Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.168

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.168.1

अचलो वृषकश्चैव सहितौ भ्रातरावुभौ ।
रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः ॥ ५.१६८.१ ॥

阿遮罗与伐律沙加两位兄弟同心,是你难以抵挡的车战勇士,他们将摧毁敌人。

5.168.2

बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ ।
गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ॥ ५.१६८.२ ॥

强大,人中猛虎,怒意坚定,善于攻击,乃乾陀罗的首领,年少,容貌可观,极为勇武。

5.168.3

सखा ते दयितो नित्यं य एष रणकर्कशः ।
उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह ॥ ५.१६८.३ ॥

你这位永远亲爱的朋友,在战场上刚硬,大王啊,他在与般度子孙的争斗中鼓励你。

5.168.4

परुषः कत्थनो नीचः कर्णो वैकर्तनस्त्रव ।
मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ॥ ५.१६८.४ ॥

迦尔纳,毗迦尔塔那之子,粗暴、夸口、卑劣;他是谋士、领袖与亲族,骄傲而极为自负。

5.168.5

एष नैव रथः पूर्णो न चाप्यतिरथो रणे ।
वियुक्तः कवचेनैष सहजेन विचेतनः ॥ ५.१६८.५ ॥

他既非完备的车战勇士,也非战场上的大车将;失去与生俱来的铠甲,他已昏迷无知。

5.168.6

कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी ।
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् ॥ ५.१६८.६ ॥

常年失去神圣的耳环,且富于怜悯;因罗摩的诅咒,也因一位婆罗门的言语。

5.168.7

करणानां वियोगाच्च तेन मेऽर्थरथो मतः ।
नैष फाल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते ॥ ५.१६८.७ ॥

因为他失去了兵器,我认为他只是半车之士。他一旦遭遇阿周那,便不能再活着脱身。

5.168.8

ततोऽब्रवीत्पुनर्द्रोणः सर्वशस्त्रभृतां वरः ।
एवमेतद्यथाऽऽत्थ त्वं न मिथ्यास्ति कदाचन ॥ ५.१६८.८ ॥

于是,持武器者中最优秀的德罗纳再次说道:“你所说的正是如此,从来不是虚言。”

5.168.9

रणेरणेऽभिमानी च विमुखश्चापि दृश्यते ।
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ॥ ५.१६८.९ ॥

每一场战斗中,他都显得傲慢,却又转身回避。迦尔纳心肠柔软而又疏忽,因此我认为他只是半车之士。

5.168.10

एतच्छ्रुत्वा तु राधेयः क्रोधादुल्फाल्य लोचने ।
उवाच भीष्मं राधेयस्तुदन्वाग्भिः प्रतोदवत् ॥ ५.१६८.१० ॥

迦尔纳闻言,怒目圆睁,以言语如鞭刺般刺向毗湿摩,对他说道。

5.168.11

पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि ।
अनागसं सदा द्वेषादेवमेव पदेपदे ॥ ५.१६८.११ ॥

祖父啊,您随意地以言语之箭伤害我。我本无罪,却因怨恨而总是这样,步步相逼地伤我。

5.168.12

मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै ।
त्वं तुं मां मान्यसे मन्दं यथा कापुरुषं तथा ॥ ५.१६८.१२ ॥

这一切我都是为了难敌而忍受的。可您却把我看作愚钝而怯懦之人。

5.168.13

भवानर्धरथो मह्यं मतो वै नात्र संशयः ।
सर्वस्य जगतश्चैव गाङ्गेयो न मृषा वदेत् ॥ ५.१६८.१३ ॥

在我看来,你是半车战士,这毫无疑问。全世界都知道,恒河之子(毗湿摩)不会说谎。

5.168.14

कुरूणामहितो नित्यं न च राजाऽवबुध्यते ।
को हि नाम समानेषु राजसूदारकर्मसु ॥ ५.१६८.१४ ॥

始终对俱卢族不怀好意,而国王并不察觉。在平等者之间,在如王祭这样的王家大事中,谁会这样做呢?

