摩诃婆罗多 · 章 5.193
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.193.1
प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव ।
मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत ॥ ५.१९३.१ ॥
夜尽天明之时,你的儿子又在全军之中向祖父发问。
5.193.2
पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुद्यतम् ।
प्रभूतनरनागाश्वं महारथसमाकुलम् ॥ ५.१९३.२ ॥
恒河之子啊,般度之子的这支军队已列阵待发,人马象众繁多,大车武士密布。
5.193.3
भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः ।
लोकपालसमैर्गुप्तं धृष्टद्युम्नपुरोगमैः ॥ ५.१९३.३ ॥
由以毗摩与阿周那为首的大弓手、与世界护方神相等的大力者,以及以德利斯塔笃姆那为前导者所守护。
5.193.4
अप्रधृष्यमनावार्यमुद्धूतमिव सागरम् ।
सेनासागरमक्षोभ्यमपि देवार्महाहवे ॥ ५.१९३.४ ॥
这支军队如海洋般,不可战胜、不可阻挡,如同翻腾的大海;在大战中,即便诸神也无法使其动摇。
5.193.5
केन कालेन गाङ्गेय क्षपयेथा महाद्युते ।
आचार्यो वा महेष्वासः कृपो वाऽऽशु महाबलः ॥ ५.१९३.५ ॥
恒河之子啊,大光明者,你将在何时毁灭它?或者大弓手的导师,或大力的克里帕,会迅速将之毁灭吗?
5.193.6
कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः ।
दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम ॥ ५.१९३.६ ॥
无论是在战中自负的迦尔纳,还是婆罗门中最优的德罗纳之子——你们这些精通神圣兵器者,都是我的力量。
5.193.7
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे ।
हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम ॥ ५.१९३.७ ॥
我想知道此事,我心中时常怀着强烈的好奇。啊,大臂者,请你告诉我。
5.193.8
अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते ।
बलाबलममित्राणां तेषां यदिह पृच्छसि ॥ ५.१९३.८ ॥
此事与你相称,库鲁之最,大地之主,你在此询问敌人的强弱。
5.193.9
श्रृणु राजन्मम रणे या शक्तिः परमा भवेत् ।
शस्त्रवीर्ये रणे यच्च भुजयोश्च महाभुज ॥ ५.१९३.९ ॥
请听,大王:我在战场上的至高力量,以及兵器的勇力与双臂之力,啊,大臂者。
5.193.10
आर्जवेनैव युद्धेन योद्धव्य इतरो जनः ।
मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः ॥ ५.१९३.१० ॥
与人作战应以正直之战;对付狡诈者则以诡计之战——这便是法的定论。
5.193.11
हन्यामहं महाभाग पाण्डवानामनीकिनीम् ।
दिवसे दिवसे कृत्वा भागान्भागान्निजान्मम ॥ ५.१९३.११ ॥
啊,有福者,我将每日分配自己的份额,击溃般度之子的大军。
5.193.12
योधानां दशसाहस्रं कृत्वा भागं महाद्युते ।
सहस्रं रथिनामेकमेष भागो मतो मम ॥ ५.१९३.१२ ॥
啊,光辉者,以一万名步兵为一份,以一千名车兵为一份——这便被视为我的份额。
5.193.13
अनेनाहं विधानेन सन्नद्धः सततोत्थितः ।
क्षपयेयं महत्सैन्यं कालेनानेन भारत ॥ ५.१९३.१३ ॥
以此方法,我常披甲待命,便能在此时间内歼灭大军,婆罗多之子啊。
5.193.14
मुञ्चेयं यदि वास्त्राणि महान्ति समरे स्थितः ।
शतसाहस्रघातीनि हन्यां मासेन भारत ॥ ५.१९३.१४ ॥
若我立于战场放出那能杀十万人的大神兵,婆罗多之子啊,我将在一个月内将其杀尽。
5.193.15
श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्ततः ।
पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् ॥ ५.१९३.१५ ॥
杜尔约达那王听闻毗湿摩之言后,便问安吉罗娑中最优秀的德罗纳,王中之王啊。
5.193.16
आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् ।
निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव ॥ ५.१९३.१६ ॥
“老师,您要在何时杀尽般度之子的士兵?”德罗纳笑着回答他。
5.193.17
स्थविरोऽस्मि महाबाहो मन्दप्राणविचेष्टितः ।
शस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम् ॥ ५.१९३.१७ ॥
“大臂者啊,我已年老,生命之力与动作都已迟缓;我将以兵器之火焚尽般度子的大军。”
5.193.18
यथा भीष्मः शान्तनवो मासेनेति मतिर्मम ।
एषा मे परमा शक्तिरेतन्मे परमं बलम् ॥ ५.१९३.१८ ॥
“如同샨탄努之子毗湿摩能在一个月内做到,这便是我的看法。这是我的至高力量,这是我的至高武力。”
5.193.19
द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत् ।
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम्।
कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित् ॥ ५.१९३.१९ ॥
沙罗堕陀之子克里帕说需要两个月。德罗纳之子发誓在十夜之内消灭军队,精通大神兵的迦尔纳则发誓在五夜之内做到。
5.193.20
तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः ।
जहास सस्वनं हासं वाक्यं चेदमुवाच ह ॥ ५.१९३.२० ॥
听到御者之子的这番话,恒河之子大笑起来,说了这些话。
5.193.21
न हि यावद्रणे पार्थं बाणशङ्खधनुर्धरम् ।
वासुदेवसमायुक्तं रथेनायान्तमाहवे ॥ ५.१९३.२१ ॥
在战场上,只要你还没有遇见手持箭、海螺和弓、乘车而来、与婆苏提婆(黑天)同行的帕尔塔(阿周那),
5.193.22
समागच्छसि राधेय तेनैवमभिमन्यसे ।
शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः ॥ ५.१९३.२२ ॥
罗陀之子啊,在你还没有遇见他之前,你如此自夸。你可以随心所欲地说这些,甚至更多。