摩诃婆罗多 · 章 5.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.21.1
तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः ।
संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् ॥ ५.२१.१ ॥
毗湿摩以智慧年长、大光明的身份听了他的话,适时地尊敬了他,说了这些话。
5.21.2
दिष्ट्या कुशलिनः सर्वे सह दामोदरेण ते ।
दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः ॥ ५.२१.२ ॥
幸运的是,他们都与达摩达罗在一起,安然无恙;幸运的是,他们有盟友,幸运的是,他们热衷于法。
5.21.3
दिष्ट्या च सन्धिकामास्ते भ्रातरः कुरुनन्दनाः ।
दिष्टा न युद्धमनसः पाण्डवाः सह बान्धवैः ॥ ५.२१.३ ॥
幸运的是,那些俱卢族之子的兄弟们希望和解;幸运的是,般度之子与其亲属并无战意。
5.21.4
भवता सत्यमुक्तं तु सर्वमेतन्न संशयः ।
अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः ॥ ५.२१.४ ॥
你说的都是真话,这一切毫无疑问;但你的话极为尖锐,我的看法是,这是因为你的婆罗门身份。
5.21.5
असंशयं क्सेशितास्ते वने चेह च पाण्डवाः ।
प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् ॥ ५.२१.५ ॥
毫无疑问,般度之子在森林中和此地都受过苦难;而依法,他们已获得父亲的全部财富,这毫无疑问。
5.21.6
किरीटि बलवान्पार्थः कृतास्त्रश्च महारथः ।
को हि पाण्डुसुतं युद्धे विषहेत धनञ्जयम् ॥ ५.२१.६ ॥
冠者、有力的般若、精通武器的大车战士——在战斗中,谁能抵挡般度之子达那让耶?
5.21.7
अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः ।
त्रयाणामपि लोकानां समर्थ इति मे मतिः ॥ ५.२१.७ ॥
即便是执金刚的因陀罗本人,更何况其他持弓者呢?依我看,他足以对抗三界。
5.21.8
भीष्मे ब्रुवति तद्वाक्यं धृष्टमाक्षिप्य मन्युना ।
दुर्योधनं समालोक्य कर्णो वचनमब्रवीत् ॥ ५.२१.८ ॥
毗湿摩说完这些话后,迦尔纳愤怒地反驳,望着难敌,大胆地说出了这番话。
5.21.9
न तत्राविदितं ब्रह्मँल्लोके भूतेन केनचित् ।
पुनरुक्तेन किं तेन भाषितेन पुनः पुनः ॥ ५.२१.९ ॥
婆罗门啊,世上没有任何生灵不知道此事。一再重复那番话,又有什么用呢?
5.21.10
दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा ।
समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः ॥ ५.२१.१० ॥
为了难敌,沙恭尼过去在掷骰子中获胜;依照那份约定,般度之子坚战前往森林。
5.21.11
स तं समयमाश्रित्य राज्यं नेच्छति पैतृकम् ।
बलमाश्रित्य मत्स्यानां पाञ्चालानां च मूर्खवत् ॥ ५.२१.११ ॥
他依仗那份约定,不愿索取祖传的王国,像愚人一样倚仗马特斯亚和般遮罗的兵力。
5.21.12
दुर्योधनो भयाद्विद्वन्न दद्यात्पादमन्ततः ।
धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च ॥ ५.२१.१२ ॥
智者啊,难敌出于恐惧,到最后连一步之地也不肯给;但依法而言,即便对敌人,也应将整个大地交付。
5.21.13
यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः ।
यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः ॥ ५.२१.१३ ॥
若他们想再次获得父祖的王国,就让他们依照诺言在森林中度过那段时间。
5.21.14
ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः ।
अधार्मिकीं तु मा बुद्धिं मौर्ख्यात्कुर्वन्तु केवलात् ॥ ५.२१.१४ ॥
于是让他们在难敌的膝下无惧地生活,但不要因纯粹的愚昧而生出不义之念。
5.21.15
अथ ते धर्ममुत्सृत्य युद्धमिच्छन्ति पाण्डवाः ।
आसाद्येमान्कुरुश्रेष्ठान्स्मरिष्यन्ति वचो मम ॥ ५.२१.१५ ॥
如今若般度五子舍弃正法而求战,待他们面对这些俱卢之最时,便会想起我的话。
5.21.16
किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि ।
एक एव यदा पार्थः षड्रथाञ्जितवान्युधि ॥ ५.२१.१६ ॥
啊,罗陀之子!你为何不依你自己的话想起那件事——当时普特之子独自在战场上击败了六位战车武士?
5.21.17
विराटनगरे धीरः किं त्वं तत्रैव नागतः ।
बहुशो जीयमानस्य कर्म दृष्टं तदैव ते ॥ ५.२१.१७ ॥
啊,坚毅者!你为何没有去毗罗吒城?当你屡次被击败时,你的那番作为便已显现了。
5.21.18
न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत् ।
ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान्। ॥ ५.२१.१८ ॥
若我们不照这位婆罗门所说去做,必定会在战斗中被杀,并因他而沦为食尘者。
5.21.19
दुर्योधनः सहामात्यो विनङ्क्ष्यति न संशयः ।
धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च।
अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् ॥ ५.२१.१९ ॥
难敌连同他的大臣们必将毁灭,毫无疑问。于是持国王尊重并安抚毗湿摩,斥责了罗陀之子(迦尔纳),说出了这番话。
5.21.20
अस्मद्धितं वाक्यमिदं भीष्मः शान्तनवोऽब्रवीत् ।
पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ॥ ५.२१.२० ॥
山多之子毗湿摩为我们的利益说出了这番话,也为般度之子的利益和整个世界的利益而说。
5.21.21
चिन्तयित्वा तु पार्थेभ्यः प्रेषयिष्यामि सञ्जयम् ।
स भवान्प्रतियात्वद्य पाण्डवानेव माचिरम् ॥ ५.२१.२१ ॥
我思量之后,将派遣参遮耶去见普利塔之子。愿他今日便回到般度五子那里,不要延误。
5.21.22
स तं सत्कृत्य कौरव्यः प्रेषयामास पाण्डवान् ।
सभामध्ये समाहूय सञ्जयं वाक्यमब्रवीत् ॥ ५.२१.२२ ॥
俱卢之王尊敬地遣送他去见般度五子。他在议会中间召唤参遮耶,说出了这番话。