Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.157

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.157.1

आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् ।
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ॥ ५.१५७.१ ॥

恒河之子、大德的毗湿摩,持武者中的最优者,婆罗多族的祖父,一切大地之王的旗帜。

5.157.2

बृहस्पतिसं बुद्ध्या क्षमया पृथिवीसमम् ।
समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् ॥ ५.१५७.२ ॥

智慧如同木星仙人,忍耐如同大地,深沉如同大海,坚定如同喜马拉雅山。

5.157.3

प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् ।
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ॥ ५.१५७.३ ॥

慷慨如同生主,光辉如同太阳,以箭雨毁灭敌人如同大因陀罗。

5.157.4

रणयज्ञे प्रवितते सुभीमे लोमहर्षणे ।
दीक्षितं चिररात्राय श्रुत्वा तत्र युधिष्ठिरः ॥ ५.१५७.४ ॥

当战争之祭广泛展开,极其可怖、令人毛骨悚然时,般度之子坚战听闻那里的人已为漫长之夜受戒。

5.157.5

किमब्रवीन्महाबाहुः सर्वशस्त्रभृतां वरः ।
भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यभाषत ॥ ५.१५७.५ ॥

大臂者,持一切武器者中的最优者说了什么?怖军、阿周那,或者黑天,又回答了什么?

5.157.6

आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः ।
सर्वान्भ्रातॄन्समानीय वासुदेवं च शाश्वतम् ॥ ५.१५७.६ ॥

坚战精通逆境中的法与利,大智慧者,召集了所有兄弟和永恒的婆苏提婆,

5.157.7

उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः ।
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः ॥ ५.१५७.७ ॥

辩才最优者先以安慰之语说出此言,并在军中走动,说道:“穿好铠甲,严阵以待。”

5.157.8

पितामहेन वो युद्धं पूर्वमेव भविष्यति ।
तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ॥ ५.१५७.८ ॥

你们与祖父的战斗将首先发生;因此在七支军队中,请看我的统帅。

5.157.9

यथार्हति भवान्वक्तुमस्मिन्काले ह्युपस्थिते ।
तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ॥ ५.१५७.९ ॥

此时既已来临,你理应如此开口;婆罗多中的公牛啊,你所说的这些话很有道理。

5.157.10

रोचते मे महाबाहो क्रियतां यदनन्तरम् ।
नायकास्तव सेनायां क्रियन्तामिह सप्त वै ॥ ५.१५७.१० ॥

大臂者啊,此事我很赞同;接下来应当施行。请在你的军中任命七位统帅。

5.157.11

ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् ।
धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिव।
शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ॥ ५.१५७.११ ॥

随后,召来德鲁帕达、毗罗吒、诸尸尼中最优者、般遮罗的德里斯塔德尤姆纳、德里斯塔盖图、大王啊、般遮罗的湿婆坎丁,以及摩揭陀的萨哈德瓦……

5.157.12

एतान्सप्त महाभागान्वीरान्युद्धाभिकाङ्क्षिणः ।
सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः ॥ ५.१५७.१२ ॥

这七位大福的勇士渴望战斗,坚战依礼仪为他们行灌顶,立为军中统帅。

5.157.13

सर्वसेनापतिं चात्र धृष्टद्युम्नं चकार ह ।
द्रोणान्तहेतोरुत्पन्नो य इद्धाञ्जातवेदसः ॥ ५.१५७.१३ ॥

此处,他任命持国之子的对手德里施塔德尤姆纳为所有军队的统帅;他正是为了德罗纳的终结,从耆陀华沙(阿耆尼)燃烧的火焰中所生者。

5.157.14

सर्वेषामेव तेषां तु समस्तानां महात्मनाम् ।
सेनापतिपतिं चक्रे गडाकेशं धनञ्जयम् ॥ ५.१५७.१४ ॥

在所有这些大德之中,他任命古达克沙·达那阇耶为诸将之主。

5.157.15

अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् ।
सङ्कर्णणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ॥ ५.१५७.१५ ॥

光辉的、大智慧的遮那陀那(黑天),即桑卡尔沙那之弟,也是阿周那的引导者和马车的驭者。

5.157.16

तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् ।
प्राविशद्भवनं राज्ञः पाण्डवानां हलायुधः ॥ ५.१५७.१६ ॥

见战争临近、大灾将至,持犁者(大力罗摩)走进了般度诸子之王的宫殿。

5.157.17

सहाक्रूरप्रभृतिभिर्ददसाम्बोद्धवादिभिः ।
रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ॥ ५.१५७.१७ ॥

与阿克鲁若等人同行,与德拉德萨、萨姆巴、乌达瓦等人同行,与鲁克弥尼之子和阿呼卡之子同行,以遮卢提舍那为首。

5.157.18

वृष्णिमुख्यैरधिगतैर्व्याघ्रैरिव बलोत्कटैः ।
अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ॥ ५.१५७.१८ ॥

