Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.156

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.156.1

ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः ।
सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ॥ ५.१५६.१ ॥

于是持国之子合掌,与所有国王一同对山塔努之子毗湿摩说了这番话。

5.156.2

ऋते सेनाप्रणेतारं पृतना सुमहत्यपि ।
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥ ५.१५६.२ ॥

即使是极庞大的军队,若无统帅,一旦陷入战斗便会像蚁穴一样溃散。

5.156.3

नहि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् ।
शौर्यं च वलनेतॄणां स्पर्धते च परस्परम् ॥ ५.१५६.३ ॥

两人的见识从来不会相同,而统领军队者的勇气也会彼此争胜。

5.156.4

श्रूयते च महाप्राज्ञ हैहयानमितौजसः ।
अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ॥ ५.१५६.४ ॥

大智者啊,听说所有婆罗门高举着吉祥草的旗帜,进攻了威力无量的海哈雅人。

5.156.5

तानभ्ययुस्तदा वैश्याः शूद्राश्चैव पितामह ।
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः ॥ ५.१५६.५ ॥

那时,吠舍与首陀罗也向他们发起攻击。祖父啊,一方是三个种姓,另一方是刹帝利中的英雄。

5.156.6

ते स्म युद्धे प्रभज्यन्ते त्रयो वर्णाः पुनः पुनः ।
क्षत्रियाश्च जयन्त्येव बहुलं चैकतो बलम् ॥ ५.१५६.६ ॥

在战斗中,那三个种姓屡屡溃败,而刹帝利却能取胜,因为他们的力量团结而充沛。

5.156.7

ततस्ते क्षत्रियानेव पप्रच्छुर्द्विचसत्तमाः ।
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ॥ ५.१५६.७ ॥

于是那些最优秀的再生者便去询问刹帝利,而通晓法的祖父便把实情告诉了他们。

5.156.8

वयमेकस्य श्रृणुमो महाबुद्धिमतो रणे ।
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ॥ ५.१५६.८ ॥

我们在战场上只听一位大智者的话,而你们各自分开,都听从自己的见识行事。

5.156.9

ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् ।
नये सुकुशलं शूरमजयन्क्षत्रियांस्ततः ॥ ५.१५६.९ ॥

于是那些婆罗门推举一位通晓谋略、英勇无比的再生者为统帅,随后便击败了刹帝利。

5.156.10

एवं ये कुशलं शूरं हितेप्सितमकल्पषम् ।
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ॥ ५.१५६.१० ॥

凡是任命一位善于谋略、英勇、怀有善意且无瑕疵的人为统帅的人,便能在战场上战胜敌人。

5.156.11

भवानुशनसा तुल्यो हितैषी च सदा मम ।
असंहार्थः स्थितो धर्मे स नः सेनापतिर्भव ॥ ५.१५६.११ ॥

您与乌until纳斯相等,并且始终希望我好;您坚守法,不是为了毁灭。请您做我们的统帅。

5.156.12

रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः ।
कुबेर इव यक्षाणां देवानामिव वासवः ॥ ५.१५६.१२ ॥

如光芒之中的太阳,如草木之中的月亮,如夜叉之中的俱毗罗,如诸天之中的因陀罗(婆娑婆)。

5.156.13

पर्वतानां यथा मेरुः सुपर्णः पक्षिणां यथा ।
कुमार इव देवानां वसूनामिव हव्यवाट् ॥ ५.१५६.१३ ॥

如群山中的须弥山,鸟类中的金翅鸟(迦楼罗),诸神中的童子(室建),诸婆苏中的火神。

5.156.14

भवता हि वयं गुप्ताः शत्रेणेव दिवौकसः ।
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ॥ ५.१५६.१४ ॥

蒙你庇护,我们必将无法被战胜,即使是三十三天之神也无法侵犯,如天界居民免于敌人一样。

5.156.15

प्रयातु नो भवानग्रे देवानामिव पावकिः ।
वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ॥ ५.१५६.१५ ॥

愿你走在我们前面,犹如童子(室建)走在诸神前面;我们将跟随你,犹如苏罗毗的牛犊跟随公牛。

5.156.16

एवमेतन्महाबाहो यथा वदसि भारत ।
यथैव हि भवन्तो मे तथैव मम पाण्डवाः ॥ ५.१५६.१६ ॥

大力的婆罗多啊,正如你所说;你们对我怎样,般度之子对我也一样。

5.156.17

अपि चैव मया श्रोयो वाच्यं तेषां नराधिप ।
संयोद्धव्यं तवार्थाय यथा मे समयः कृतः ॥ ५.१५६.१७ ॥

我也应当对他们说有益之言;我必须为你作战,正如我所立下的誓约。

5.156.18

न तु पश्यामि योद्धारमात्मनः सदृशं भुवि ।
ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनञ्जयात् ॥ ५.१५६.१८ ॥

