Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.190

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.190.1

एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप ।
चोरस्येव गृहीतस्य न प्रावर्तत भारती ॥ ५.१९०.१ ॥

使者如此说话时,王啊,德卢巴达当时竟说不出话来,如同被捕的盗贼一般。

5.190.2

स यत्नमकरोत्तीव्रं संबन्धिन्युनुमानने ।
दूतैर्मधुरसंभाषैर्न तदस्तीति संदिशन् ॥ ५.१९०.२ ॥

他对亲属竭力尽心,通过言辞甜美的使者传话说,并无此事。

5.190.3

स राजा भूय एवाथ ज्ञात्वा तत्त्वमथागमत् ।
कन्येति पाञ्चालसुतां त्वरमाणो विनिर्ययौ ॥ ५.१९०.३ ॥

那位国王再次得知真相后前来,并急忙出发,视般遮罗之女为处女。

5.190.4

ततः संप्रेषकयामास मित्रांणाममितौजसाम् ।
दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा ॥ ५.१९०.४ ॥

于是他派遣了力量无量的盟友,当时依乳母的话去查问女儿被欺骗之事。

5.190.5

ततः समुदयं कृत्वा बलानां राजसत्तमः ।
अभियाने मतिं चक्रे द्रुपदं प्रति भारत ॥ ५.१९०.५ ॥

于是,婆罗多啊,王中最杰出者集结了军队,决意向德卢巴达进军。

5.190.6

ततः संमन्त्रयामास मन्त्रिभिः स महीपतिः ।
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति ॥ ५.१९०.६ ॥

于是那位大地之主希兰耶筏摩与大臣们商议,王中之王啊,针对般遮罗之王。

5.190.7

तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् ।
तथ्यं भवति चेदेतत्कन्या राजञ्शिखण्डिनी ॥ ५.१९०.७ ॥

那些伟大的国王在那里决定:“如果尸冈迪尼确是处女,哦国王……

5.190.8

बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहम् ।
अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम् ॥ ५.१९०.८ ॥

我们将捆绑潘查拉王,带他回家;并在潘查拉人中立另一位王为人主……

5.190.9

घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम् ॥ ५.१९०.९ ॥

我们将杀死潘查拉王,连同尸冈丁……

5.190.10

स तदा द्रुतमाज्ञाय पुनर्दूतान्नराधिपः ।
प्रास्थापयत्पार्षतया निहन्मीति स्थिरो भव ॥ ५.१९०.१० ॥

那位人主迅速从使者处得知,便再次通过普利沙塔之子传话:“我将杀死他;你要坚定。”……

5.190.11

स हि प्रकृत्या वै भीतः किल्बिषी च नराधिपः ।
भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः ॥ ५.१९०.११ ॥

那位人主天性怯懦且有罪;大地之主德鲁帕达陷入了强烈的恐惧……

5.190.12

विसृज्य दूतान्दाशार्णे द्रुपदः शोकमूर्च्छितः ।
समेत्य भार्यां रहिते वाक्यमाह नराधिपः ॥ ५.१९०.१२ ॥

德鲁帕达派使者前往达沙尔纳,因悲痛而昏厥,之后在僻静处与妻子相见,说了这些话……

5.190.13

भयेन महताऽऽविष्टो हृदि शोकेन चाहतः ।
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः ॥ ५.१९०.१३ ॥

大恐惧笼罩、心中为悲伤所击的般遮罗王,对始尸坎丁心爱的母亲说了这番话。

5.190.14

अभियास्यति मां कोपात्संबन्धी सुमहाबलः ।
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् ॥ ५.१९०.१४ ॥

我的姻亲、极其强大、身披金甲的王者黑兰亚跋尔曼,将怒气冲冲地率军来攻击我。

5.190.15

किमिदानीं करिष्यावो मूढौ कन्यामिमां प्रति ।
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः ॥ ५.१९०.१५ ॥

我们两个愚人现在对这位少女该怎么办?始尸坎丁是你的儿子,却被怀疑是女子。

5.190.16

इति संचिन्त्य यत्नेन समित्रः सबलानुगः ।
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति ॥ ५.१९०.१६ ॥

他仔细思量之后,与盟友、军队和随从一起,认为“我被欺骗了”,实际上想要把我解救出来。

5.190.17

किमत्र तथ्यं सुश्रोणि मिथ्या किं ब्रूहि शोभने ।
श्रुत्वा त्वत्तः शुभं वाक्यं संविधास्याम्यहं तथा ॥ ५.१९०.१७ ॥

美腰的女子啊,这里哪些是真实,哪些是虚假?请说吧,光彩照人的人。我听了你的吉祥之言,便会照此安排。

5.190.18

अहं हि संशयप्राप्तो बाला चेयं शिखण्डिनी ।
त्वं च राज्ञि महत्कृच्छ्रं संप्राप्ता वरवर्णिनि ॥ ५.१९०.१८ ॥

我已陷入疑虑,这少女始尸坎迪尼也是如此;而你,王后,美貌的人,也陷入了巨大的困境。

5.190.19

सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः ।
तथा विदध्यां सुश्रोणि कृत्यमाशु शुचिस्मिते ॥ ५.१९०.१९ ॥

为了从一切中解脱,请把真相告诉我这个发问者。美臀的女子啊,纯净微笑的女子啊,我将迅速如此行事。

5.190.20

शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः ।
कृपयाहं वरारोहे वञ्चितः पुत्रधर्मतः ॥ ५.१९०.२० ॥

还有,希坎迪尼啊,不要害怕;我将在那里真正安排妥当。美腿的女子啊,我因怜悯而被子之职责所欺。

5.190.21

मया दाशार्णको राजा वञ्चितः स महीपतिः ।
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् ॥ ५.१९०.२१ ॥

我曾欺骗达沙尔纳卡王,那位大地之主。因此,大福的女子啊,请告诉我;我将在那里做有益之事。

5.190.22

जनाता ह नरेन्द्रेण ख्यापनार्थं परस्य वै ।
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् ॥ ५.१९०.२२ ॥

确实,女神被国王公开催促,为的是宣告另一人,于是回答了大地之主。