摩诃婆罗多 · 章 5.153
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.153.1
युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया ।
सन्निविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ॥ ५.१५३.१ ॥
坚战率军前来,满怀求战之心,驻扎在俱卢原,受到婆苏提婆(黑天)的护佑。
5.153.2
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् ।
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ॥ ५.१५३.२ ॥
与毗罗吒、驮噜半那及其子同行,被数百位国王包围,有羯迦耶与毗湿尼族。
5.153.3
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः ।
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ॥ ५.१५३.३ ॥
闻知他如因陀罗受诸阿提提耶守护,被大战车武士环绕,国王难敌决定采取什么行动?
5.153.4
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते ।
संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ॥ ५.१५३.४ ॥
哦,智者,我愿详细听闻在那场混乱喧嚣之中,俱卢-阇安伽罗之地发生了什么。
5.153.5
व्यथयेयुरिमे देवान्सेन्द्रानपि समागमे ।
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ॥ ५.१५३.५ ॥
这些人——般度诸子、婆苏提婆、毗罗吒与驮噜半那——若会合,甚至能使包括因陀罗在内的诸神也感到苦恼。
5.153.6
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः ।
युधामन्युश्च विक्रान्तो देवैरपि दुरासदः ॥ ५.१५३.६ ॥
般遮罗之子猛光、大战车武士尸金底,以及勇猛的优陀摩尼——即便诸神也难以攻破。
5.153.7
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ॥ ५.१५३.७ ॥
啊,苦行之宝,我想详细听闻俱卢与般度之间所发生的一切事情。
5.153.8
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा ।
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ॥ ५.१५३.८ ॥
当达舍尔哈(黑天)离去之后,国王难敌便对迦尔纳、难降和沙恭尼说了这番话。
5.153.9
अकृतेनैव कार्येण गतः पार्थानधोक्षजः ।
स एनान्मन्युनाविष्टो ध्रुवं धक्ष्यत्यसंशयम् ॥ ५.१५३.९ ॥
黑天未完成使命便前往般度之子处;他被愤怒所攫,必定会将他们焚毁,毫无疑问。
5.153.10
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः ।
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ॥ ५.१५३.१० ॥
婆苏提婆(黑天)希望我与般度五子交战;而怖军与阿周那也都遵从达舍尔哈的意见。
5.153.11
अजातशत्रुरत्यर्थं भीमसेनवशानुगः ।
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ॥ ५.१५३.११ ॥
无敌者(坚战)极其顺从怖军的意志;而先前我曾与他所有兄弟一同欺骗了他。
5.153.12
विराटद्रुपदौ चैव कृतवैरौ मया सह ।
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ॥ ५.१५३.१२ ॥
毗罗吒与德鲁颇,二人已与我结下仇怨;他们二人都是统帅,遵从婆苏提婆的意志。
5.153.13
भविता विग्रहः सोयं तुमुलो लोमहर्षणः ।
तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः ॥ ५.१५३.१३ ॥
此战必将发生,惨烈可怖,令人毛骨悚然。因此,你们要不懈怠地筹备一切军事事务。
5.153.14
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः ।
स्वपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ॥ ५.१५३.१४ ॥
诸位地上之王啊,请在俱卢之野建造营帐,既有足够容纳你们自己的空间,又难以被敌人夺取。
5.153.15
आसन्नजलकोष्ठानि शतशोथ सहस्रशः ।
अच्छेद्याहारमार्गाणि बन्धोच्छ्रयचितानि च । ॥ ५.१५३.१५ ॥
要有成百上千座,附近有贮水之所,有不可切断的粮道,并以栅栏和高墙加以装饰。
5.153.16
विविधायुधपूर्णानि पताकाध्वजवन्ति च ।
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः ॥ ५.१५३.१६ ॥
要充满各种兵器,并悬挂旗帜与幡旗;城外通往它们的道路要修平。
5.153.17
प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ।
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा ॥ ५.१५३.१७ ॥
今日便宣告明日出发,不可迟延。他们应诺说“就这样”,次日便照此行事。
5.153.18
हृष्टरूपा महात्मानो निवासाय महीक्षिताम् ।
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् ॥ ५.१५३.१८ ॥
那些心胸宽广的国王面带喜色,各自前往住处。于是所有这些地上之王听闻王命之后。
5.153.19
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ।
बाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः ॥ ५.१५३.१९ ॥
他们愤懑地从贵重的座位上起身,慢慢地触摸那如铁杵般的手臂。
5.153.20
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् ।
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभै करैः।
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ॥ ५.१५३.२० ॥
他们佩戴金臂钏,熠熠生辉,涂抹檀香与沉香,以莲花般的手整理头巾,并整理内衣、外袍和所有饰物。
5.153.21
ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः ।
सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः ॥ ५.१५३.२१ ॥
最优秀的车手备好战车,精通马术者备好马匹,精通驯象之术者备好大象。
5.153.22
अथ वर्माणि चित्राणि काञ्चनानि बहूनि च ।
विविधानि च शस्त्राणि चक्रुः सर्वाणि सर्वशः ॥ ५.१५३.२२ ॥
随后,他们全面备齐了许多华丽的金甲与各式兵器。
5.153.23
पदातयश्च पुरुषाः शस्त्राणि विविधानि च ।
उपाजह्रुः शरीरेषु हेमचित्राण्यनेकशः ॥ ५.१५३.२३ ॥
步兵们也取来各式兵器,将许多镶饰黄金的兵器佩于身上。
5.153.24
तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम् ।
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ॥ ५.१५३.२४ ॥
婆罗多啊,持国之子的都城充满欢欣的人群,喧闹如同盛大的节日。
5.153.25
जनौघसलिलावर्तो रथनागाश्वमीनवान् ।
शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् ॥ ५.१५३.२५ ॥
人群如漩涡,战车、象与马如游鱼,螺号与鼓声轰鸣,宝库与珍宝充盈。
5.153.26
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् ।
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ॥ ५.१५३.२६ ॥
华美的饰物与铠甲如波浪,明亮的兵器如白沫,被宫殿群如山峦环绕,街市如同大湖。
5.153.27
योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः ।
व्यदृश्यत तदा राजंश्चन्द्रोदय इवोदधिः ॥ ५.१५३.२७ ॥
由战士之月升起而涌动的库卢王大海,那时显现了,大王,犹如月升时的大海。