摩诃婆罗多 · 章 5.163
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.163.1
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभ ।
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ॥ ५.१६३.१ ॥
婆罗多族的雄牛啊!听了难敌的那番话,他以极度通红的双眼凝视着欺诈者。
5.163.2
स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः ।
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥ ५.१६३.२ ॥
大名鼎鼎的古达克舍(阿周那)望着克舍婆,高举宽阔的臂膀,对欺诈者说道。
5.163.3
स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् ।
अभीतो युध्यते शत्रून्स वै पुरुष उच्यते ॥ ५.१६३.३ ॥
凭借自身的勇力向敌人挑战、无所畏惧地与敌人作战的人,才真正被称为男子汉。
5.163.4
परवीर्यं समाश्रित्य यः समाह्वयते परान् ।
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ॥ ५.१६३.४ ॥
依靠他人的勇力去挑战敌人的人,因无能而只是刹帝利之名义上的亲属;在世上,他是人中最卑劣的。
5.163.5
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः ।
स्वयं कापुरुषो मूढ परांश्च क्षेप्तुमिच्छसि ॥ ५.१६३.५ ॥
你把别人的勇力当作自己的勇力;愚昧之人啊,你自己就是懦夫,却还想羞辱别人。
5.163.6
यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् ।
मरणाय महाप्रज्ञं दीक्षयित्वा विकत्थसे ॥ ५.१६३.६ ॥
你把那位年长、智慧高深、克制感官、对诸王心怀善意的长者献给了死亡,却还在夸耀。
5.163.7
भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन ।
न हनिष्यन्ति गाङ्गेयं पाण्डवा घृणयेति हि ॥ ५.१६३.७ ॥
愚蠢的败类啊!我们知道你的心思:你以为般度之子出于怜悯不会杀死甘伽之子(毗湿摩)。
5.163.8
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे ।
हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् । ॥ ५.१६३.८ ॥
德拉什特拉之子啊!你倚仗其威力而夸口,我这个杀手将在所有射手面前,首先杀死毗湿摩。
5.163.9
कैतव्य गत्वा भरतान्समेत्य ।
सुयोधनं धार्तराष्ट्रं वदस्व।
तथेत्युवाचार्जुनः सव्यसाची ।
निशाव्यपाये भविता विमर्दः ॥ ५.१६३.९ ॥
卡伊塔维亚啊,去见婆罗多族人,告诉德拉什特拉之子苏由陀那。左右开弓的阿周那说:“就这样吧:夜尽之时,将有大屠杀。”
5.163.10
सुयोधनं धार्तराष्ट्रं वदस्व ॥ ५.१६३.१० ॥
请告诉德拉什特拉之子苏由陀那。
5.163.11
हन्यामहं द्रोणमृतेऽपि लोकं ।
न ते भयं विद्यते पाण्डवेभ्यः ।
ततो हि ते लब्धमतं च राज्य-
मापद्गताः पाण्डवाश्चेति भावः ॥ ५.१६३.११ ॥
即使没有德罗纳,我也能杀尽世界;你不惧般度之子。因此你得到了王国,而般度之子陷入了困境——这便是其意。
5.163.12
स दर्पपूर्णो न समीक्षसे त्व-
मनर्थमात्मन्यपि वर्तमानम्।
तस्मादहं ते प्रथमं समूहे ।
हन्ता समक्ष कुरुवृद्धमेव ॥ ५.१६३.१२ ॥
你充满傲慢,连降临在自己身上的灾祸都看不见。因此在军中,我将在你眼前,首先杀死库鲁族的长者。
5.163.13
सूर्योदये युक्तसेनः प्रतीक्ष्य ।
ध्वजी रथी रक्षत सत्यसन्धम्।
अहं हि वः पश्यतां द्विपमेनं ।
भीष्मं रथात्पातयिष्यामि बाणैः ॥ ५.१६३.१३ ॥
日出之时,大军列阵等待,愿持旗的车战士守护诚实之誓的毗湿摩。在你们注视之下,我将以箭把这位如象的战士毗湿摩从战车上射落。
5.163.14
श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः ।
आचितं शरजालेन मया दृष्ट्वा पितामहम् ॥ ५.१६३.१४ ॥
待到明日,苏尤达那将知道我那些夸口之言的分量,他将看到祖父被我的箭网所覆盖。
5.163.15
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः ।
क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ॥ ५.१६३.१५ ॥
在会场之中,愤怒的毗摩森那所说的那个身材矮小的人,便是你的兄弟难降。
5.163.16
अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत् ।
सत्यां प्रतिज्ञामचिराद्द्रक्ष्यसे तां सुयोधन ॥ ५.१६३.१६ ॥
不知法度、永为仇敌、心怀恶念、行残暴之事的人(难降)。苏尤达那啊,你不久便将看到那真实的誓言。
5.163.17
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा ।
नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च ॥ ५.१६३.१७ ॥
关于傲慢与骄矜、愤怒与粗暴,以及残忍、自大与自夸。
5.163.18
नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च ।
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ॥ ५.१६३.१८ ॥
关于残忍与尖刻、憎恶法度、非法、过度之言,以及冒犯长者。
5.163.19
दर्शनस्य च चक्रस्य कृत्स्नस्यापनयस्य च ।
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ॥ ५.१६३.१९ ॥
苏耶陀那啊,你不久就会看到见到圆盘与全面毁灭的严酷果报。
5.163.20
वासुदेवद्वितीये हि मयि क्रुद्धे नराधम ।
आशा ते जीविते मूढ राज्ये वा केन हेतुना ॥ ५.१६३.२० ॥
卑劣之人啊,愚人!与婆苏提婆同在、我又愤怒之时,你凭何理由还对生命或王国抱有希望?