5.168.15

तेजोवधमिमं कुर्याद्विभेदयिषुराहवे ।
यथा त्वं गुणविद्वेषादपरागं चिकीर्षसि ॥ ५.१६८.१५ ॥

在战斗中想要挑起分裂的人,会造成这种对勇力的摧毁,就像你出于厌恶美德而想犯下过错一样。

5.168.16

न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।
महारयत्वं संख्यातुं शक्यं क्षत्रस्य कौरव ॥ ५.१६८.१६ ॥

不以年岁,不以白发,不以财富,也不以亲族——哦,俱卢之子,刹帝利的巨大力量是无法衡量的。

5.168.17

बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः ।
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाऽधिकाः ॥ ५.१६८.१७ ॥

刹帝利以力量为长;再生族以神圣知识为长;吠舍以财富为长;而首陀罗则以年岁为长。

5.168.18

यथेच्छकं स्वयं ब्रूया रथानतिरथांस्तथा ।
कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् ॥ ५.१६८.१८ ॥

你随心所欲地自行称呼车战士和大车战士;怀着欲望与憎恨,你因迷惑而如此行事。

5.168.19

दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम् ।
त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव ॥ ५.१६८.१९ ॥

大臂的难敌啊,你要仔细思量。放弃对毗湿摩这种恶念,它正为你招来罪过。

5.168.20

भिन्ना हि सेना नृपते दुःसन्धेया भवत्युत ।
मौला हि पुरुषव्याघ्र किमु नानासमुत्थिताः ॥ ५.१६८.२० ॥

国王啊,分裂的军队难以再度聚合。人中之虎啊,连世袭的部队都分裂了,何况是从各处聚集而来的军队呢?

5.168.21

एषां द्वैधं समुत्पन्नं योधानां युधि भारत ।
तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः ॥ ५.१६८.२१ ॥

婆罗多之子啊,战斗中这些战士之间产生了分裂,因此我们的威势正被公然、尤其严重地摧毁。

5.168.22

रथानां क्वच विज्ञानं क्वच भीष्मोऽल्पचेतनः ।
अहमावारयिष्यामि पाण्डवानामनीकिनीम् ॥ ५.१६८.२२ ॥

战车武士的本领在哪里?而心智浅薄的毗湿摩又在哪里?我将阻挡般度之子的军队。

5.168.23

आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश ।
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ॥ ५.१६८.२३ ॥

他们迎上我这弓箭从不落空的人,般度之子与般遮罗人将如公牛见到老虎一般,向十方奔逃。

5.168.24

क्वच युद्धं विमर्दो वा मन्त्रे सुव्याहृतानि च ।
क्वचभीष्मो गतवयामन्दात्मा कालचोदितः ॥ ५.१६८.२४ ॥

战争与它的毁灭在哪里?在议事中说出的善言又在哪里?年迈、心智迟钝、被时间驱使的毗湿摩又在哪里?

5.168.25

एकाकी स्पर्धति नित्यं सर्वेण रमता सह ।
न चान्यं पुरुषं कंचिन्मन्यते मोघदर्शनः ॥ ५.१६८.२५ ॥

他孤身一人,总是与所有人竞争,仿佛游戏一般;见识虚妄的他,不把任何其他人放在眼里。

5.168.26

श्रोतव्यं खलु वृद्धानमिति शास्त्रनिदर्शनम् ।
न त्वेव ह्यतिवृद्धानां पुनर्बालाहि ते मताः ॥ ५.१६८.२६ ॥

长者之言确实应当倾听,这是经典的教导;然而对于极度年迈者,人们又视之为孩童。

5.168.27

अहमेको हनिष्यामि पाण्डवानानीकिनीम् ।
सुयुद्धे राज्यशार्दूल यशो भीष्मं गमिष्यति ॥ ५.१६८.२७ ॥

王中之虎啊!我独自便能歼灭般度之子的军队;在善战之中,荣耀将归于毗湿摩。

5.168.28

कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप ।
सेनापतौ यशो गन्ता न तु योधान्कथञ्चन ॥ ५.१६८.२८ ॥

