Vedyatra वेदयात्रा
Search

Mahābhārata · Adhyāya 5.19

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Read with meanings

5.19.1

युयुधानस्ततो वीरः सात्वतानां महारथः ।
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥ ५.१९.१ ॥

Then Yuyudhāna, the heroic great charioteer of the Sātvatas, came to Yudhiṣṭhira with a great fourfold army.

5.19.2

तस्य योधा महावीर्या नानादेशसमागताः ।
नानाप्रहरणा वीराः शोभयांचक्रिरे बलम् ॥ ५.१९.२ ॥

His warriors, of great valor, gathered from many lands, with many kinds of weapons, heroes adorned the army.

5.19.3

परश्वथैर्भिण्डिपालैः शूलतोमरमुद्गरैः ।
परिघैर्यष्टिभिः पाशैः करवालैश्च निर्मलैः ॥ ५.१९.३ ॥

With battle-axes, bhiṇḍipālas, spears, lances, maces, iron bars, staves, nooses, and bright swords.

5.19.4

खङ्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि ।
तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥ ५.१९.४ ॥

With swords, bows, and formations, and with various arrows, and with oil-washed gleaming weapons, that army indeed was adorned.

5.19.5

तस्य मेघप्रकाशस्य सौवर्णौः शोभितस्य च ।
बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥ ५.१९.५ ॥

The appearance of that army, bright as a cloud and adorned with golden ornaments, became like a cloud with lightning.

5.19.6

अक्षौहिणी तु सा सेना तदा यौधिष्ठिरं बलम् ।
प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ॥ ५.१९.६ ॥

That akṣauhiṇī army then entered Yudhiṣṭhira's force and vanished, O king, as the river Kunadī vanishes into the ocean.

5.19.7

तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली ।
धृष्टकेतुरुपागच्चत्पाण्डवानमितौजसः ॥ ५.१९.७ ॥

Likewise Dhṛṣṭaketu, the bull of the Cedis and mighty, took up an akṣauhiṇī and came to the Pāṇḍavas of immeasurable splendour.

5.19.8

मागधश्च जयत्सेनो जारासन्धिर्महाबलः ।
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥ ५.१९.८ ॥

Jayatsena, the Magadha king, mighty son of Jarāsandha, also came to the king of dharma with an akṣauhiṇī of troops.

5.19.9

तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः ।
वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ॥ ५.१९.९ ॥

Likewise, O lord of kings, the Pāṇḍya king came to Yudhiṣṭhira, surrounded by warriors of many kinds from the sea-shore and marshlands.

5.19.10

तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे ।
प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥ ५.१९.१० ॥

O king, in that gathering of forces his army was exceedingly splendid to behold, finely arrayed and strong.

5.19.11

केकयाश्च नरव्याघ्राः सोदराः पञ्च पार्थिवाः ।
संहर्षयन्तः कौन्तेयोनक्षौहिण्या समागताः ॥ ५.१९.११ ॥

The five brother princes of the Kekayas, tigers among men, came together with an akṣauhiṇī, delighting the sons of Kuntī.

5.19.12

द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः ।
शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥ ५.१९.१२ ॥

Drupada's army too was adorned with heroic men gathered from many lands, and with his sons, great chariot-warriors.

5.19.13

तथैव राजा मत्स्यानां विराटो वाहिनीपतिः ।
पार्वतीयैर्महीपालैः सहितः पाण्डवानयात् ॥ ५.१९.१३ ॥

Likewise King Virāṭa, lord of the army of the Matsyas, went to the Pāṇḍavas accompanied by the mountain kings.

5.19.14

इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् ।
अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः ॥ ५.१९.१४ ॥

From here and from there, seven akṣauhiṇī armies crowded with banners of many kinds gathered to the great-souled Pāṇḍavas.

5.19.15

युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ।
तथैव धार्तराष्ट्रस्य हर्षं समभिर्धयन् ॥ ५.१९.१५ ॥

Those eager to fight the Kurus gladdened the Pāṇḍavas, and likewise they kindled joy in the son of Dhṛtarāṣṭra.

5.19.16

भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ।
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् ॥ ५.१९.१६ ॥

King Bhagadatta gave an akṣauhiṇī army, surrounded by Chinese and Kirātas, as if it were made of gold.