5.163.21
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते ।
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ॥ ५.१६३.२१ ॥
当毗湿摩归于沉寂,德罗纳与御者之子也被击倒之时,你将对生命、王国与诸子都感到绝望。
5.163.22
भ्रातॄणां निधनं श्रुत्वा पुत्राणां च सुयोधन ।
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ॥ ५.१६३.२२ ॥
苏耶陀那啊,闻听兄弟与诸子之死,被怖军所杀之时,你将想起自己的恶行。
5.163.23
न द्वितीयां प्रतिज्ञां हि प्रतिजानामि कैतव ।
सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ॥ ५.१६३.२३ ॥
欺诈之人啊,我不再发第二个誓言。我说的是真话,这一切都将成真。
5.163.24
युधिष्ठिरोऽपि कैतव्यमुलूकमिदमब्रवीत् ।
उलूक मद्वचो ब्रूहि गत्वा तात सुयोधनम् ॥ ५.१६३.२४ ॥
坚战也对欺诈的乌卢迦说道:乌卢迦啊,去把我的话告诉苏耶陀那,孩子。
5.163.25
स्वेन वृत्तेन मे वृत्तं नाधिगन्तुं त्वमर्हसि ।
उभयोरन्तरं वेद सूनृतानृतयोरपि ॥ ५.१६३.२५ ॥
你不配以你的行为超越我的行为。他也懂得真与假的区别。
5.163.26
न चाहं कामये पापमपि कीटपिपीलकयोः ।
किं पुनर्ज्ञातिषु वधं कामयेयं कथं च न ॥ ५.१६३.२६ ॥
我连对虫子和蚂蚁都不愿加害,又怎会希望杀害亲族呢?
5.163.27
एतदर्थं मया तात पञ्च ग्रामा वृताः पुरा ।
कथं तव सुदुर्बुद्धे न प्रेक्ष्ये व्यसनं महत् ॥ ५.१६३.२७ ॥
正因如此,我先前才索要五个村庄。愚昧之人啊,我怎能不见你的大难呢?
