Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.18.1

ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः ।
ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम् ॥ ५.१८.१ ॥

此时,乾闼婆与阿普萨拉斯的众群赞颂帝释天,他骑上了具足吉祥相的象王爱罗婆多。

5.18.2

पावकः सुमहातेजा महर्षिश्च बृहस्पतिः ।
यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः ॥ ५.१८.२ ॥

极具光辉的般婆伽(火神阿耆尼)、大仙布利哈斯帕提、阎摩、伐楼那,以及财神俱毗罗。

5.18.3

सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः ।
गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः ॥ ५.१८.३ ॥

诛杀弗栗多的帝释天被诸神环绕,与乾闼婆及阿普萨拉斯一同,作为主宰前往三界。

5.18.4

स समेत्य महेन्द्राण्या देवराजः शतक्रतुः ।
मुदा परमया युक्तः पालयामास देवराट् ॥ ५.१८.४ ॥

天王舍脂迦图与摩亨德拉尼相会,满怀至上的喜悦,庇护诸神。

5.18.5

ततः स भगवांस्तत्र अङ्गिराः समदृश्यत ।
अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत् ॥ ५.१८.५ ॥

此时尊贵的安吉罗娑显现于彼,以《阿闼婆吠陀》的咒语供养天神之王。

5.18.6

ततस्तु भगवानिन्द्रः संहृष्टः समपद्यत ।
वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा ॥ ५.१८.६ ॥

尊贵的因陀罗于是大为欢喜,当即赐予阿闼婆安吉罗娑一个恩惠。

5.18.7

अथर्वाङ्गिरसं नाम वेदेऽस्मिन्वै भविष्यति ।
उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे। ॥ ५.१८.७ ॥

以阿闼婆-安吉罗娑之名,此事将在吠陀中为人所知,因为这正是范例;你也将获得祭祀的一份。

5.18.8

एवं संपूज्य भगवानथर्वाङ्गिरसं तदा ।
व्यसर्जयन्महाराज देवराजः शतक्रतुः ॥ ५.१८.८ ॥

如此尊敬了世尊阿闼婆-安吉罗娑之后,大王啊,诸神之王、百祭之主因陀罗便让他离去了。

5.18.9

संपूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान् ।
इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः ॥ ५.१८.९ ॥

尊敬了所有三十位天神以及以苦行为财富的仙人之后,大王啊,因陀罗心生欢喜,依法守护着臣民。

5.18.10

एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया ।
अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया ॥ ५.१८.१० ॥

因陀罗如此与妻子一同遭受痛苦,并且怀着杀灭敌人的愿望,也曾隐匿而居。

5.18.11

नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने ।
द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः ॥ ५.१८.११ ॥

在这里你不应当因为在大森林中与德劳帕蒂及诸位大德兄弟一同受苦而生气,王中之王啊。

5.18.12

एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत ।
वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन ॥ ५.१८.१२ ॥

同样地,你也将获得王国,王中之王啊,婆罗多之子,正如释迦在杀死弗栗多之后所获得的那样,考罗婆的欢喜啊。

5.18.13

दुराचारश्च नहुषो ब्रह्वद्विट् पापचेतनः ।
अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः ॥ ५.१८.१३ ॥

行为邪恶、憎恨婆罗门、心怀罪恶的那habusha(Nahuṣa),被阿伽斯提亚的诅咒击中,永久地毁灭了。

5.18.14

एवं तव दुरात्मानः शत्रवः शत्रुसूदन ।
क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः ॥ ५.१८.१४ ॥

如此,灭敌者啊,你那些心怀恶念的敌人,迦尔纳、难敌等人,很快就会走向毁灭。

5.18.15

ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम् ।
भ्रातृभिः सहितो वीर द्रौपद्या च सहानया ॥ ५.१८.१५ ॥

然后,英雄啊,你将与诸位兄弟以及德罗波蒂一起,享有这被大海环绕的大地。

5.18.16

उपाख्यानमिदं शक्रविजयं वेदसंमितम् ।
राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता। ॥ ५.१८.१६ ॥

此段叙事,因陀罗的胜利,与吠陀相等;渴望胜利的国王,在军队列阵时应当聆听。

5.18.17

तस्मात्संश्रावयामि त्वां विजयं जयतां वर ।
संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर ॥ ५.१८.१७ ॥

因此,胜利者中的最优者啊,我为你诵说这段胜利的故事。坚战啊,被赞颂的大德之人会更加兴盛。

5.18.18

क्षत्रियाणामभावोयं युधिष्ठिर महात्मनाम् ।
दुर्योधनापराधेन भीमार्जुनबलेन च
सङ्ग्रामे संक्षयो घोरो भविष्यत्यचिरादिव ॥ ५.१८.१८ ॥

坚战啊,这些大德刹帝利的毁灭,将因难敌的过失,以及比摩与阿周那的力量而到来;战场上的可怕屠杀,仿佛很快就会发生。

5.18.19

आख्यानमिन्द्रविजयं य इदं नियतः पठेत् ।
धूतपाप्मा जितस्वर्गः परत्रेह च मोदते ॥ ५.१८.१९ ॥

若有人以克制之心诵此因陀罗胜利之传说,洗去罪业,便能赢得天界,今生与来世皆得喜乐。

5.18.20

न चारिजं भयं तस्य नापुत्रो वा भवेन्नरः ।
नापदं प्राप्नुयात्कांचिद्दीर्घमायुश्च विन्दति।
सर्वत्र दयमाप्नोति न कदाचित्पराजयम् ॥ ५.१८.२० ॥

他不因敌人而惧怕,人也不会无子;他不遭遇任何灾祸,获得长寿,处处得享兴盛,从不遭遇败北。

5.18.21

एवमाश्वासितो राजा शल्येन भरतर्षभ ।
पूजयामास विधिवच्छल्यं धर्मभृतां वरः ॥ ५.१८.२१ ॥

婆罗多族的雄牛啊,被沙利耶如此安慰之后,遵守法的最优秀的国王依照礼仪尊敬沙利耶。

5.18.22

श्रुत्वा तु शल्यवचनं कुन्तीपुत्रो युधिष्ठिरः ।
प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः ॥ ५.१८.२२ ॥

俱胝之子、大臂的坚战听了沙利耶的话,便对摩德罗国王说了这番话。

5.18.23

भवान्कर्णस्य सारथ्यं करिष्यति न संशयः ।
तत्र तेजोवधः कार्यः कर्णस्यार्जुनसंस्तवैः ॥ ५.१८.२३ ॥

你无疑将成为迦尔纳的御者。在那里,应当以赞美阿周那来削弱迦尔纳的光辉。

5.18.24

एवमेतत्करिष्यामि यथा मां संप्रभाषसे ।
यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव ॥ ५.१८.२४ ॥

你怎样对我说,我便照样去做;凡我能做的其他事情,我也为你去做。

5.18.25

ततस्त्वामन्त्र्य कौन्तेयाञ्छल्यो मद्राधिपस्तदा ।
जगाम सबलः श्रीमान्दुर्योधनमरिन्दम ॥ ५.१८.२५ ॥

于是摩德罗国之主沙利耶向昆提之子告别,率领军队前往光荣的难敌那处,啊,克敌者。