摩诃婆罗多 · 章 5.167
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.167.1
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप ।
प्रयुज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ॥ ५.१६७.१ ॥
人主啊,你的舅父沙恭尼,独自一人的车将,将挑起与般度五子的仇怨而作战,此事毫无疑问。
5.167.2
एतस्य सेना दुर्धर्षा समरे प्रतियायिनः ।
विकृतायुधभूयिष्ठा वायुवेगसमा जवे ॥ ५.१६७.२ ॥
他的军队在战斗中不可抵挡,对迎面而来的敌人发起进攻;其中多是持着畸形兵器的士卒,其速度与风相等。
5.167.3
द्रोणपुत्रो महेष्वासः सर्वानेवातिधन्विनः ।
समरे चित्रयोधी च दृढास्त्रश्च महारथः ॥ ५.१६७.३ ॥
德罗纳之子是大弓手,胜过所有弓手;在战斗中是奇妙的战士,精通兵器,是大车将。
5.167.4
एतस्य हि महाराज यथा गाण्डीवधन्वनः ।
शरासनविनिर्मुक्ताः संसक्ता यान्ति सायकाः ॥ ५.१६७.४ ॥
大王啊,正如持甘狄拔弓的阿周那所射出的箭矢接连飞去,他的箭也是这样飞去。
5.167.5
नैष शक्यो मया वीरः संख्यातुं रथसत्तमः ।
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महारथः ॥ ५.१६७.५ ॥
这位英雄,车将中的最上者,我无法一一列举;这位大车将,若他愿意,甚至能焚毁三界。
5.167.6
क्रोधस्तेजश्च तपसा संभृतोश्रमवासिनाम् ।
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ॥ ५.१६७.६ ॥
他心志高尚,具有由苦行的林居者所积聚的愤怒与光辉,并蒙德罗纳以神圣兵器所赐恩。
5.167.7
दोषस्त्वस्य महानेको येनैव भरतर्षभ ।
न मे रथो नातिरथो मतः पार्थिवसत्तम ॥ ५.१६७.७ ॥
婆罗多族的雄牛啊,他有一个大缺点,因此,诸王中最优秀者啊,依我看,他既不是战车武士,也不是大战车武士。
5.167.8
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः ।
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ॥ ५.१६७.८ ॥
再生族常求长寿,极其珍爱自己的生命;即使在两军之中,也无人能与他相比。
5.167.9
हन्यादेकरथेनैव देवानामपि वाहिनीम् ।
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ॥ ५.१६७.९ ॥
他仅凭一辆战车,就能杀尽诸神之军;身躯强健,以拍掌之声,甚至能震裂山岳。
5.167.10
असंख्येयगुणो वीरः प्रहन्ता दारुणद्युतिः ।
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ॥ ५.१६७.१० ॥
那位具有无数美德的英雄,光辉可怖的杀手,将如手持木杖的死神一般难以抵挡地四处行走。
5.167.11
युगान्ताग्निसमः क्रोधात्सिंहग्रीवो महाद्युतिः ।
एष भारत युद्धस्य पृष्ठं संशयमिष्यति ॥ ५.१६७.११ ॥
他如同劫末之火,狮颈而光辉极盛,因愤怒,即便在战阵后方也会令人生疑,婆罗多啊。
5.167.12
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः ।
रणे कर्म महत्कर्ता अत्र मे नास्ति संशयः ॥ ५.१६७.१२ ॥
他的父亲也光辉极盛;虽已年老,却胜过年轻人,在战场上建立大功。对此我毫无疑问。
5.167.13
अस्त्रवेगानिलोद्भूतः सेनाकक्षेन्धनोत्थितः ।
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति रणे धृतः ॥ ५.१६७.१३ ॥
他由兵器疾速之风而起,以军队如干草般的薪柴而燃,在战场上被举起,必将焚毁般度之子的军队。
5.167.14
रथयूथपयूथानां यूथपोऽय नरर्षभः ।
भरद्वाजात्मजः कर्ता कर्म तीव्रं हितं तव ॥ ५.१६७.१४ ॥
这位车兵群的统帅、人中之雄、婆罗堕遮之子,将为你完成一件猛烈而有益的功业。
5.167.15
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः ।
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः ॥ ५.१६७.१५ ॥
所有受灌顶之王的老师、年迈的导师,或许会走到殊闍耶人的尽头;而他所亲爱的是Dhanañjaya。
5.167.16
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् ।
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ॥ ५.१६७.१६ ॥
这位大弓箭手绝不会杀死行事无劳的Pārtha;他记起那光辉的导师,为其德行所征服。
5.167.17
श्लाघते यं सदा वीर पार्थस्य गुणविस्तरैः ।
पुत्रादभ्यधिकं चैनं भारद्वाजोऽनुपश्यति ॥ ५.१६७.१७ ॥
勇士啊,他总以Pārtha德行之广大而赞誉之,婆罗堕遮之子视之胜过亲子。
5.167.18
हन्यादेकरथेनैव देवगन्धर्वमानुषान् ।
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ॥ ५.१६७.१८ ॥
这位威力之人,仅凭一辆战车、以神圣兵器,便能杀死在战场上聚集的诸神、乾闼婆与凡人。
5.167.19
पौरवो राजशार्दूलस्तव राजन्महारथः ।
मतो मम रथोदारः परवीररथारुजः ॥ ५.१६७.१९ ॥