5.163.28
स त्वं कामपरीतात्मा मूढभावाच्च कत्थसे ।
तथैव वासुदेवस्य न गृह्णासि हितं वचः । ॥ ५.१६३.२८ ॥
你的心被欲望所困,因愚昧而自夸。同样,你也不接受婆苏提婆的有益之言。
5.163.29
किंचेदानीं बहूक्तेन युध्यस्व सह बान्धवैः ।
मम विप्रियकर्तारं कैतव्य सह बान्धवैः । ॥ ५.१६३.२९ ॥
如今多说何益?与你的亲族交战吧。欺诈之人啊,你这令我不悦的人,与你的亲族一同。
5.163.30
मम विप्रियकर्तारं कैतव्य ब्रूहि कौरवम् ।
श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत्। ॥ ५.१६३.३० ॥
欺诈之人啊,去告诉那位令我不悦的俱卢:话已听到,意义已领会;就按你的主张去做吧。
5.163.31
भीमसेनस्ततो वाक्यं भूय आह नृपात्मजम् ।
उलूक मद्वचो ब्रूहि दुर्मतिं पापपूरुषम्। ॥ ५.१६३.३१ ॥
于是毗摩森那再次对王子说:“乌卢迦,把我的话告诉那个恶念的罪人。”
5.163.32
शठं नैकृतिकं पापं दुराचारं सुयोधनम् ।
गृध्रोदरे वा वस्तव्यं पुरे वा नागसाह्वये । ॥ ५.१६३.३२ ॥
狡诈、阴险、罪恶、行为邪恶的苏yodhana,要么住在秃鹫的腹中,要么住在那伽萨赫瓦耶城中。
5.163.33
प्रतिज्ञातं मया यच्च सभामध्ये नराधम ।
कर्ताहं तद्वचः सत्यं सत्येनैव शपामि ते। ॥ ५.१६३.३३ ॥
卑劣之人啊,我必定实现我在大会之中所发的誓言。我以真理本身向你发誓。
5.163.34
दुःशासनस्य रुधिरं हत्वा पास्याम्यहं मृधे ।
सक्थिनी तव भंक्त्वैव हत्वा हि तव सोदनान्। ॥ ५.१६३.३४ ॥
在战斗中杀死难降,我要饮他的血。折断你的大腿,也杀死你的兄弟们……
5.163.35
सर्वेषां राजपुत्राणामभिमन्युरसंशयम् ।
कर्मणा तोषयिष्यामि भूयश्चैव वचः श्रृणु ॥ ५.१६३.३५ ॥
为阿比曼尤,在所有王子之中,毫无疑问(我必报仇)。我将以行动使他满意。请再听我的话。
5.163.36
हत्वा सुयोधन त्वां वै सहितं सर्वसोदरैः ।
आक्रमिष्ये पदा मूर्ध्नि धर्मराजस्य पश्यतः ॥ ५.१६३.३६ ॥
苏yodhana啊,杀死你和你所有的兄弟之后,我将在法王注视之下,把脚踏在他的头上。
5.163.37
नकुलस्तु ततो वाक्यमिदमाह महीपते ।
उलूक ब्रूहि कौरव्यं धार्तराष्ट्रं सुयोधनम् ॥ ५.१६३.३७ ॥
于是那刻拉说道,大地之主啊:乌卢迦,请告诉俱卢之子、持国之子难敌。
5.163.38
श्रुतं ते गदतो वाक्यं सर्वमेव यथातथम् ।
तथा कर्तास्मि कौरव्य यथा त्वमनुशासि मां ॥ ५.१६३.३८ ॥
俱卢之子啊,你所说的一切话,我都原原本本听到了,你怎样吩咐我,我就怎样去做。
5.163.39
सहदेवोऽपि नृपते इदमाह वचोऽर्थवत् ।
सुयोधन मतिर्या ते वृथैषा ते भविष्यति ॥ ५.१६३.३९ ॥
人主啊,偕天也说了这番有意义的话:难敌啊,你的这个念头终将落空。
5.163.40
शोचिष्यसे महाराज सपुत्रज्ञातिबान्धवः ।
इमं च क्लेशमस्माकं हृष्टो यत्त्वं विकत्थसे ॥ ५.१६३.४० ॥
大王啊,你将与儿子、宗族和亲属一同悲伤;而你却因我们的这场苦难而欢喜,自夸不已。
5.163.41
विराटद्रुपदौ वृद्धावुलूकमिदमूचतुः ।
दासभावं नियच्छेव साधोरिति मतिः सदा।
तौ च दासावदासौ वा पौरुषं यस्य यादृशम् ॥ ५.१६३.४१ ॥
年长的毗罗吒与德鲁帕达对乌卢迦说:“善人的想法始终是甘受奴役;谁的勇气如何,谁便是奴仆或非奴仆。”
5.163.42
शिखण्डी तु ततो वाक्यमुलूकमिदमब्रवीत् ।
वक्तव्यो भवता राजा पापेष्वभिरतः सदा ॥ ५.१६३.४२ ॥
于是,尸建陀对乌卢迦说道:“你应当去告诉那位总是沉溺于恶行的君王。”
5.163.43
