摩诃婆罗多 · 章 5.162
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.162.1
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् ।
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया ॥ ५.१६२.१ ॥
乌卢迦再次对阿周那说了先前相同的话,如同用言语之箭刺激愤怒的毒蛇。
5.162.2
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् ।
प्रागेव भृशसंक्रुद्धाः कैतव्येनापि धर्षिताः ॥ ५.१६२.२ ॥
般度之子闻其言,极为愤怒;他们本已怒火中烧,又因这诡计而更加受辱。
5.162.3
आसनेषूदतिष्ठन्त बाहूंश्चैव प्रचिक्षिपुः ।
आशीविषा इव क्रुद्धा वीक्षाञ्चक्रुः परस्परम् ॥ ५.१६२.३ ॥
他们从座位上站起,挥动手臂;如同愤怒的毒蛇,彼此怒目相视。
5.162.4
अवाक्छिरा भीमसेनः समुदैक्षत कैतवम् ।
नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् ॥ ५.१६२.४ ॥
毗摩先那低着头,怒视那欺诈之人;双眼赤红边缘,如蛇般喘息。
5.162.5
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् ।
उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत ॥ ५.१६२.५ ॥
见风之子(毗摩)痛苦且被愤怒深深刺痛,达沙尔哈(克里希那)微微一笑,向那欺诈者答话。
5.162.6
प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम् ।
श्रुतं वाक्यं गृहीतोर्थो मतं यत्ते तथास्तु तत् ॥ ५.१६२.६ ॥
欺诈者,快去吧,告诉苏约达那:‘话已听到,意义已领会;你的意见如何,就如何吧。’
5.162.7
एवमुक्त्वा महाबाहुः केशवो राजसत्तम ।
पुनरेव महाप्राज्ञं युधिष्ठिरमुदैक्षत ॥ ५.१६२.७ ॥
如此说罢,大臂的克舍婆(克利须那),王中之最,再次望向大智的坚战。
5.162.8
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः ।
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ ॥ ५.१६२.८ ॥
在所有的斯陵阇耶人、名声显赫的黑天、德鲁帕达及其诸子、毗罗吒面前。
5.162.9
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ।
उलूकोऽप्यर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् ॥ ५.१६२.९ ॥
在所有国王之中他说了话;优楼迦也再次对阿周那说了先前所说的话。
5.162.10
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया ।
कृष्णादींश्चैव तान्सर्वान्यथोक्तं वाक्यमब्रवीत् ॥ ५.१६२.१० ॥
如同愤怒的毒蛇,以言语之箭刺伤,他对黑天等所有人说了先前所说的话。
5.162.11
उलूकस्य तु तद्वाक्यं पापं दारुणमीरितम् ।
श्रुत्वा विचुक्षुभे पार्थो ललाटं चाप्यमार्जयत् ॥ ५.१६२.११ ॥
听到优楼迦那恶毒而严厉的话,阿周那心神激荡,并擦拭了额头。
5.162.12
तदवस्थं तदा दृष्ट्वा पार्थं सा समितिर्नृप ।
नामृष्यत महाराज पाण्डवानां महारथाः ॥ ५.१६२.१२ ॥
