Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.172

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.172.1

रोचमानो महाराज पाण्डवानां महारथः ।
योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत ॥ ५.१७२.१ ॥

大王啊,般度之子的大车将,光耀如神,将在敌军之中的战斗中如天神般作战,婆罗多的后裔啊。

5.172.2

पुरुजित्कृन्तिभोजश्च महेष्वासो महाबलः ।
मातुलो भीमसेनस्य स च मेऽतिरथो मतः ॥ ५.१७२.२ ॥

普鲁吉特与贡提跋阇,大弓手与大力士,是怖军的舅父;依我看,他是超级车将。

5.172.3

एष वीरो महेष्वासः कृती च निपुणश्च ह ।
चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः ॥ ५.१७२.३ ॥

此英雄是大弓手,熟练精巧,善战奇妙,能力出众;依我看,他是车将中的雄牛。

5.172.4

स योत्स्यति हि विक्रम्य मघवानिव दानवैः ।
योधा ये चास्य विख्याताः सर्वे युद्धविशारदाः ॥ ५.१७२.४ ॥

他将英勇作战,如因陀罗与檀那婆作战;他那些有名的战士都精通战斗。

5.172.5

भागिनेयकृते वीरः स करिष्यति संगरे ।
सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते रतः ॥ ५.१७२.५ ॥

为了他的外甥,那位英雄将在战斗中建立伟大功业,坚守般度诸子的福祉,致力于所爱之人的善益。

5.172.6

भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः ।
मतो मे बहुमायावी रथयूथपयूथपः ॥ ५.१७२.६ ॥

大王啊,般度之子怖军之子,希迪巴之子,罗刹之王——依我看,他极为善于幻术,是车队首领中的首领。

5.172.7

योत्स्यते समरे तात मायावी समरप्रियः ।
ये चास्य राक्षसा वीराः सचिवा वशवर्तिनः ॥ ५.१७२.७ ॥

孩子啊,那位善于幻术、喜好战斗的英雄将在战场上战斗,他的听命的勇猛罗刹随从也会参战。

5.172.8

एते चान्ये च बहवो नानाजनपदेश्वराः ।
समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः ॥ ५.१७२.८ ॥

这些人以及其他许多各地的君主,为了般度之子聚集起来,以婆薮提婆为首。

5.172.9

एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः ।
रथाश्चातिरथाश्चैव ये चान्येऽर्धंरथा नृप ॥ ५.१७२.९ ॥

大王啊,这些主要是这位大德般度之子的车战勇士和大车战勇士,以及其他的半车战勇士,大王。

5.172.10

नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप ।
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना ॥ ५.१७२.१० ॥

大王啊,他们将在战场上统率坚战那可怕的军队,那位戴冠的英雄守护着它,如同因陀罗守护一般。

5.172.11

तैरहं समरे वीर मायाविद्भिर्जयैषिभिः ।
योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे ॥ ५.१७२.११ ॥

勇士啊,我将与那些善于幻术的人在战场上战斗,渴望胜利,或者在战斗中死去。

5.172.12

वासुदेवं च पार्थं च चक्रगाण्डीवधारिणौ ।
सन्ध्यागताविवार्केन्दू सभेष्येते रथोत्तमौ ॥ ५.१७२.१२ ॥

持轮的婆薮提婆与持甘狄拔弓的阿周那,这两位最优秀的车战勇士,将与我对阵,如同落入黄昏的日月。

5.172.13

यं चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः ।
सह सैन्यानहं तांश्च प्रतीयां रणमूर्धनि ॥ ५.१७२.१३ ॥

般度之子那些高贵的车战勇士与士兵,连同他们的军队,我将在战阵前列与之交战。

5.172.14

एते रथाश्चातिरथाश्च तुभ्यं ।
यथाप्रधानं नृप कीर्तिता मया।
तथा परे येऽर्धरथाश्च केचि-
त्तथैंव तेषामपि कौरवेन्द्र ॥ ५.१७२.१४ ॥

这些车战勇士与大车战勇士,我已按其地位次第向你述说,大王;同样,那些半车战士及其他某些人,也依此而言,俱卢之主啊。

5.172.15

अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः ।
सर्वांस्तान्वारयिष्यामि यावद्द्रक्ष्यामि भारत ॥ ५.१७२.१५ ॥

阿周那、婆苏提婆,以及彼处其他诸王,只要我能看见他们,我便将阻挡他们,婆罗多啊。

5.172.16

पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् ।
उद्यतेषमथो दृष्ट्वा प्रतियुध्यन्तमाहवे ॥ ५.१७२.१६ ॥

然而,大臂者啊,即便我看见般遮罗的士兵世那·湿婆斗,举箭在战场上与我交战,我也不会杀他。

5.172.17

लोकस्तं वेद यदहं पितुः प्रियचिकीर्षया ।
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्यव्रते स्थितः ॥ ५.१७२.१७ ॥

世人皆知,我为了让父亲欢喜,放弃了已得的王位,安住于梵行之誓。

5.172.18

चित्राङ्गदं कौरवाणामाधिपत्येऽभ्यषेचयम् ।
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम् ॥ ५.१७२.१८ ॥

我为奇多罗安陀迦在俱卢族的统治之位上举行了灌顶,并为幼童毗奇特拉毗利耶在太子之位上举行了灌顶。

5.172.19

देवव्रतत्वं विज्ञाप्य पृथिवीं सर्वराजसु ।
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कदाचन ॥ ५.१७२.१९ ॥

向大地上所有的国王宣告我提婆跋多的身份之后,我绝不会杀害女人,也绝不会杀害前面站着女人的人。

5.172.20

स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः ।
कन्या भूत्वा पुमाञ्चातो न योत्स्ये तेन भारत ॥ ५.१७२.२० ॥

国王啊,如果你听说过,那位希坎迪先前是女人;他以少女身份出生,后来成为男子。婆罗多之后,我不会与他作战。

5.172.21

सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ ।
यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप ॥ ५.१७२.२१ ॥

婆罗多之牛啊,在战场上遇到的其他所有国王,我都将杀死;但是国王啊,我不杀贡蒂之子。