摩诃婆罗多 · 章 5.188
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.188.1
कथं शिखण्डी गाङ्गेय कन्यां भूत्वा पुरा तदा ।
पुरुषोऽभूद्युधिश्रेष्ठ तन्मे ब्रूहि पितामह ॥ ५.१८८.१ ॥
恒河之子啊,昔日为女的施כhandin如何变成了男子?最好的战士、祖父,请告诉我。
5.188.2
भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः ।
महिषी दयिता ह्यासीदपुत्रा च विशांपते ॥ ५.१८८.२ ॥
那位大地之主德鲁帕达的妻子,他所爱的正妃,没有子嗣,王中之王啊。
5.188.3
एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः ।
अपत्यार्थे महाराज तोषयामास शङ्करम् ॥ ५.१८८.३ ॥
就在那时,大王啊,大地之主德鲁帕达为了求子,使湿婆大神欢喜。
5.188.4
अस्माद्वधार्थं निश्चित्य तपो घोरं समास्थितः ।
ऋते कन्यां महादेव पुत्रो मेस्यादिति ब्रुवन् ॥ ५.१८८.४ ॥
他决意要杀死她,便修习可怕的苦行,说道:“大天神啊,愿我生的是儿子,而非女儿。”
5.188.5
भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया ।
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति ॥ ५.१८८.५ ॥
“世尊,我想要一个儿子,以报复毗湿摩。”天神之神如此回应道:“你的孩子将是女男。”
5.188.6
निवर्तस्व महीपाल नैतञ्जात्वन्यथा भवेत् ।
स तु गत्वा च नगरं भार्यामिदमुवाच ह ॥ ५.१८८.६ ॥
“守护大地的人啊,回去吧;这事绝不会有别的结果。”他回到城中,便将此话告诉了妻子。
5.188.7
कृतो यत्नो महादेवस्तपसाऽऽराधितो मया ।
कन्या भूत्वा पुमान्भावी इति चोक्तोस्मि शंभुना ॥ ५.१८८.७ ॥
我以苦行努力敬奉大天神湿婆;尊者(湿婆)告诉我,我虽是少女,终将成为男子。
5.188.8
पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः ।
नतदन्यच्च भविता भवितव्यं हि तत्तथा ॥ ५.१८८.८ ॥
虽然一再恳求,湿婆仍说:“这是命运;不会有别的结果。注定要发生的,就必然如此。”
5.188.9
ततः सा नियता भूत्वा ऋतुकाले मनस्विनी ।
पत्नी द्रुपदराजस्य द्रुपदं प्रविवेश ह ॥ ५.१८८.९ ॥
于是她自持而有志气,在月经期间,以德鲁帕达王之妻的身份进入德鲁帕达的寝宫。
5.188.10
लेभे गर्भं यथाकालं विधिदृष्टेन कर्मणा ।
पार्षतस्य महीपाल यथा मां नारदोऽब्रवीत् ॥ ५.१८८.१० ॥
大地的守护者啊,依照命定的行为,她在适当的时候怀孕了——为了珀里沙塔之子,正如那罗陀对我所说。
5.188.11
ततो दधार सा देवी गर्भं राजीवलोचना ।
तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन ॥ ५.१८८.११ ॥
那莲花眼的王后便怀了胎;库鲁之喜悦啊,德鲁帕达王看着他心爱的王后。
5.188.12
पुत्रस्नेहान्महाबाहुः मुखं पर्यचरत्तदा ।
सर्वानभिप्रायकृतान्भार्याऽलभत कौरव ॥ ५.१८८.१२ ॥
出于对儿子的爱,那臂膀强大的人当时照料她的面容;考拉瓦啊,王后得到了她所希望的一切。
5.188.13
अपुत्रस्य सतो राज्ञो द्रुपदस्य महीपतेः ।
यथाकालं तु सा देवी महिषी द्रुपदस्य ह ॥ ५.१८८.१३ ॥
无子的大地之主国王德鲁帕达,其正妃提维(天后)适时……
5.188.14
कन्यां प्रवररूपां तु प्राजायत नराधिप ।
अपुत्रस्य तु राज्ञः सा द्रुपदस्य मनस्विनी ॥ ५.१८८.१४ ॥
人主啊,生下一个容貌殊胜的女儿;那位无子的国王德鲁帕达的贤淑女儿……
5.188.15
ख्यापयामास राजेन्द्र पुत्रो ह्येष ममेति वै ।
ततः स राजा द्रुपद प्रच्छन्नाया नराधिप ॥ ५.१८८.१५ ॥
王中之王啊,她宣称:'这确是我的儿子。'于是,人主啊,德鲁帕达王对于那位被隐藏的……
5.188.16
पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् ।
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा ॥ ५.१८८.१६ ॥
他如待儿子一般,让她完成儿子应尽的一切职责;而守护秘密的,正是德鲁帕达的正妃……
5.188.17
चकार सर्वयत्नेन ब्रुवणा पुत्र इत्युत ।
न च तां वेदक नगरे कश्चिदन्यत्र पार्षतात् ॥ ५.१८८.१७ ॥
她竭尽全力,说'这是儿子'而行事;城中除了般遮多(德鲁帕达)之外,无人知晓她的真相。
5.188.18
श्रद्दधानो हि तद्वाक्यं देवस्याच्युततेजसः ।
छादयामास तां कन्यां पुमानिति च सोब्रवीत् ॥ ५.१८८.१८ ॥
他信赖那位不朽光辉之神的话语,遮掩了那位少女,并说:'这是男性。'
5.188.19
जातकर्माणि सर्वाणि कारयामास पार्थिवः ।
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः ॥ ५.१८८.१९ ॥
国王按照礼法为她举行了所有如同男子的诞生仪式;人们便称她为尸犍底。
5.188.20
अहमेकस्तु चारेण वचनान्नारदस्य च ।
ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा ॥ ५.१८८.२० ॥
唯我一人通过间谍、依那罗陀的话、神的话以及安巴的苦行而得知此事。