
5.13.7
एवं भवतु सुश्रोणि यथा मामिह भाषसे ।
ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः ॥ ५.१३.७ ॥
就这样吧,美臀的女子,正如你在这里对我所说。知道你来的目的,请牢记这是真实的。
5.13.8
नहुषेण विसृष्टा च निश्चक्राम ततः शुभा ।
बृहस्पतिनिकेतं च सा जगाम यशस्विनी ॥ ५.१३.८ ॥
被那号沙送走后,那位吉祥而著名的女子便出去,前往木星仙人的住所。
5.13.9
तस्याः संश्रुत्य च वचो देवाश्चाग्निपुरोगमाः ।
चिन्तयामासुरेकाग्राः शक्रार्थं राजसत्तम ॥ ५.१३.९ ॥
听了她的话,以火神为首的诸神一心一意地为帝释的利益而思考起来,王中之王啊。
5.13.10
देवदेवेन शङ्गम्य विष्णुना प्रभविष्णुना ।
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥ ५.१३.१० ॥
众神之神、大能的毗湿奴前来,那些善于言辞、极度不安的诸神对他说了这些话。
5.13.11
ब्रह्मवध्याभिभूतो वै शक्रः सुरगणेश्वरः ।
गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः ॥ ५.१३.११ ॥
帝释,众神之主,被杀婆罗门的罪恶所笼罩;你是我们的依靠,诸神之主啊,你是世界的始祖和主宰。
5.13.12
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।
त्वद्वीर्यनिहते वृत्रे वासवो ब्रह्महत्यया ॥ ५.१३.१२ ॥
为了保护一切众生,你已成为毗湿奴的状态;当弗栗多因你的威力被杀时,婆薮被杀婆罗门的罪恶所笼罩。
5.13.13
वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश ।
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ॥ ५.१३.१३ ॥
诸神中最杰出者啊,请指明他的解脱之道。听到众神的这番话,毗湿奴说道:
5.13.14
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ।
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ॥ ५.१३.१४ ॥
愿帝释敬拜我。我将净化持雷者。以功德的马祠祭供奉我,帝释(因陀罗)将得到净化。
5.13.15
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ।
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः ॥ ५.१३.१५ ॥
帝释之位将再次归于诸神,无所畏惧;而恶念的那诃沙将因自己的行为走向毁灭。
5.13.16
किंचित्कालमिदं देवा मर्षयध्वमतन्द्रिताः ।
श्रुत्वा विष्णोः शुभां सत्यां वाणीं ताममृतोपमाम्। ॥ ५.१३.१६ ॥
诸神啊,请暂且忍耐,保持警觉。听到毗湿奴那吉祥、真实、如甘露般的言语。
5.13.17
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।
यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः ॥ ५.१३.१७ ॥
于是,诸神之众与他们的师长和仙人们一同,前往惊恐不安的帝释所在之处。
5.13.18
तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।
ववृते पावनार्थं वै ब्रह्महत्यापहो नृप ॥ ५.१३.१८ ॥
在那里,为伟大的摩亨德拉举行了一场盛大的马祠祭,国王啊,以净化并消除杀害婆罗门的罪过。
5.13.19
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च ।
पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर ॥ ५.१३.१९ ॥
俱卢之子啊,将杀害婆罗门之罪分给树木、河流、山岳、大地和女人。
5.13.20
संविभज्य च भूतेषु विसृज्य च सुरेश्वरः ।
विज्वरो धूतपाप्मा च वासवोऽभवदात्मवान् ॥ ५.१३.२० ॥
主宰诸天者将其分给众生并释放之后,摆脱了烦恼、抖落了罪恶,成为自制的婆娑(因陀罗)。
5.13.21
अकम्प्यं नहुषं स्थानाद्दृष्ट्वा बलनिषूदनः ।
तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम् ॥ ५.१३.२१ ॥
波罗诃娑(因陀罗)见那诃沙(Nahuṣa)稳居其位,不可动摇,因所得之恩赐而毁坏一切众生之光辉,难以忍受。
5.13.22
ततः शचीपतिर्देवः पुनरेव व्यनश्यत ।
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह ॥ ५.१३.२२ ॥
于是,舍阇之夫之神再次隐没,不为一切众生所见,等待时机而游行。
5.13.23
प्रनष्टे तु ततः शक्रे शची शोकसमन्विता ।
हा शक्रेति तदा देवी विललाप सुदुःखिता ॥ ५.१३.२३ ॥
帝释(Śakra)隐没之后,充满悲伤的舍阇(Śacī)极度痛苦,哀叹道:“哎呀,帝释!”
5.13.24
यदि दत्तं यदि हुतं गुरवस्तोषिता यदि ।
एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि ॥ ५.१३.२४ ॥
若我曾布施、若我曾献祭、若我曾使尊长欢喜,若我对唯一的丈夫忠贞,若我心中有真实,愿此事成就。
5.13.25
पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे ।
देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः ॥ ५.१३.२५ ॥
我向这位在太阳北行时升起的神圣而神性的夜女神致敬;愿我的心愿得以实现。
5.13.26
प्रयता च निशां देवीमुपातिष्ठत तत्र सा ।
पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् ॥ ५.१३.२६ ॥
她在那里克己地侍奉夜女神;因为她对丈夫忠贞、并且诚实,她获得了女神的应允。
5.13.27
यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे ।
इत्याहोपश्रुतिं देवीं सत्यं सत्येन दृश्यताम् ॥ ५.१३.२७ ॥
“请把天神之王所在的地方指给我看。”她对回应她的女神这样说;愿真实借真实而显现。