摩诃婆罗多 · 章 5.189
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.189.1
चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु ।
ततो लेख्यादिषु तथा शिल्पेषु च परंतप ॥ ५.१८९.१ ॥
德鲁帕达在一切事务上为女儿尽心,之后在书写等学问和技艺上也是如此,啊,烧灼敌人者。
5.189.2
इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह ।
तस्य माता महाराज राजानं वरवर्णिनी ॥ ५.१८९.२ ॥
啊,诸王之王,他在射箭与兵器上成为德罗纳的弟子。啊,大王,他的母亲,那位容颜美丽的女子,对国王说道。
5.189.3
चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा ।
ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम् ।
स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया ॥ ५.१८९.३ ॥
那时他像对待儿子一样,为了妻子之事而催促她。随后,比利沙塔之子看到已达青春的少女,将她视为成年女子,便与妻子一同陷入忧虑。
5.189.4
कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी ।
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः ॥ ५.१८९.४ ॥
我的这个女儿已达青春,这青春只会增添悲伤。我遵照持三叉戟者(湿婆)的话,一直将她隐藏起来。
5.189.5
न तन्मिथ्या महाराज भविष्यति कथंचन ।
त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति ॥ ५.१८९.५ ॥
啊,大王,那绝不会是虚假的。三界的创造者何必在此徒然出言呢?
5.189.6
यदि ते रोचते राजन्वक्ष्यामि श्रृणु मे वचः ।
श्रुत्वेदानीं प्रपद्येथाः स्वां मतिं पृषतात्मज ॥ ५.१८९.६ ॥
若你愿意,啊,国王,我便说,请听我的话。啊,比利沙塔之子,现在听了之后,就依从你自己的判断吧。
5.189.7
क्रियतामस्य यत्नेन विधिवद्दारसंग्रहः ।
भविता तद्वचः सत्यमिति मे निश्चिता मतिः ॥ ५.१८९.७ ॥
应当努力依礼为他娶妻。我坚定地认为他的话必将应验。
5.189.8
ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दंपती ।
वरयाञ्चक्रतुः कन्यां दशार्णाधिपतेः सुताम् ॥ ५.१८९.८ ॥
于是这对夫妇决定此事,便为十罗国王之女求婚。
5.189.9
ततो राजा द्रुपदो राजसिंहः ।
सर्वान्राज्ञः कुलतः सन्निशाम्य।
दाशार्णकस्य नृपतेस्तनूजां ।
शिखण्डिने वरयामास दारान् ॥ ५.१८९.९ ॥
于是王中雄狮德鲁巴达审察诸王的世系,为尸格曼廷求娶十罗王之女。
5.189.10
हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः ।
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ॥ ५.१८९.१० ॥
那位被称为金甲的十罗王,把女儿许配给了尸格曼廷。
5.189.11
स च राजा दशार्णेषु महानासीत्सुदुर्जयः ।
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः ॥ ५.१८९.११ ॥
那位国王在十罗人中威望很高,极难战胜。金甲难以攻破,拥有大军,心胸宽广。
5.189.12
कृते विवाहे तु तदा सा कन्या राजसत्तम ।
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ॥ ५.१८९.१२ ॥
诸王之最啊,婚礼既成,那位少女长大成人,这位少女便是尸格曼蒂尼。
5.189.13
कृतदारः शिखण्डी च काम्पिल्यं पुनरागमत् ।
न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल।
यदा त्वेनामजानात्सा स्त्रियमेव नृपात्मजा ॥ ५.१८९.१३ ॥
尸犍丁娶妻后再次回到俱卢国的甘毗罗。一段时间内,她并不知道这位少女是女子;然而当王女发觉时,他确实是女子。
5.189.14
धात्रीणां च सखीनां च व्रीडयाना न्यवेदयत् ।
कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम् ॥ ५.१८९.१४ ॥
她羞怯地告诉乳母和女伴们,那位少女确实是般遮罗王之女尸犍丁尼。
5.189.15
ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा ।
जग्मुरार्ति परां प्रेष्याः प्रेषयामासुरेव च ॥ ५.१८९.१५ ॥
那时,诸王中的虎啊,达夏尔纳国的那些乳母陷入极大的忧愁,并派遣使者传递消息。
5.189.16
ततो दशार्णाधिपतेः प्रेष्याः सर्वा न्यवेदयन् ।
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ॥ ५.१८९.१६ ॥
于是达夏尔纳之主的所有仆从将所发生的欺骗如实禀报,那位国王勃然大怒。
5.189.17
शिखण्ड्यपि महाराज पुंवद्राजकुले तदा ।
विजहार म्रुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ॥ ५.१८९.१७ ॥
大王啊,尸犍丁那时也在王宫中像男子一样欢乐地生活,他毫不喜欢女子的身份。
5.189.18
ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ ।
हिरण्यवर्मा राजेन्द्र रोषादर्तिं जगाम ह ॥ ५.१८९.१८ ॥
过了几天,婆罗多族的雄牛啊,诸王之主啊,希兰亚瓦尔曼听闻此事,因愤怒而陷入痛苦。
5.189.19
ततो दाशार्णको राजा तीव्रकोपसमन्वितः ।
दूतं प्रस्थापयामास द्रुपदस्य निवेशनम् ॥ ५.१८९.१९ ॥
于是达舍尔纳国王怒火中烧,派遣使者前往德鲁帕达的住所。
5.189.20
ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः ।
एक एकान्तसुत्सार्य रहो वचनमब्रवीत् ॥ ५.१८९.२० ॥
于是,金甲王的使者走近德鲁帕达,让其他人退下,独自私下说出了这些话。
5.189.21
दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् ।
अभिष्गात्प्रकुपितो विप्रलब्धस्त्वयाऽनघ ॥ ५.१८९.२१ ॥
国王啊,达舍尔纳国王对你说了这些话。无瑕者啊,他被你欺骗,极为愤怒。
5.189.22
अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव ।
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि ॥ ५.१८९.२२ ॥
国王啊,你轻视我;这无疑是你错误的谋划——出于迷惑,你为了自己的女儿,向我求取我的女儿。
5.189.23
तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते ।
एष त्वं सजनामात्यमुद्धरामि स्थिरो भव ॥ ५.१८९.२३ ॥
邪恶之人啊,现在就承受那欺骗的果报吧。我将连同你的百姓与大臣一并连根拔除——坚定些吧。
5.189.24
अवमत्य च वीर्यं मे कुलं चारित्रमेव च ।
विप्रलम्भस्त्वयापूर्वो मनुष्येषु प्रवर्तितः ॥ ५.१८९.२४ ॥
你轻视我的勇武、我的家族与我的品行,在人间发起了前所未有的欺骗。
5.189.25
कुरु सर्वाणि कार्याणि भुङ्क्ष्व कभोगाननुत्तमान् ।
अभियास्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवम् ॥ ५.१८९.२५ ॥
你应尽所有的职责,享受最上等的欲乐。我将迅速前往,拯救你和你的亲族。