摩诃婆罗多 · 章 5.154
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.154.1
वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः ।
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽऽब्रवीदिदम् ॥ ५.१५४.१ ॥
尤维什提罗回想起婆苏提婆的话,再次问瓦尔什尼之后:智者是如何说出这番话的?
5.154.2
अस्मिन्नभ्यागते काले किंच नः क्षममच्युत ।
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ॥ ५.१५४.२ ॥
此时已至,对我们而言何者为宜,阿周陀?我们如何行事,方能不离自己的法?
5.154.3
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च ।
वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च ॥ ५.१५४.३ ॥
婆苏提婆啊,你知道难敌、迦尔纳、沙恭尼、萨乌跋罗的心意,也知道我和我兄弟们的心意。
5.154.4
विदुरस्यापि तद्वाक्यं श्रुतं भीष्मस्य चोभयोः ।
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ॥ ५.१५४.४ ॥
你已听闻维都罗的那番话,也听过毗湿摩的两番话,以及贡蒂的话。广慧者啊,你的智慧已被完整地听取。
5.154.5
सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः ।
क्षमं यन्नो महाबाहो तद्ब्रवीह्यविचारयन् ॥ ५.१५४.५ ॥
超越这一切,反复思量之后,大臂者啊,请不加再议地告诉我们何者为宜。
5.154.6
श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः ।
मेघदुन्दुभिनिर्घोषः कृष्णो वाक्यमथाब्रवीत् ॥ ५.१५४.६ ॥
听完这番与法和利相合的法王之言,声如雷鼓的克里希纳便说出了这些话。
5.154.7
उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम् ।
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ॥ ५.१५४.७ ॥
我说出了与法和利相合的有益之言,但它无法在那心怀诡诈的俱卢之子心中扎根。
5.154.8
न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा ।
मम वा भाषितं किंचित्सर्वमेवातिवर्तते ॥ ५.१५४.८ ॥
那愚昧之人既不听毗湿摩的,也不听维杜罗的,甚至不听我的任何话,一切都被他置之不顾。
5.154.9
नैष कामयते धर्मं नैष कामयते यशः ।
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ॥ ५.१५४.९ ॥
他既不求法,也不求名;那依靠迦尔纳的恶人,以为一切都已获胜。
5.154.10
बन्धमाज्ञापयामास मम चापि सुयोधनः ।
न च तं लब्धवान्कामं दुरात्मा पापनिश्चयः ॥ ५.१५४.१० ॥
苏yodhana也下令捆绑我;但那心怀恶念的恶人,并未得偿所愿。
5.154.11
न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः ।
सर्वे तमनुवर्तन्ते ऋते विदुरमुच्युत ॥ ५.१५४.११ ॥
毗湿摩与德罗纳在那里都没有说出恰当的话;除维杜罗外,人人都追随他,啊,阿周陀。
5.154.12
शकुनिः सौबलश्चैव कर्णदुःशासनावपि ।
त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ॥ ५.१५४.१२ ॥
苏跋拉之子沙恭尼,以及迦尔纳与难降,也对你说了不当的话;那些愚人对着不能容忍的愚人说话。
5.154.13
किंच तेन मयोक्तेन यान्यभाषत कौरवः ।
संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते ॥ ५.१५४.१३ ॥
那位俱卢子孙对我所说的,简略地作了回答;那恶毒之人对你的态度并不恰当。
5.154.14
पार्थिवेषु न सर्वेषु य इमे तव सैनिकाः ।
यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् ॥ ५.१५४.१४ ॥
并非所有国王如此:你这些士兵中所有的罪恶与不善,全都根植于他身上。
5.154.15
न चापि वयमत्यर्थं परित्यागेन कर्हिचित् ।
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ॥ ५.१५४.१५ ॥
我们绝不愿为了与俱卢子孙求和而过度割让;此后便是战争。
5.154.16
तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् ।
अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ॥ ५.१५४.१६ ॥
众王听了婆苏提婆的这番话,都不言语,而注视着国王的面容,婆罗多啊。
5.154.17
युधिष्ठिरस्त्वभिप्रायमभिलक्ष्य महीक्षिताम् ।
योगमाज्ञापयामास भीमार्जुनयमैः सह ॥ ५.१५४.१७ ॥
然而坚战察知众王的意图,便与怖军、阿周那及双生子一同下令布阵。
5.154.18
ततः किलकिलाभूतमनीकं पाण्डवस्य ह ।
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ॥ ५.१५४.१८ ॥
于是命令既下,般度子的军队便响起喧嚣,士兵们都欢欣鼓舞。
5.154.19
अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः ।
निश्वसन्भीमसेनं च विजयं चेदमब्रवीत् ॥ ५.१५४.१९ ॥
法王坚战见到不可杀者被杀,叹息着对怖军与胜者说了这些话。
5.154.20
यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया ।
सोयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ॥ ५.१५४.२० ॥
我为之忍受林居与痛苦的那件事,如今竟因我们自己的努力而降临到我们身上这大祸。
5.154.21
यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः ।
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ॥ ५.१५४.२१ ॥
我们所努力的事业,因这努力反而对我们失败了;而未曾努力时,大乱却又回到我们身上。
5.154.22
कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति ।
कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति ॥ ५.१५४.२२ ॥
与不可杀者如何能进行战争?杀死师长和长者之后,我们怎样才能获胜?
5.154.23
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः ।
यदुक्तं वासुदेवेन श्रावयामास तद्वचः ॥ ५.१५४.२३ ॥
听了法王的话,折磨敌人的左手神射手(阿周那)便转述了婆苏提婆所说的那番话。
5.154.24
उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च ।
वचनं तत्त्वया राजन्निखिलेनावधारितम् ॥ ५.१५४.२४ ॥
提婆吉之子也曾对贡蒂和维杜罗说过这些话;大王啊,你已完全领会了那番话。
5.154.25
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः ।
नापि युक्तं च कौन्तेय निवर्तितुमयुध्यतः ॥ ५.१५४.२५ ॥
我坚定的看法是,那二人不会称之为非法;昆提之子啊,正在作战的人也不应退缩。
5.154.26
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा ।
स्मयमानोऽब्रवीद्वाक्यं पार्थमेवमिति ब्रुवन् ॥ ५.१५४.२६ ॥
瓦苏提婆闻听此言,又听了萨维亚萨钦的话,便微笑着对般度之子这样说道。
5.154.27
ततस्ते धृतसंकल्पा युद्धाय सह सैनिकाः ।
पाण्डवेया महाराज तां रात्रिं सुखमावसन् ॥ ५.१५४.२७ ॥
于是,大王啊,决心作战的般度诸子与士兵一同,安然度过了那一夜。