पश्य त्वं मां रणे राजन्कुर्वाणं कर्म दारुणम् ।
यस्य वीर्यं समासाद्य मन्यसे विजयं युधि ॥ ५.१६३.४३ ॥
国王啊,看我在战场上做可怕的事吧。你竟以为能面对我的威力,在战争中获胜。
5.163.44
तमहं पातयिष्यामि रथात्तव पितामहम् ।
अहं भीष्मवधात्सृष्टो नूनं धात्रा महात्मना ॥ ५.१६३.४४ ॥
我要把你的祖父从战车上打落。为了杀死毗湿摩,大能的造物主必定派我降世。
5.163.45
सोऽहं भीष्मं हनिष्यामि मिषतां सर्वधन्विनाम् ।
धृष्टद्युम्नोऽपि कैतव्यमुलूकमिदमब्रवीत् ॥ ५.१६३.४५ ॥
我将在所有射手注视之下杀死毗湿摩。德里斯塔迅那也对优卢迦说了这些话。
5.163.46
सुयोधनो मम वचो वक्तव्यो नृपतेः सुतः ।
अहं द्रोणं हनिष्यामि सगणं सहबान्धवम् ॥ ५.१६३.४६ ॥
应当把我的话告诉国王之子难敌:我将连同他的随从和亲属一起杀死德罗纳。
5.163.47
अवश्यं च मया कार्यं पूर्वेषां चरितं महत् ।
कर्ता चाहं तथा कर्म यथा नान्यः करिष्यति ॥ ५.१६३.४७ ॥
我必定要效法他们祖先的伟大行为;我将完成别人无法完成的事业。
5.163.48
तमब्रवीद्धर्मराजः कारुण्यार्थं वचो महत् ।
नाहं ज्ञातिवधं राजन्कामयेयं कथंचन ॥ ५.१६३.४८ ॥
法王出于怜悯,对他说了这些重要的话:国王啊,我绝不愿意杀害我的亲族。
5.163.49
तवैव दोषाद्दुर्बुद्धे सर्वमेतत्त्वनावृतम् ।
स गच्छ माचिरं तात उलूक यदि मन्यसे ॥ ५.१६३.४९ ॥
愚蠢之人啊,这一切都因你的过错而显露无遗。亲爱的乌卢迦,若你如此认为,就不要迟疑,快走吧。
5.163.50
इह वा तिष्ठ भद्रं ते वयं हि तव बान्धवाः ।
उलूकस्तु ततो राजन्धर्मपुत्रं युधिष्ठिरम् ॥ ५.१६३.५० ॥
你就留在此地吧,愿你平安,因为我们是你的亲族。国王啊,于是乌卢迦对法之子坚战说道。
5.163.51
आमन्त्र्य प्रययौ तत्र यत्र राजा सुयोधनः ।
उलूकस्तत आगमक्य दुर्योधनममर्षणम् ॥ ५.१६३.५१ ॥
告辞之后,他前往国王苏尤陀那所在之处。随后乌卢迦来到愤怒的难敌面前。
5.163.52
अर्जुनस्य समादेशं यथोक्तं सर्वमब्रवीत् ।
वासुदेवस्य भीमस्य धर्मराजस्य पौरुषम् ॥ ५.१६३.५२ ॥
阿周那的话语,照所说的一一转述了;还有婆苏提婆、怖军和法王的勇武,他也都说了。
5.163.53
नकुलस्य विराटस्य द्रुपदस्य च भारत ।
सहदेवस्य च वचो धृष्टद्युम्नशिखण्डिनोः।
केशवार्जुनयोर्वाक्यं यथोक्तं सर्वमब्रवीत् ॥ ५.१६३.५३ ॥
婆罗多之子啊,无种、毗罗吒、德鲁帕达和偕天的话语,以及猛光与尸幻的话语,还有克沙婆与阿周那的言辞,照所说的一一转述了。
5.163.54
कैतव्यस्य तु तद्वाक्यं निशम्य भरतर्षभः ।
दुःशासनं च कर्णं च शकुनिं चापि भारत ॥ ५.१६३.५४ ॥
婆罗多族中的雄牛听到那狡诈的乌卢迦的话后,婆罗多啊,又召来了难降、迦尔纳和沙恭尼。
5.163.55
आज्ञपयत राज्ञश्च बलं मित्रबलं तथा ।
यथा प्रागुदयात्सर्वे युक्तास्तिष्ठन्त्यनीकिनः ॥ ५.१६३.५५ ॥
也命令国王的军队和盟军的军队,使所有军队在日出之前都整装待命。
5.163.56
ततः कर्णसमादिष्टा दूताः सन्त्वरिता रथैः ।
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ॥ ५.१६३.५६ ॥
于是,奉迦尔纳之命而急速出发的使者,有乘战车的,有乘骆驼车的,还有骑着快马的。
5.163.57
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात् ।
आज्ञापयन्तो राज्ञश्च योगः प्रागुदयादिति ॥ ५.१६३.५७ ॥
在迦尔纳的命令下,他们迅速遍行全军,宣告国王的命令:日出之前全部集结。