国王啊,那时众人见阿周那如此模样,那集会便不能忍受;大王啊,般度族的大车战士也不能忍受。
5.162.13
अधिक्षेपेण कृष्णस्य पार्थस्य च महात्मनः ।
श्रुत्वा ते पुरुषव्याघ्राः क्रोधाञ्जज्वलुरच्युत ॥ ५.१६२.१३ ॥
闻此对克里希那与大德贡蒂之子的侮辱,那些人中之虎因愤怒而燃烧,阿周那不退者啊。
5.162.14
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः ।
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः ॥ ५.१६२.१४ ॥
德里斯塔德尤姆那、Śikhaṇḍin、大车将萨谛奇、羯迦耶的五位兄弟,以及罗刹迦托特迦。
5.162.15
द्रौपदेयाभिमन्युश्च धृष्टकेतुश्च पार्थिवः ।
भीमसेनश्च विक्रान्तो यमजौ च महारथौ ॥ ५.१६२.१५ ॥
德罗波蒂的诸子、阿毗曼尤、国王德里斯塔克图、勇猛的毗摩娑那,以及孪生的两位大车将。
5.162.16
उत्पेतुरासनात्सर्वे क्रोधसंरक्तलोचनाः ।
बाहुन्प्रगृह्य रुचिरान्रक्तचन्दनरूषितान्।
अङ्गदैः पारिहार्यैश्च केयूरैश्च विभूषितान् ॥ ५.१६२.१६ ॥
众人怒目通红,从座位上跃起,举起涂抹红檀香的美丽手臂,手臂上饰有臂钏、赠予的饰物与臂环。
5.162.17
दन्तान्दन्तेषु निष्पिष्य सृक्किणी परिलेलिहन् ।
तेषामाकारभावज्ञः कुन्तीपुत्रो वृकोदरः ॥ ५.१६२.१७ ॥
咬牙切齿,舔着嘴角,贡蒂之子狼腹(毗摩)从他们的形貌中识得其心意。
5.162.18
उदतिष्ठत्स वेगेन क्रोधेन प्रज्वलन्निव ।
उद्वृत्य सहसा नेत्रे दन्तान्कटकटाय्य च ॥ ५.१६२.१८ ॥
他猛然起身,仿佛怒火熊熊;忽然转动双眼,咬牙作响。
5.162.19
हस्तं हस्तेन निष्पिष्य उलूकं वाक्यमब्रवीत् ।
अशक्तानामिवास्माकं प्रोत्साहननिमित्तकम् ॥ ५.१६२.१९ ॥
他双手相握用力挤压,对乌卢迦说了这些话,仿佛是为了鼓励我们这些无力者。
5.162.20
श्रुतं ते चवनं मूर्ख यत्त्वां दुर्योधनोऽब्रवीत् ।
तन्मे कथयतो मन्द श्रृणु वाक्यं दुरासदम् ॥ ५.१६२.२० ॥
愚人啊,你已听到难陀可约所说的话。愚钝者啊,现在听我说这难以忍受的话。
5.162.21
सर्वक्षत्रस्य मध्ये तं यद्वक्ष्यसि सुयोधनम् ।
श्रृण्वतः सूतपुत्रस्य पितुश्च त्वं दुरात्मनः ॥ ५.१६२.२१ ॥
在所有刹帝利中间,你要对苏由陀那说的话,当御者之子和你那心怀恶念的父亲在听时……
5.162.22
अस्माभिः प्रीतिकामैस्तु भ्रातुर्ज्येष्ठस्य नित्यशः ।
मर्षितं ते दुराचार तत्त्वं न बहु मन्यसे ॥ ५.१६२.२२ ॥
我们一直希望与长兄友好,因此忍受了这些;作恶者啊,你并不看重这一点。
5.162.23
प्रेषितश्च हृषीकेशः शमाकाङ्क्षी कुरून्प्रति ।
कुलस्य हितकामेन धर्मराजेन धीमता ॥ ५.१६२.२३ ॥
智慧的法王希望家族的福祉、追求和平,派遣了希里史基舍去见俱卢族。
5.162.24
त्वं कालचोदितो नूनं गन्तुकामो यमक्षयम् ।
गच्छस्वाहवमस्माभिस्तच्च श्वो भविता ध्रुवम् ॥ ५.१६२.२४ ॥
你被时运驱使,必定想前往阎摩的居所。与我们一同去战场吧,那必定在明天发生。
5.162.25
मयापि च प्रतिज्ञातो वधः सभ्रातृकस्य ते ।
