Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.165

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.165.1

प्रतिज्ञाते फाल्गुनेन वधे भीष्मस्य संयुगे ।
किमकुर्वत मे मन्दाः पुत्रा दुर्योधनादयः ॥ ५.१६५.१ ॥

当法尔古那(阿周那)在战斗中发誓要杀死毗湿摩时,我那些愚蠢的儿子,难敌等人做了什么?

5.165.2

हतमेव हि पश्यामि गाङ्गेयं पितरं रणे ।
वासुदेवसहायेन पार्थेन दृढधन्वना ॥ ५.१६५.२ ॥

我看见恒河之子毗湿摩,如同我的父亲,已在战斗中被持坚弓的普利塔之子杀死,他得到了婆苏提婆(克里希那)的相助。

5.165.3

स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम् ।
किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः ॥ ५.१६५.३ ॥

那位智慧无量的大弓手、勇士中最优秀的毗湿摩,听了普利塔之子的话后说了什么?

5.165.4

सैनापत्यं च संप्राप्य कौरवाणां धुरंधरः ।
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः ॥ ५.१६५.४ ॥

获得了俱卢族军队统帅之职、承担俱卢族重担的大智大勇的恒河之子,做了什么?

5.165.5

ततस्तत्सञ्जयस्तस्मै सर्वमेव न्यवेदयत् ।
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा ॥ ५.१६५.५ ॥

于是桑贾耶把毗湿摩这位俱卢长老、无量光辉者所说的一切,都向他作了报告。

5.165.6

सैनापत्यमनुप्राप्य भीष्मः शान्तनवो नृप ।
दुर्योधनमुवाचेदं वचनं हर्षयन्निव ॥ ५.१६५.६ ॥

国王啊!获得军队统帅之职的sh恒河之子、Śantanu之子毗湿摩,仿佛要使难敌欢喜一般,对他说了这番话。

5.165.7

नमस्कृत्य कुमाराय सेनान्ये शक्तिपाणये ।
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः । ॥ ५.१६५.७ ॥

向手持长矛的统帅童子致敬之后,我今日将成为你的元帅,此事毫无疑问。

5.165.8

सेनाकर्मण्यिज्ञोऽस्मि व्यूहेषु विविधेषु च ।
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा ॥ ५.१६५.८ ॥

我精通军队的指挥和各种阵形,也懂得如何驱使有薪与无薪的士兵。

5.165.9

यात्रायाने च युद्धे च तथा प्रशमनेषु च ।
भृशं वेद महाराज यथा वेद बृहस्पतिः ॥ ५.१६५.९ ॥

大王,无论出征、交战还是安抚,我都十分熟悉,如同祭主布里哈斯帕蒂一般。

5.165.10

व्यूहानां च समारम्भान्दैवगान्धर्वमानुषान् ।
तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः ॥ ५.१६५.१० ॥

以天神、乾闼婆与人类的阵形起始,我将迷惑般度诸子;愿你的热病消退。

5.165.11

सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् ।
यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः ॥ ५.१६५.११ ॥

我将护卫你的军队,依真理与经典而战;大王啊,愿你心中的热病消退。

5.165.12

विद्यते मे न गाङ्गेय भयं देवासुरेष्वपि ।
समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते ॥ ५.१६५.१२ ॥

恒河之子啊,我对诸天与阿修罗都无所畏惧;大臂者啊,我向你说的是真实之言。

5.165.13

किं पुनस्त्वयि दुर्धर्पे सैनापत्ये व्यवस्थिते ।
द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि ॥ ५.१६५.१३ ॥

既然不可战胜的您已被任命为统帅,而以战斗为乐的人中虎将德罗纳也在此,还需要什么呢?

5.165.14

भवद्र्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम ।
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् ॥ ५.१६५.१४ ॥

库鲁之最,有你们两位人中之杰在此,我的胜利并非难以获得;的确,即使是天神的王国也并非难以夺取。

5.165.15

रथसङ्ख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा ।
तथैवातिरथानां च वेत्तुमिच्छामि कौरव ॥ ५.१६५.१५ ॥

考罗婆啊,我想完全知道敌方和我方的战车数量,以及大战车武士的数量。

5.165.16

पितामहो हि कुशलः परेषामात्मनस्तथा ।
श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः ॥ ५.१६५.१६ ॥

祖父精通于了解敌方与我方,我想与所有这些地上的君主一同听闻。

5.165.17

गान्धारे श्रृणु राजेन्द्र रथसंख्यां स्वके बले ।
ये रथाः पृथिवीपाल तथैवातिरथाश्च ये ॥ ५.१६५.१७ ॥