被瓦利尼的首领们——如猛虎般强健的勇士们——所环绕,大臂者(罗摩)如同被摩录多们护卫的伐娑婆(因陀罗)一般受到守护。

5.157.19

नीलकौशेयवसनः कैलासशिखरोपमः ।
सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः ॥ ५.१५७.१९ ॥

身着深蓝丝绸,如同凯拉萨峰,步态如戏耍的狮子,光彩照人,因醉意眼角发红。

5.157.20

तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः ।
उदतिष्ठत्ततः पार्थो भीमकर्मा वृकोदरः ॥ ५.१५७.२० ॥

见到他,法王与光辉灿烂的凯舍婆起身;随后,阿周那与行事可怖的狼腹也起身。

5.157.21

गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन ।
पूजयाञ्चक्रिरे ते वै समायान्तं हलायुधम् ॥ ५.१५७.२१ ॥

手持甘狄拔弓者以及在场的其他一些国王,向走来的犁杖者(巴拉罗摩)致敬。

5.157.22

ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना ।
वासुदेवपुरोगास्तं सर्व एवाभ्यवादयन् ॥ ५.१५७.२२ ॥

随后,般度王以手触其手;在婆苏提婆的带领下,众人都向他行礼致敬。

5.157.23

विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः ।
युधिष्ठिरेण सहित उपाविशदरिन्दमः ॥ ५.१५७.२३ ॥

向两位长者毗罗吒与德鲁波陀致敬后,克敌的犁杖者与坚战一同坐下。

5.157.24

ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः ।
वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ॥ ५.१५७.२४ ॥

待众王围坐四周后,罗希尼之子望着婆苏提婆,开口说道。

5.157.25

भवितायं महारौद्रो दारुणः पुरुषक्षयः ।
दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ॥ ५.१५७.२५ ॥

这将是一场可怕而惨烈的人员毁灭。我认为这一定是命中注定的,无法避免。

5.157.26

तस्माद्युद्धात्समुत्तीर्णानपि वः समुहृञ्जानान् ।
अरोगानक्षतैर्देहैर्द्रष्टास्मीति मतिर्मम ॥ ५.१५७.२६ ॥

因此,我认为,你们中从那场战争中幸存、与善友同在的人,我将会看到他们身体无病、毫发无损。

5.157.27

समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् ।
विमर्दश्च महान्भावी मांसशोणितकदर्दमः ॥ ५.१५७.२७ ॥

国王的刹帝利群体已经聚集,时机已经成熟,毫无疑问。将会发生大规模的屠杀,血肉之泥遍地。

5.157.28

उक्तो मया वासुदेवः पुनः पुनरुपह्वरे ।
संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ॥ ५.१५७.२८ ॥

我曾在私下里一再对婆苏提婆说:哦,摩图苏陀那,对待你的亲族要一视同仁。

5.157.29

पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः ।
तस्यापि क्रियतां साह्यं स पर्येति पुनःपुनः ॥ ५.१५७.२९ ॥

就像般度五子是我们的人一样,国王难敌也是。也应当给他提供帮助;他一次又一次地前来。

5.157.30

तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः ।
निर्विष्टः सर्वभावेन धनञ्जयमवेक्ष्य ह ॥ ५.१५७.३० ॥

然而摩图苏陀那没有听从我的话,因为他为了你们,全心全意地注视着持财(阿周那)。

5.157.31

ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः ।
तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ॥ ५.१५७.३१ ॥

般度之子的胜利是确定的,这是我坚定的看法。婆罗多啊,婆苏提婆的决心也是如此。

5.157.32

न चाहमृत्सहे कृष्णमृते लोकमुदीक्षितुम् ।
ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ॥ ५.१५७.३२ ॥

没有克里希那,我连看这个世界都不能忍受,因此我顺从克沙瓦的心意。

5.157.33

उभौ शिष्यौ हि मे वीरौ गदायद्धविशारदौ ।
तुल्यस्नेहोऽस्म्यतो भीते तथा दुर्योधने नृपे ॥ ५.१५७.३३ ॥

这两位精通棍棒战的英雄都是我的弟子;因此,对于受惊的国王难敌,我同样怀有慈爱。

5.157.34

तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् ।
न हि शक्ष्यामि कौरव्यान्नश्यमानानवेक्षितुम् ॥ ५.१५७.३४ ॥

因此我将前往萨拉斯瓦蒂河的圣渡口朝拜,因为我不忍看着俱卢族走向毁灭。

5.157.35

एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः ।
तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ॥ ५.१५७.३५ ॥

说完这些,大臂罗摩得到般度五子的许可,让摩图苏陀那返回,便踏上了朝圣之旅。