स तथा भविता पाप नात्र कार्या विचारणा ॥ ५.१६२.२५ ॥
我也已发誓要杀死你和你的兄弟们。罪人啊,事情必将如此;此事无须再议。
5.162.26
वेलामतिक्रमेत्सद्यः सागरो वरुणालयः ।
पर्वताश्च विशीर्येयुर्मयोक्तं न मृषा भवेत् ॥ ५.१६२.२६ ॥
即使掌管水的伐楼那之居所大海立刻越过海岸,群山崩裂,我所说的话也不会是虚妄的。
5.162.27
सहायस्ते यदि यमः कुबेरो रुद्र एव वा ।
यथाप्रतिज्ञं दुर्बुद्धे प्रकरिष्यन्ति पाण्डवाः ।
दुःशासनस्य रुधिरं पाता चास्मि यथेप्सितम् ॥ ५.१६२.२७ ॥
即使阎摩、俱毗罗或楼陀罗本身是你的助手,愚蠢的人啊,般度之子也会依照誓言行事;我将随心所欲地饮下难降的血。
5.162.28
यश्चेह प्रतिसंरब्धः क्षत्रियो माभियास्यति ।
अपि भीष्मं पुरुस्कृत्य तं नेष्यामि यमक्षयम् ॥ ५.१६२.२८ ॥
凡在此处怀怒来攻击我的刹帝利,即便把毗湿摩置于前面,我也要把他送往阎摩之处。
5.162.29
यच्चैतदुक्तं वचनं मया क्षत्रस्य संसदि ।
यथैतद्भविता सत्यं तथैवात्मानमालभे ॥ ५.१६२.२९ ॥
我在刹帝利的集会上所说的这番话,将如何成为真实,我便如此以自身作保。
5.162.30
भीमसेनवचः श्रुत्वा सहदेवोऽप्यमर्षणः ।
क्रोधसंरक्तनयनस्ततो वाक्यमुवाच ह ॥ ५.१६२.३० ॥
听到毗摩森那的话,不能忍耐的偕天也怒目通红,于是说出了这些话。
5.162.31
शौटीरशूरसदृशमनीकजनसंसदि ।
श्रृणु पाप वचो मह्यं यद्वाच्यो हि पितात्वया ॥ ५.१६२.३१ ॥
在这支如同骄傲英雄的军队集会中,听着,罪人,我的话,你应当转告你的父亲。
5.162.32
नास्माकं भविता भेदः कदाचित्कुरुभिः सह ।
धृतराष्ट्रस्य संबन्धो यदि न स्यात्त्वया सह ॥ ५.१६२.३२ ॥
若不是持国与你有血缘之亲,我们与俱卢族之间本不会有任何分裂。
5.162.33
त्वं तु लोकविनाशाय धृतराष्ट्रकुलस्य च ।
उत्पन्नो वैरपुरुषः स्वकुलघ्नश्च पापकृत् ॥ ५.१६२.३३ ॥
而你,生为仇恨之人,是为毁灭世界和持国之家而降生的,是杀害自家族人的罪人。
5.162.34
जन्मप्रभृति चास्माकं पिता ते पापपूरुषः ।
अहितानि नृशंसानि नित्यशः कर्तुमिच्छति ॥ ५.१६२.३४ ॥
从出生起,你那罪孽深重的父亲就时时想对我们做有害而残忍的事。
5.162.35
तस्य वैरानुषङ्गस्य गन्तास्म्यन्तं सुदुर्गमम् ।
अहमादौ निहत्य त्वां शकुनेः संप्रपश्यतः ॥ ५.१६२.३५ ॥
我将走到那漫长艰难的仇恨链条的尽头;我会先在沙恭尼密切注视下杀死你。
5.162.36
ततोऽस्मि शकुनिं हन्ता मिषतां सर्वधन्विनाम् ।
भीमस्य वचनं श्रुत्वा सहदेवस्य चोभयोः ॥ ५.१६२.३६ ॥
然后,在所有弓手注视之下,我将杀死沙恭尼,听完了比摩与萨哈德瓦两人的话之后。
5.162.37
उवाच फाल्गुनो वाक्यं भीमसेनं स्मयन्निव ।
भीमसेन न ते सन्ति येषां वैरं त्वया सह ॥ ५.१६२.३७ ॥
阿周那微笑着对怖军说:哦,怖军,与你有仇的人已不复存在。
5.162.38
मन्दा गृहेषु सुखिनो मृत्युपाशवशं गताः ।
उलूकश्च न ते वाच्यः परुषं पुरुषोत्तम ॥ ५.१६२.३८ ॥