甘陀利之子,王中之王,请听:我方军中的战车数量,大地之主,以及大战车武士的数量,请听。

5.165.18

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।
रथानां तव सेनायां यथामुख्यं तु मे श्रुणु ॥ ५.१६५.१८ ॥

在你的军中,这里的战车有数千、数十万乃至数千万之多;现在请听我按重要次序说明。

5.165.19

भवानग्रे रथोदारः सह सर्वैः सहोदरैः ।
दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः ॥ ५.१६५.१९ ॥

你这位在前的高贵战车勇士,与你所有同母兄弟,以难降为首的百人一同。

5.165.20

सर्वे कृतप्रहरणाश्छेदभेदविशारदाः ।
रथोपस्थे गजस्कन्धे गदाप्रासासिचर्मणि ॥ ५.१६५.२० ॥

他们都精通兵器,擅长砍杀与刺击,在战车之上、象背之上,手持铁棒、长矛、剑与盾。

5.165.21

संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः ।
इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥ ५.१६५.२१ ॥

他们是御者与攻击者,习练武器,能担负战争重任;在弓箭与投射之术上,他们是德罗纳的弟子,也是克里巴与沙罗陀凡之子的弟子。

5.165.22

एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् ।
कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः ॥ ५.१६५.२२ ॥

这些向般度之子犯过罪的刚毅的持国之子,将在战场上杀死因战斗之狂而放肆的般遮罗人。

5.165.23

तथाऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव ।
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ॥ ५.१६५.२३ ॥

同样,婆罗多之最,我作为你全军的统帅,将摧毁敌人,视般度之子如无物。

5.165.24

न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते ।
कृतवर्मा त्वयिरथो भोजः शस्त्रभृतां वरः ॥ ५.१६५.२४ ॥

我不宜自夸己德,你是了解我的。胜任你战车的,是鲜明的堪比之首的婆阇人(Bhoja)伽陀凡,佩戴武器者中之最。

5.165.25

अर्थसिद्धिं तव रणे करिष्यति न संशयः ।
शस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः ॥ ५.१६५.२५ ॥

在战斗中,他无疑会为你完成目的。即使精通武艺者也无法战胜他,他能远射,持坚固之兵器。

5.165.26

हनिष्यति चमूं तेषां महेन्द्रो दानवानिव ।
मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः ॥ ५.१६५.२६ ॥

他将击溃他们的军队,如大因陀罗击杀达那婆。摩德罗王、大弓手沙利耶,我认为是一位超级车战士。

5.165.27

स्पर्धते वासुदेवेन नित्यं यो वै रणेरणे ।
भागिनेयान्निजांस्त्यक्त्वा शल्यस्तेऽतिरथो मतः।
एष योत्स्यति संग्रामे पाण्डवांश्च महारथान् ॥ ५.१६५.२७ ॥

此人在每一场战斗中都与瓦苏提婆相争,弃其亲甥而去——这位沙利耶被你视为超级车战士。他将在战斗中与般度五子和大车战士交战。

5.165.28

सागरोर्मिसमैर्बाणैः प्लावयन्निव शातवान् ।
भूरिश्रवाः कृतास्रश्च तव चापि हितः सुहृत् ॥ ५.१६५.२८ ॥

以如海浪般的箭矢仿佛泛滥成灾——沙陀凡·薄里湿罗婆,精通武艺,是你的益友与朋友。

5.165.29

सौमदत्तिर्महेष्वासो रथयूथपयूथपः ।
वलक्षयममित्राणां सुमहान्तं करिष्यति ॥ ५.१६५.२९ ॥

苏摩达多之子,大弓手,车队之主中的统帅,将对敌人造成巨大的杀戮。

5.165.30

सिन्धुराजो महाराज मतो मे द्विगुणो रथाः ।
योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः ॥ ५.१६५.३० ॥

大王啊,我认为信度王之力抵两辆战车。王啊,此英勇者,乃车战士中的最优者,将在战斗中交战。

5.165.31

द्रौपदीहरणे राजन्परिक्लिष्टश्च पाण्डवैः ।
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा ॥ ५.१६५.३१ ॥

君王啊,因德劳巴蒂的被劫和般度子的迫害而痛苦,铭记那份屈辱,灭敌英雄者将要作战。

5.165.32

एतेन हि तदा राजंस्तप आस्थाय दारुणम् ।
सुदुर्लभो वरो लब्धः पाण्डवान्योद्ध्रुमाहवे ॥ ५.१६५.३२ ॥

君王啊,他当时修行苦行,获得了极难得到的恩赐:在战场上与般度子作战。

5.165.33

स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे ।
योत्स्यते पाण्डवैस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥ ५.१६५.३३ ॥

那位车战勇士中的猛虎,铭记那份仇恨,将在战场上与般度子作战,我的孩子,舍弃极难舍弃的性命。