然而在大地上,我看不到能与我相当的战士,除了那位人中猛虎、贡蒂之子檀阇耶(阿周那)。

5.156.19

स हि वेद महाबुद्धिर्दिव्यान्यस्त्राण्यनेकशः ।
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ॥ ५.१५६.१९ ॥

他智慧超群,通晓众多神圣武器;然而,在战场上我若无防护,般度之子绝不会与我交战。

5.156.20

अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् ।
कुर्यावास्त्रबलेनैव ससुरासुरराक्षसम् ॥ ५.१५६.२० ॥

他与我在瞬间便能凭借兵器之力,使这个世界连同天神、阿修罗和罗刹都没有人类。

5.156.21

न त्वेवोत्सादनीया मे पाण्डोः पुत्रा जनाधिप ।
तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा ॥ ५.१५६.२१ ॥

然而,人主啊,我不可毁灭般度之子;因此我将以武器之力,始终杀死一万名战士。

5.156.22

एवमेषां फरिष्यामि निधनं कुरुनन्दन ।
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ॥ ५.१५६.२२ ॥

如此,库鲁之喜啊,我将使他们走向死亡,除非他们在交锋时先杀了我。

5.156.23

सेनापतिस्त्वहं राजन्समयेनापरेण ते ।
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ॥ ५.१५६.२३ ॥

但是,王啊,我将在另一个条件下成为你的统帅;你应当在此从我这里听取那个条件,如你所愿。

5.156.24

कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते ।
स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे ॥ ५.१५६.२४ ॥

地上之主啊,在作战之人中,是迦尔纳先战,还是我先战呢?因为这位御者之子,在战场上总是极力与我相争。

5.156.25

नाहं जीवति गाङ्गेये राजन्योत्स्ये कथंचन ।
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ॥ ५.१५६.२५ ॥

大王啊,只要恒河之子(毗湿摩)在世,我绝不参战。待毗湿摩被杀之后,我才会与持甘狄拔弓者一同作战。

5.156.26

ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् ।
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ॥ ५.१५६.२६ ॥

于是,持国之子(难敌)依照仪轨,以丰厚的祭礼之资,任命毗湿摩为军队统帅。受灌顶之后,他光彩焕发。

5.156.27

ततो भेरीश्च शङ्खांश्च शतशोऽथ सहस्रशः ।
वादयामासुव्यग्रा वादका राजशासनात् ॥ ५.१५६.२७ ॥

于是,奉王命,忙碌的乐师们吹响了成百上千的大鼓与海螺。

5.156.28

सिंहनादाश्च विविधा वाहनानां च निःस्वनाः ॥ ५.१५६.२८ ॥

狮子般的吼声与坐骑的种种嘶鸣声同时响起。

5.156.29

निर्घार्ताः पृथिवीकम्पा गजबृंहितनिःस्वनाः ।
आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ॥ ५.१५६.२९ ॥

可怖的轰鸣、大地的震动和象群的嘶吼同时发生,使所有战士的心为之震颤。

5.156.30

वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे ।
शिवाश्च भयवेदिन्यो नेदुर्दीप्ततरा भृशम् ॥ ५.१५६.३० ॥

无形的声音响起,天空中坠落流星;预示恐惧的豺狼发出愈发炽烈的嚎叫。

5.156.31

सैनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् ।
तदैतान्युग्ररूपाणि बभूवुः शतशो नृप ॥ ५.१५६.३१ ॥

大王啊,当国王任命恒河之子(毗湿摩)为统帅时,这些凶相便成百地显现了。

5.156.32

ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् ।
वाचयित्वा द्विजश्रेष्ठान्गोभिर्निष्कैश्च भूरिशः ॥ ५.१५६.३२ ॥

随后,任命摧毁敌军的毗湿摩为统帅,令最优秀的婆罗门诵念吉祥祝辞,并大量布施牛和金币。

5.156.33

वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः ।
आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ॥ ५.१५६.३३ ॥

在胜利的祝福中益发强盛,被士兵环绕,以阿帕伽之子(毗湿摩)为前导,他便与兄弟们一同出发了。

5.156.34

स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ॥ ५.१५६.३४ ॥

他率领庞大的营帐,果然前往库鲁之野。

5.156.35

परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः ।
शिबिरं मापयामास समे देशे जनाधिप ॥ ५.१५६.३५ ॥

库鲁族王子与迦尔纳绕行库鲁之野之后,在平坦之地丈量了营地,人主啊。

5.156.36

मधुरानूषरे देशे प्रभूतयवसेन्धने ।
यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ॥ ५.१५६.३६ ॥

在甘甜而贫瘠的盐碱之地,草料与柴薪丰饶,营地光彩照人,正如哈斯蒂纳普拉一般。