Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.195

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.195.1

ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः ।
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ॥ ५.१९५.१ ॥

于是清晨明朗之时,受持国之子难敌驱使的诸王,向般度之子们进发。

5.195.2

आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः ।
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः । ॥ ५.१९५.२ ॥

众人沐浴洁净,佩戴花环,身着白衣,手持兵器,高举旗帜,诵念吉祥语,并向火中献祭。

5.195.3

सर्वे ब्रह्मविदः शूराः सर्वे सुचरितव्रताः ।
सर्वे कामकृतश्चैव सर्वे चाहवलक्षणाः ॥ ५.१९५.३ ॥

众人皆通晓吠陀,皆为勇士,皆持守善誓,皆随意而行,皆具战阵之相。

5.195.4

आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः ।
एकाग्रमनसः सर्वे श्रद्दधानाः परस्परम् ॥ ५.१९५.४ ॥

诸大力者欲于战阵中胜取彼岸诸界,皆心志专一,彼此互相信任。

5.195.5

विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह ।
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ॥ ५.१९५.५ ॥

阿晚提的两位王子频陀与阿努频陀,与甘伽耶人及巴赫利卡人同行;他们皆以婆罗堕阁之子为前导而出发。

5.195.6

अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः ।
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ने नृपाः ॥ ५.१९५.६ ॥

马嘶之子、山多努之子,信度王胜车,以及南方、西方和山地的诸王。

5.195.7

गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः ।
शकाः किराता यवनाः शिबयोऽथ वसातयः ॥ ५.१९५.७ ॥

犍陀罗王沙恭尼,以及东方和北方的所有民族:塞族、吉拉塔人、希腊人、尸毗人和婆萨提人。

5.195.8

स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् ।
एते महारथाः सर्वे द्वितीये निर्ययुर्बले ॥ ५.१९५.८ ॥

各自率领自己的军队,环绕那位大车战士,这些大车战士全部率第二支军队出发。

5.195.9

कृतवार्मा सहानीकस्त्रिगर्तश्च महारथः ।
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ॥ ५.१९५.९ ॥

率军的克利塔瓦尔曼,大车战士、三乡王,以及被兄弟们环绕的国王难敌。

5.195.10

शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्रथः ।
एते पश्चादनुगता धार्तराष्ट्रपुरोगमाः ॥ ५.१९५.१० ॥

沙拉、布利史罗婆、沙利耶、考萨利耶与布利哈德罗陀,尾随其后,以持国之子为首。

5.195.11

ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः ।
कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः ॥ ५.१९५.११ ॥

那些大力的持国之子依礼聚集,披甲而立,在俱卢之野的西半部严阵以待。

5.195.12

दुर्योधनस्तु शिबिरं कारयामास भारत ।
यथैव हास्तिनपुरं द्वितीयं समलंकृतम् ॥ ५.१९५.१२ ॥

然而难敌,婆罗多啊,下令建造了一座营地,装饰精美,仿佛第二个象城。

5.195.13

न विशेषं विजानन्ति पुरस्य शिबिरस्य वा ।
कुशला अपि राजेन्द्र नरा नगरवासिनः ॥ ५.१९५.१३ ॥

王中之王啊,即使城中的能人也分辨不出城市与营地的区别。

5.195.14

तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः ।
कारयामास कौरव्यः शतशोऽथ सहस्रशः ॥ ५.१९५.१४ ॥

考罗婆王又为诸王建造了同样的堡垒,成百上千。

5.195.15

पञ्चयोजनमुत्सृज्य माण्डलं तद्रणाजिरम् ।
सेनानिवेशास्ते राजन्नाविशञ्छतसङ्घशः ॥ ५.१९५.१५ ॥

王啊,离开五由旬之外那圆形的战场,军营分作数百群进入。

5.195.16

तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् ।
विविशुः शिबिराण्यत्र द्रव्यवन्ति सहस्रशः ॥ ५.१९५.१६ ॥

诸王依各自的勇气与力量,进入了数千座物资丰富的营帐。

5.195.17

तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् ।
व्यादिदेश स बाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥ ५.१९५.१७ ॥

难敌王下令,为这些大德及其军队以及外来之人备办最上等的饮食。

5.195.18

सनागाश्वमनुण्याणां ये च शिल्पोपजीविनः ।
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ॥ ५.१९५.१८ ॥

给随行的象、马与士兵,给以手艺为生的工匠,给其他随从,以及在场的御者、歌者与赞颂者。

5.195.19

वणिजो गणिकाश्चारा ये चैव प्रेक्षका जनाः ।
सर्वांस्तन्कौरवो राजा विधिवत्प्रत्यवैक्षत ॥ ५.१९५.१९ ॥

商贾、妓女、探子以及观望的众人,考究国王都依法一一检视。