哦,国王,波鲁人,王中之虎,你的大车战士——依我看,他在车战中高贵,能摧毁敌方英雄的战车。
5.167.20
स्वेन सैन्येन महता प्रतपञ्शत्रुवाहिनीम् ।
प्रधक्ष्यति स पाञ्चालान्कक्षमग्निगतिर्यथा ॥ ५.१६७.२० ॥
他将以自己庞大的军队焚烧敌军,如火焚烧干草一般,烧尽般遮罗人。
5.167.21
सत्यश्रवा रथस्त्वेको राजपुत्रो बृहद्बलः ।
तव राजन्रिपुबले कालवत्प्रचरिष्यति ॥ ५.१६७.२१ ॥
哦,国王,王子萨蒂耶什拉瓦斯,一位单独作战的大力车战士,将为你在敌军中如死神般驰骋。
5.167.22
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः ।
विचरिष्यन्ति सङ्ग्रामे निन्घन्तः शास्त्रवांस्तव ॥ ५.१६७.२२ ॥
哦,王中之王,他的战士身披五彩铠甲、手持兵器,将在战场中驰骋,击杀你那些精通武艺的敌人。
5.167.23
वृषसेनो रथस्तेऽग्र्यः कर्णपुत्रो महारथः ।
प्रधक्ष्यति रिपूणां ते बलं तु बलिनां वरः ॥ ५.१६७.२३ ॥
你最杰出的大车战士、迦尔纳之子伐陀舍那,将焚毁你敌人的军队;他是强者中的翘楚。
5.167.24
जघसन्धो महातेजा राजन्रथवरस्तव ।
त्यक्ष्यते समरे प्राणान्माधवः परवीरहा ॥ ५.१६७.२४ ॥
哦,国王,大光辉的迦罗山陀,你最优秀的车战士,将在战斗中献出生命,被摧毁敌方英雄的摩陀婆(黑天)所杀。
5.167.25
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः ।
रथेन वा माहबाहुः क्षपयञ्शत्रुवाहिनीम् ॥ ५.१६७.२५ ॥
此人精通于象背作战,将在战场上奋战;或乘战车,这位大臂者摧毁敌军而战。
5.167.26
रथ एष महाराज मतो मे राजसत्तम ।
त्वदर्थे त्यक्ष्यते प्राणान्सहसैन्यो महारणे ॥ ५.१६७.२६ ॥
大王,王中之最,此人在我看来是车战勇士;为了你,他将与其军队一同在大战中舍弃生命。
5.167.27
एष विक्रान्तयोधी च चित्रयोधी च संगरे ।
वीतभीश्चापि ते राजञ्शत्रुभिः सह योत्स्यते ॥ ५.१६७.२७ ॥
此勇猛的战士,精通多种战法,且无所畏惧,大王,他将与你的敌人作战。
5.167.28
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तनः ।
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ॥ ५.१६७.२८ ॥
巴赫利迦是大车战勇士,在战斗中从不退却;大王,依我之见,他在战争中英勇如毗婆娑之子阎摩。
5.167.29
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन ।
यथा सततगो राजन्स हि हन्यात्परान्रणे ॥ ५.१६७.२९ ॥
此人一旦到达战场,绝不会退缩;大王,他常常向前,必将在战斗中杀死敌人。
5.167.30
सेनापतिर्महाराज सत्यवांस्ते महारथः ।
रणेष्वद्भुतकर्मा च रथी पररथारुजः ॥ ५.१६७.३० ॥
大王,你的统帅萨提亚凡是大车战勇士;在战斗中行事奇异,是车战勇士,也是击破敌车的人。
5.167.31
एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन ।
उत्स्मयन्नुत्पतत्येष परान्रथपथे स्थितान् ॥ ५.१६७.३१ ॥
见到他的战斗,任何人都不会有丝毫恐惧。他微笑着扑向站在战车道上的敌人。
5.167.32
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् ।
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ॥ ५.१६७.३२ ॥
在勇士之中他英勇,所行之事配得上善人。在战斗的拥挤混乱中,他为你成就伟大的功业——他是人中之最。
5.167.33
अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा महारथः ।
हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ॥ ५.१६७.३३ ॥
罗刹之主阿兰布沙,行事残暴,是大战车武士。大王啊,他将回想往日的仇恨,杀死敌人。
5.167.34
एष राक्षससैन्यानं सर्वेषां रथसत्तमः ।
मायावी दृढवैरश्च समरे विचरिष्यति ॥ ५.१६७.३४ ॥
他是罗刹大军中所有战车武士里最优秀的。他善用幻术,仇恨坚定,将在战场上驰骋。
5.167.35
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् ।
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ॥ ५.१६७.३५ ॥
英雄、普拉格央提沙之主婆伽达多威武显赫,是手持象钩者中最优秀的,并且精通战车战斗。
5.167.36
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः ।
दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ॥ ५.१६७.३६ ॥
从前,他曾与持甘狄拔弓者交战,大王啊,两位渴望胜利的人持续战斗了许多天。
5.167.37
ततः सखायं गान्धारे मानयन्पाकशासनम् ।
अकरोत्संविदं तेन पाण्डवेन महात्मना ॥ ५.१६७.३७ ॥
于是,他以朋友之礼敬待犍陀罗王,并与那位大德的般度之子订立了盟约。
5.167.38
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः ।
ऐरावतगतो राजा देवानामिव वासवः ॥ ५.१६७.३८ ॥
此人将在战斗中作战——这位善于驾驭象背的王者,乘坐爱罗婆多,如诸神中的因陀罗(婆娑婆)。