摩诃婆罗多 · 章 5.138
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.138.1
कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ ।
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ॥ ५.१३८.१ ॥
大车勇士毗湿摩与德罗纳听了贡蒂的话,对不违命令的难敌说了这番话。
5.138.2
श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ ।
वाक्यमर्थवदत्युग्रमुक्तं धर्म्यमनुत्तमम् ॥ ५.१३८.२ ॥
人中之虎啊,你已听到贡蒂在黑天面前所说的那番有意义、极严厉、合乎法且无与伦比的话。
5.138.3
तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् ।
न हि ते जातु शाम्येरन्नृते राज्येन कौरव ॥ ५.१३८.३ ॥
贡蒂之子将做黑天所赞同之事。考拉瓦啊,没有王国,他们永远不会平息。
5.138.4
क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा ।
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव ॥ ५.१३८.४ ॥
那时你折磨了被法之绳缚住的普利塔之子;在会场上你也折磨了德劳帕蒂。他们忍受了你的那份过错。
5.138.5
कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्चयम् ।
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च ॥ ५.१३८.५ ॥
得到精通武器的阿周那和决心坚定的怖军,以及甘狄拔弓、两个箭袋、战车和旗帜,他们将坚定不移。
5.138.6
नकुलं सहदेवं च बलवीर्यसमन्वितौ ।
सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः ॥ ५.१३८.६ ॥
有力量与勇气的那库拉和萨哈德瓦,又有盟友毗湿奴之化身黑天相助,坚战不会宽恕你。
5.138.7
प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता ।
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ॥ ५.१३८.७ ॥
大臂者啊,你亲眼看见,昔日在毗罗吒城,他们众人都被智慧的贝尔塔在战斗中击败。
5.138.8
दानवा घोरकर्माणो निवातकवचा युधि ।
रौद्रमस्त्रं समादाय दग्धा वानरकेतुना ॥ ५.१३८.८ ॥
行恶的檀那婆,即尼瓦塔卡瓦恰,在战斗中持起可怖神箭,被以猴旗为标志的那位焚毁。
5.138.9
कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी ।
मोक्षितो घोषयात्रायां पर्याप्तं तन्निदर्शनम् ॥ ५.१३८.९ ॥
迦尔纳等人,以及你这披甲的车战勇士,都在牛群巡行中被解救;这个例子已经足够。
5.138.10
प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः ।
रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् ॥ ५.१३८.१० ॥
婆罗多之最啊,平息怒火,与你的兄弟般度五子一起,守护这整个大地,它已落入死亡的獠牙之间。
5.138.11
ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्कविः ।
तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् ॥ ५.१३८.११ ॥
长兄,守法、慈爱、言语温和、有智慧。去见那位人中之虎,在此放下你的过错。
5.138.12
दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः ।
प्रशान्तभ्रुकुटिः श्रीमान्कृता शान्तिःकुलस्य नः ॥ ५.१३८.१२ ॥
若般度之子见你放下弓、眉宇平静,那么,尊贵者啊,我们家族便会得到和平。
5.138.13
तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् ।
अभिवादय राजानं यथापूर्वमरिन्दम ॥ ५.१३८.१३ ॥
与大臣们一同前往,拥抱王子,像从前一样向国王致敬,啊,降伏敌人者。
5.138.14
अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः ।
प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः ॥ ५.१३८.१४ ॥
当你以双手向他致敬时,愿俱蒂之子、般度之子的长兄坚战出于亲情接受它。
5.138.15
सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः ।
परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः ॥ ५.१३८.१५ ॥
愿狮肩、大腿与手臂强健、双臂圆长有力的勇士之首怖军,以双臂拥抱你。
5.138.16
कम्बुग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः ।
अभिवादयतां पार्थः कुन्तीपुत्रो धनञ्जयः ॥ ५.१३८.१६ ॥
颈如螺贝、发如卷须、目如莲花的阿周那,即俱蒂之子、财胜者,愿他恭敬地向你致礼。
5.138.17
आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि ।
तौ च त्वां गुरुवत्प्रोम्णा पूजया प्रत्युदीयताम् ॥ ५.१३८.१७ ॥
那两位阿湿文之子,人中之虎,在世间容貌无双,愿他们也如对待师长般,以尊敬之礼迎接你。
5.138.18
मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः ।
संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव ॥ ५.१३८.१८ ॥
愿以达沙尔诃为首的诸王洒下喜悦的泪水。啊,国王,舍弃骄傲,与兄弟们重新团聚吧。
5.138.19
प्रशाधि पृथिवीं कृत्स्नां ततस्त्वं भ्रातृभिः सह ।
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ॥ ५.१३८.१९ ॥
然后你与兄弟们一同统治整个大地,让诸王欢喜地互相拥抱而去。
5.138.20
अलं युद्धेन राजेन्द्र सुहृदां शृणु वारणम् ।
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते ॥ ५.१३८.२० ॥
王中之王啊,够了,不要再战。听听朋友们的劝告吧。战争中,刹帝利的毁灭确实可见。
5.138.21
ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः ।
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः ॥ ५.१३८.२१ ॥
英雄啊,可见不利的天象、凶猛的鸟兽以及各种征兆,它们将毁灭刹帝利。
5.138.22
विशेषत इहास्माकं निमित्तानि विनाशने ।
उल्काभिर्हि प्रदीप्ताभिर्बाध्यते पृतना तव ॥ ५.१३८.२२ ॥
这里对我们而言尤其有毁灭的征兆;你的军队正被燃烧的流星所困扰。
5.138.23
वाहनान्यप्रहृष्टानि रुदन्तीव विशांपते ।
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ॥ ५.१३८.२३ ॥
人民之主啊,你的坐骑不再欢喜,仿佛在哭泣。秃鹫从四面包围着你的军队。
5.138.24
नगरं न यथापूर्वं तथा राजनिवेशनम् ।
शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशं ॥ ५.१३८.२४ ॥
城市已不再如往昔,王宫也是如此。发出不祥叫声的豺狼,游荡在燃烧的方向。
5.138.25
कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् ।
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च ॥ ५.१३८.२५ ॥
听从父亲、母亲和我们这些希望你好的人的话吧。啊,大臂者,和平与努力都取决于你。
5.138.26
न चेत्करिष्यसि वचः सुहृदामरिकर्शन ।
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ॥ ५.१३८.२६ ॥
若你不听从友人的话,啊,制敌者,你将看到自己的军队被阿周那的箭所压制而痛苦。
5.138.27
भीमस्य च महानादं नदतः शुष्मिणो रणे ।
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निःश्वनम् ।
यद्येतदपसव्यं ते वचो मम भविष्यति ॥ ५.१३८.२७ ॥
听到勇猛的比玛在战场上发出的巨吼,以及甘狄拔神弓的弓弦声,若你的这番话与我的相违,你就会想起我的话。