5.19.17

बभौ बलमनाधृष्यं कर्णिकारवनं यथा ।
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन ॥ ५.१९.१७ ॥

That unassailable army shone like a grove of karṇikāra trees; so too the heroes Bhūriśravas and Śalya, O joy of the Kurus.

5.19.18

दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ।
कृतवर्मा च हार्दिक्यो भोजान्धकुकुरैः सह ॥ ५.१९.१८ ॥

Each came to Duryodhana separately, with an akṣauhiṇī army; Kṛtavarman, son of Hṛdika, came together with the Bhojas, Andhakas and Kukuras.

5.19.19

अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ।
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् ॥ ५.१९.१९ ॥

With one akṣauhiṇī of army he came to Duryodhana. In his force were tiger-among-men warriors wearing forest garlands.

5.19.20

अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ।
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः ॥ ५.१९.२० ॥

As a forest shines with maddened elephants at play, so shone the dwellers of Sindhu and Sauvīra, led by Jayadratha, and the others.

5.19.21

आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् ।
तेषामक्षौहिणी सेना बहुला विबभौ तदा ॥ ५.१९.२१ ॥

The protectors of the earth came, as if shaking the mountains. Their vast akṣauhiṇī army then shone forth.

5.19.22

विधूयमानो वातेन बहुरूप इवाम्बुदः ।
सुदक्षिणश्च काम्भोजो यवनैश्च शकैस्तथा ॥ ५.१९.२२ ॥

Like a many-formed cloud shaken by the wind, Sudakṣiṇa the Kāmboja came with the Yavanas and likewise with the Śakas.

5.19.23

उपाजगाम कौरव्यमक्षौहिण्या विशांपते ।
तस्य सेनासमावायः शलभानामिवाबभौ ॥ ५.१९.२३ ॥

O lord of men, with an akṣauhiṇī he came to the Kaurava; the gathering of his army shone like a swarm of locusts.

5.19.24

स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ।
तथा महिष्मतीवासी नीलो नीलायुधैः सह ॥ ५.१९.२४ ॥

Having reached the Kaurava, he vanished right there at that time; likewise Nīla, the dweller of Māhiṣmatī, with his blue weapons.

5.19.25

महीपालो महावीर्यैर्दक्षिणापथवासिभिः ।
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ ॥ ५.१९.२५ ॥

The protectors of the earth, mighty in valour and dwelling in the southern region, and the two kings of Avanti, well surrounded by great forces.

5.19.26

पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ।
ततस्ततस्तु सर्वेषां भूमिपानां महात्मनाम् ॥ ५.१९.२६ ॥

The two came forward separately to Suyodhana with two akṣauhiṇīs; then, from all the great-souled kings.

5.19.27

तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ।
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः ॥ ५.१९.२७ ॥

O bull of the Bharatas, three other armies came together; thus those forces of Duryodhana assembled into eleven akṣauhiṇīs.

5.19.28

युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ।
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा ॥ ५.१९.२८ ॥

Desiring to fight the sons of Kuntī, crowded with armies of many banners, O king, there was then no room left in Hāstinapura.

5.19.29

राज्ञां स्वबलमुख्यानां प्राधान्येनापि भारत ।
ततः प़ञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् ॥ ५.१९.२९ ॥

O Bhārata, principally as the chiefs of their own forces, the kings too; then the land of the five rivers, and all of Kurujāṅgala.

5.19.30

तथा रोहितकारण्यं मरुभूमिश्च केवला ।
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत ॥ ५.१९.३० ॥

Likewise the Rohitaka forest, the sheer desert land, Ahicchatra, Kālakūṭa, and, O Bhārata, the bank of the Gaṅgā.

5.19.31

वारणं वाटधानं च यामुनश्चैव पर्वतः ।
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् ॥ ५.१९.३१ ॥

Vāraṇa and Vāṭadhāna, and the mountain country of the Yamunā as well; this land is very extensive and rich in wealth and grain.

5.19.32

बभूव कौरवेयाणां बलेनातीव संवृतः ।
तत्र सैन्यं तथा युक्तं ददर्श स पुरोहितः ॥ ५.१९.३२ ॥

That land was thickly filled with the might of the Kauravas; there the priest saw the army drawn up and ready.

5.19.33

यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥ ५.१९.३३ ॥

He was the one sent by the king of the Pāñcālas to the Kauravas.