那些在家中安乐生活的愚人已落入死亡绳索的掌控。哦,人中最杰出者,即使对乌卢迦你也不该说严厉的话。
5.162.39
दूताः किमपराध्यन्ते यथोक्तस्यानुभाषिणः ।
एवमुक्त्वा महाबाहुर्भीमं भीमपराक्रमम् ॥ ५.१६२.३९ ॥
那些只是复述所受之言的使者有什么过错呢?大臂者说完这些话,便对威猛勇武的怖军说道。
5.162.40
धृष्टद्युम्नसुखान्वीरान्सुहृदः समभाषत ।
श्रुतं वस्तस्य पापस्य धार्तराष्ट्रस्य भाषितम् ॥ ५.१६२.४० ॥
他对英雄德里斯塔尤姆那及其他朋友说:你们已经听到了那个邪恶的持国之子的话。
5.162.41
कुत्सनं वासुदेवस्य मम चैव विशेषतः ।
श्रुत्वा भवन्तः संरब्धा अस्माकं हितकाम्यया ॥ ५.१६२.४१ ॥
你们听到对婆薮提婆、尤其是对我的辱骂,都出于希望我们安好而怒火中烧。
5.162.42
प्रभावाद्वासुदेवस्य भवतां च प्रयत्नतः ।
समग्रं पार्थिवं क्षत्रं सर्वं न गणयाम्यहम् ॥ ५.१६२.४२ ॥
凭借婆薮提婆的威力和你们的努力,我根本不把整个王族武士阶层放在眼里。
5.162.43
भवद्भिः समनुज्ञातो वाक्यमस्य यदुत्तरम् ।
उलूके प्रापयिष्यामि यद्वक्ष्यति सुयोधनम् ॥ ५.१६२.४३ ॥
蒙诸位允许,我将把他的回答转告乌卢迦,以及苏由陀那所要说的一切。
5.162.44
श्वो भूते कत्थितस्यास्य प्रतिवाक्यं चमूमुखे ।
गाण्डीवेनाभिधास्याकमि क्लीबा हि वचनोत्तराः । ॥ ५.१६२.४४ ॥
明日于阵前,我们将以甘狄拔弓回应这位夸口者的答复;因为只以言语回答的人是无能之辈。
5.162.45
ततस्ते पार्थिवाः सर्वे प्रशशंसुर्धनञ्जयम् ।
तेन वाक्योपचारेण विस्मिता राजसत्तमाः ॥ ५.१६२.४५ ॥
于是诸王皆赞叹达那阇耶,为其言辞之方式所惊讶,诸王中的最优者。
5.162.46
अनुनीय च तान्सर्वान्यथामान्यं यथावयः ।
धर्मराजं तदा वाक्यं तत्प्राप्यं प्रत्यभाषत ॥ ५.१६२.४६ ॥
于是,依各人的尊位与年岁,安抚了他们所有人,然后以那适当的言辞回答法王。
5.162.47
आत्मानमवमन्वानो न हि स्यात्पार्थिवोत्तमः ।
तत्रोत्तरं प्रवक्ष्यामि तव शुश्रूषणे रतः ॥ ५.१६२.४७ ॥
自轻之人不能成为最优之王;因此我将专心侍奉您,说出那答复。
5.162.48
उलूकं भरतश्रेष्ठ सामपूर्वमथोर्जितम् ।
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः ॥ ५.१६२.४८ ॥
婆罗多中最优者啊!听完乌卢迦转达的、以和解开头却语气强硬的苏由陀那之言后,婆罗多之牛。
5.162.49
अतिलोहितनेत्राभ्यामाशीविष इव श्वसन् ।
स्मयमान इव क्रोधात्सृक्किणी परिसंलिहन् ॥ ५.१६२.४९ ॥
双眼通红,如毒蛇般喘息,因愤怒而似笑非笑,用舌头舔着嘴角。
5.162.50
जनार्दनमभिप्रेक्ष्य भ्रातॄंश्चैवेदमब्रवीत् ।
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥ ५.१६२.५० ॥
他望着遮那陀那和诸兄弟说了这些话,举起强壮的手臂,向这个欺诈者的使者说道。
5.162.51
उलूक गच्छ कैतव्य ब्रूहि तात सुयोधनम् ।
कृतघ्नं वैरपुरुषं दुर्मतिं कुलपांसनम् ॥ ५.१६२.५१ ॥
