Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.24.1

यथाऽऽत्थ मे पाण्डव तत्तथैव ।
कुरून्कुरुश्रेष्ठ जनं च पृच्छसि।
अनामयास्तात मनस्विनस्ते ।
कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ॥ ५.२४.१ ॥

桑闍耶说:般度之子啊,正如你对我所说。你在问俱卢族、俱卢族中的最优者以及众人。亲爱的,那些心胸高尚者无病无恙。普利塔之子啊,你所问的俱卢族最优者们安好。

5.24.2

सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे ।
सन्त्येव पापाः पाण्डव तस्य विद्धि।
दद्याद्रिपुभ्योऽपि हि धार्तराष्ट्रः ।
कुतो दायांल्लोपयेद्ब्राह्मणानाम् ॥ ५.२४.२ ॥

桑闍耶说:在持国的儿子们中,确有长者和善人;般度之子啊,你应知其中也有恶人。即使持国之子也会施予敌人,他又怎会剥夺婆罗门的份额呢?

5.24.3

यद्युष्मासु वर्ततेऽसावधर्म्य-
मद्रुग्धेषु द्रुग्धवत्तन्न साधु।
मित्रध्रुक् स्याद्धृतराष्ट्रस्य पुत्रो ।
युष्मान्द्विपन्साधुवृत्तानसाधुः ॥ ५.२४.३ ॥

桑闍耶说:若持国的那个儿子对你们行不义,而你们从未伤害他,那就如同伤害未曾伤人者,这并不好。持国之子将成为背弃朋友的人;憎恨你们这些善行者的人,是恶人。

5.24.4

स चापि जानाति भृशं च तप्यते ।
शोचत्यन्तः स्थविरोऽजातशत्रो।
शृणोति हि ब्राह्मणानां समेत्य ।
मित्रद्रोहः पातकेभ्यो यरीयान् ॥ ५.२४.४ ॥

他也深知此理,极为痛苦;阿阇多设咄啊,那位老者内心忧伤。与婆罗门相会时,他听闻背弃朋友之罪重于一切罪过。

5.24.5

स्मरन्ति तुभ्यं नरदेव सङ्गमे ।
युद्धे च जिष्णोश्च युधां प्रणेतुः।
समुद्धुष्टे दुन्दुभिशङ्खशब्दे ।
गदापाणिं भीमसेनं स्मरन्ति ॥ ५.२४.५ ॥

人主啊,在集会与战场上,他们都会想起你。当鼓声与海螺声响起时,他们想起胜利者阿周那,那位战士之首,也想起手持金刚杵的毗摩森那。

5.24.6

माद्रीसुतौ चापि तथाऽऽजिमध्ये ।
सर्वा दिशः संपतन्तौ स्मरन्ति।
सेनां वर्षन्तौ शग्वैपरजमं ।
महारथौ समरे दुष्प्रकम्पौ ॥ ५.२४.६ ॥

在战阵之中,他们也想起玛德丽的两个儿子——那两位大战车武士,奔驰于四方,向军队倾洒箭雨,在战场上屹立不动。

5.24.7

समीकुर्याः प्रज्ञयाऽजातशत्रो ॥ ५.२४.७ ॥

阿闍多设特茹啊,你应当以智慧与他们讲和。

5.24.8

न कामार्थं सन्त्यजेयुर्हि धर्मं ।
पाण्डोः सुताः सर्व एवेन्द्रकल्पाः ।
त्वमेवैतत्प्रज्ञयाऽजातशत्रो ।
समीकुर्या येन शर्माप्नुयुस्ते ॥ ५.२४.८ ॥

他们不会为了欲望或财富而舍弃正法。般度的诸子都如同因陀罗。阿闍多设特茹啊,唯有你应以智慧平息此事,使他们得享安宁。

5.24.9

धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च ।
ये चाप्यन्ते सन्निविष्टा नरेन्द्राः ।
यन्मां ब्रवीद्धृतराष्ट्रो निशाया-
मजातशत्रो वचनं पिता ते ॥ ५.२४.९ ॥

持国之子、般度之子、娑闍耶诸王,以及聚集于此的诸王——阿闍多设特茹啊,请听你的父亲持国夜间对我所说的话。

5.24.10

सहामात्यः सहपुत्रश्च राजन् ।
समेत्य तां वाचमिमां निबोध ॥ ५.२४.१० ॥

与大臣和诸子一同——王啊,请聚集起来,理解这番话。