人主啊!你已任命毗湿摩为统帅;荣耀将归于统帅,决不会归于其他战士。

5.168.29

नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन ।
हते भीष्मे तु योद्धाऽस्मि सर्वैरेव महारथैः ॥ ५.१६८.२९ ॥

国王啊!只要恒河之子(毗湿摩)尚在人间,我决不会参战;唯有毗湿摩被杀之后,我才会与所有大车武士一同作战。

5.168.30

समुद्यतोयं भारो मे सुमहान्सागरोपमः ।
धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः ॥ ५.१६८.३० ॥

我所承担的这副重担极为沉重,如同大海;为了持国之子在战争中的事,我已思虑多年。

5.168.31

तस्मिन्नभ्यागते काले प्रतप्ते रोमहर्षणे ।
मिथो भेदो न मे कार्यस्तेन जीवसि सूतज ॥ ५.१६८.३१ ॥

那可怖、令人毛骨悚然的时刻来临之际,我二人之间不应有分裂;正因如此你才得以活着,御者之子啊。

5.168.32

न ह्यहं त्वद्य विक्रम्य स्थविरोऽपि शिशोस्तव ।
युद्धश्रद्धामहं छिन्द्यां जीवितस्य च सूतज ॥ ५.१६८.३२ ॥

御者之子啊,并非我虽年老,今日不能以勇力战胜你,斩断你这样孩童般的战意与性命。

5.168.33

जामदग्र्येन रामेण महास्त्राणि विमुञ्चता ।
न मे व्यथा कृता काचित्त्वं तु मे कि करिष्यसि ॥ ५.१६८.३३ ॥

即便耶摩陀尼之子罗摩施放大神兵,也未曾使我有丝毫痛苦;那么你又能对我做什么呢?

5.168.34

कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् ।
वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन ॥ ५.१६८.३४ ॥

诚然,善人不赞赏自夸己力之事;然而我怒火中烧,要对你说,你这玷污家族的卑劣之人。

5.168.35

समेतं पार्थिवं क्षत्रं काशिराजस्वयंवरे ।
निर्जित्यैकरथेनैव याः कन्यास्तरसाहृताः ॥ ५.१६८.३५ ॥

在迦尸王的选婿大会上聚集的王族刹帝利,我仅凭一辆战车便将其击败,那些被强行掳走的少女也正是如此。

5.168.36

ईदृशानां सहस्राणि विशिष्टानामथो पुनः ।
मयैकेन निरस्तानि ससैन्यानि रणाजिरे ॥ ५.१६८.३६ ॥

此类成千上万的杰出战士,连同他们的军队,都被我一人在战场上击倒。

5.168.37

त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान् ।
उपस्थितो विनाशाय यतस्व पुरुषो भव ॥ ५.१६८.३७ ॥

你成为敌人,俱卢族便遭遇大灾,走向毁灭;努力吧,做一个真正的男子。

5.168.38

युध्यस्व समरे पार्थं येन विस्पर्धसे सह ।
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ॥ ५.१६८.३८ ॥

你要在战场上与你争胜的般度之子(阿周那)交战;恶念之人啊,我将看到你从此战中脱身。

5.168.39

तमुवाच ततो राजा धार्तराष्ट्रः प्रतापवान् ।
मां समीक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ॥ ५.१६८.३९ ॥

于是威势赫赫的持国之子对他说:恒河之子啊,请看着我;一项重大的事业已经开始。

5.168.40

चिन्त्यतामिदमेकाग्रं मम निःश्रेयसं परम् ।
उभावपि भवन्तौ मे महत्कर्म करिष्यतः ॥ ५.१६८.४० ॥

请专心思考这关乎我至高福祉的事;你们二人将为我成就一件大事。

5.168.41

भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् ।
ये चैवातिथास्तत्र ये चैव रथयूथपाः ॥ ५.१६८.४१ ॥

我还想再听听敌方最优秀的车战勇士,那些已到达那里的人,以及车兵部队的统帅。

5.168.42

बलाबलममित्राणां श्रोतुमिच्छामि कौरव ।
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति ॥ ५.१६८.४२ ॥

俱卢之子啊,我想听听敌人的强弱;待夜过天亮,这场战斗便将开始。