去吧,乌卢迦,欺诈者之子!亲爱的,把话告诉难敌——这个忘恩负义、怀有敌意、心术不正、玷污家族之人。
5.162.52
पाण्डवेषु सदा पाप नित्यं जिह्मं प्रवर्तते ।
स्ववीर्याद्यः पराक्रम्य पाप आह्वयते परान्।
अभीतः पूरयन्वाक्यमेष वैः क्षत्रियः पुमान् ॥ ५.१६२.५२ ॥
这个恶人对般度之子始终行事邪曲。若有人凭自己的力量显示勇武,挑战他人,无所畏惧地践行诺言——这才是刹帝利之人。
5.162.53
स पापः क्षत्रियो भूत्वा अस्मानाहूय संयुगे ।
मान्यामान्यान्पुरस्कृत्य युद्धं मा गाः कुलाधम ॥ ५.१६२.५३ ॥
让这个恶人成为刹帝利,将受尊敬者与不受尊敬者置于前列,在战场上召唤我们。家族的败类啊,不要去作战。
5.162.54
आत्मवीर्यं समाश्रिकत्य भृत्यवीर्यं च कौरव ।
आह्वयस्व रणे पार्थान्सर्वथा क्षत्रियो भव ॥ ५.१६२.५४ ॥
凭借你自己的力量和你部下的力量,俱卢之子啊,在战场上挑战普利塔之子吧;彻底地做一名刹帝利吧。
5.162.55
परवीर्यं समाश्रित्य यः समाह्वयते परान् ।
अशक्तः स्वयमादातुमेतदेव नपुंसकम् ॥ ५.१६२.५५ ॥
倚仗他人之力而挑战敌人,自己却无力应战之人,正是一个阉人。
5.162.56
स त्वं परेषां वीर्येण आत्मानं बहुमन्यसे ।
कथमेवमशक्तस्त्वमस्मान्समभिगर्जसि ॥ ५.१६२.५६ ॥
你借他人之力便自以为了不起。如此无能,你为何还对我们咆哮?
5.162.57
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः ।
श्व इदानीं प्रपद्येथाः पुरुषो भव दुर्मते ॥ ५.१६२.५७ ॥
请再把我的话转告那苏由陀那:'恶念之人啊,立刻归降,否则就做一个男子汉!'
5.162.58
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः ।
सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च ॥ ५.१६२.५८ ॥
愚昧之人啊,你以为生主(黑天)不会参战,因为般度之子选他做了御者——所以你不畏惧。
5.162.59
जघन्यकालमप्येतन्न भवेत्सर्वपार्थिवान् ।
निर्दहेयमहं क्रोधात्तृणानीव हुताशनः ॥ ५.१६२.५९ ॥
即便这不是最后的时刻,我也会怒火中烧,把所有国王烧尽,如同烈火焚烧干草。
5.162.60
युधिष्ठिरनियोगात्तु फाल्गुनस्य महात्मनः ।
करिष्ये युध्यमानस्य सारथ्यं विजितात्मनः ॥ ५.१६२.६० ॥
但依照坚战的命令,我将为伟大的法尔古那(阿周那)御车——他自制而正在作战。
5.162.61
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् ।
तत्रतत्रार्जुनरथं प्रभाते द्रक्ष्यसे पुनः ॥ ५.१६२.६१ ॥
即使你飞升至三界之上,或潜入大地深处,黎明时你仍会在处处看见阿周那的战车。
5.162.62
यच्चापि भीमसेनस्य मन्यसे मोघभाषितम् ।
दुःशासनस्य रुधिरं पीतमद्यावधारय ॥ ५.१६२.६२ ॥
你以为是毕摩森纳的空话——杜沙萨那之血已被饮下——今日你当确知此事。
5.162.63
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः ।
न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ॥ ५.१६२.६३ ॥
无论是普利塔之子、国王坚战、毕摩森纳,还是双胞胎兄弟,都不愿看你——你这出言相悖之人。