摩诃婆罗多 · 章 5.25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.25.1
समागताः पाण्डवाः सृञ्जयाश्च ।
जनार्दनो युयुधानो विराटः।
यत्ते वाक्यं धृतराष्ट्रानुशिष्टं ।
गावल्गणे ब्रूहि तत्सूतपुत्र ॥ ५.२५.१ ॥
般度之子与苏阇耶人已在此集会,还有生主(黑天)、尤尤陀那与毗罗吒。请说出持国王教你的话,伽婆罗婆那之子,御者之子。
5.25.2
अजातशत्रुं च वृकोदरं च ।
धनञ्जयं माद्रवतीसुतौ च।
आमन्त्रये वासुदेवं च शौरिं ।
युयुधानं चेकितानं विराटम् ॥ ५.२५.२ ॥
我邀请无敌者(坚战)与狼腹(怖军)、财胜(阿周那)、摩德罗之女的两个儿子、婆素提婆与舍利、尤尤陀那、埃基塔那和毗罗吒。
5.25.3
पञ्चालानामधिपं चैव वृद्धं ।
धृष्टद्युम्नं पार्षतं याज्ञसेनिम् ।
सर्वे वाचं शृणुतेमां मदीयां ।
वक्ष्यामि यां भूतिमिच्छन्कुरूणाम् ॥ ५.२५.३ ॥
般遮罗之主、年长的德律斯陀德由那、补利沙塔之子、祀那犀那之子,你们都请听我的话。我愿为俱卢族谋福,将要说出的话,请听。
5.25.4
शमं राजा धृतराष्ट्रोऽभिनन्द-
न्नयोजयत्त्वरमाणो रथं मे।
सभ्रातृपुत्रस्वजनस्य राज्ञ-
स्तद्रोचतां पाण्डवानां शमोऽस्तु ॥ ५.२५.४ ॥
持国王赞许和平,急忙命人为我套上战车。愿此事合乎国王及其兄弟、子嗣与亲族的心意,愿与般度之子实现和平。
5.25.5
सर्वैर्धर्मैः समुपेतास्तु पार्थाः ।
संस्थानेन मार्दनेवार्जवेन।
जाताः कुले ह्यनृशंसा वदान्या ।
हीनिषेवाः कर्मणां निश्चयज्ञाः ॥ ५.२५.५ ॥
普利塔之子般度五兄弟具备一切德行,以坚定、温和、正直而生于其族;他们慈悲、慷慨、知耻,且通晓行事的决断。
5.25.6
न युज्यते कर्म युष्मासु हीनं ।
सत्वं हि वस्तादृशं भीमसेनाः ।
उद्भासते ह्यञ्जनबिन्दुवत्त-
च्छुभ्रे वस्त्रे यद्भवेत्किल्बिषं वः ॥ ५.२५.६ ॥
如此卑劣的行为不适合你们,因为,婆罗多的英雄毗摩娑那,你们的本性并非如此。犹如一滴黑膏落在白布上十分显眼,你们身上的污点也会显露无遗。
5.25.7
सर्वक्षयो दृश्यते यत्र कृत्स्नः ।
पापोदयो भावसंस्थः कुरूणाम्।
कस्तत्र कुर्याञ्जातु कर्म प्रजानन् ।
पराजयो यत्र समो जयश्च ॥ ५.२५.७ ॥
在见到彻底毁灭、且罪恶的兴起根植于俱卢人本性之处,谁明知如此,还会去做那种胜败相等的事呢?
5.25.8
ते वै धन्या यैः कृतं ज्ञातिकार्यं ।
ते वै पुत्राः सुहृदो बान्धवाश्च।
उपक्रुष्टं जीवितं सन्त्यजेयु-
र्यतः कुरूणां नियतो वै भवः स्यात् ॥ ५.२५.८ ॥
那些尽了亲族之责的人确实是有福的;那些能舍弃受人非议之生命的人,才是真正的儿子、朋友与亲属,如此俱卢人的福祉便得以确定。
5.25.9
ते चेत्कुरूननुशिष्याथ पार्था ।
निर्णीय सर्वान्द्विषतो निगृह्य।
समं वस्तज्जीवितं मृत्युन स्या-
द्यज्जीवध्वं ज्ञातिवधेन साधु ॥ ५.२५.९ ॥
若普利塔之子教导了俱卢人,决断并制服了所有敌人,那么你们以杀害亲族而得以生存的生命,便不等同于死亡,那将是好的。
5.25.10
को ह्येव युष्मान्सह केशवेन ।
सचेकितानान्पार्षतबाहुगुप्तान्।
ससात्यकीन्विषहेत प्रजेतुं ।
लब्ध्वाऽपि देवान्सचिवान्सहेन्द्रान् ॥ ५.२५.१० ॥
谁能忍受战胜你们——与克沙瓦同在、受般遮罗之臂保护的遮其坦那,以及萨提亚基——即便得到了诸神及其大臣和因陀罗?
5.25.11
को वा कुरून्द्रोणभीष्माभिगुप्ता-
नश्वत्थाम्ना शल्यकृपादिभिश्च।
रणे विजेतुं विषहेत राजन् ।
राधेयगुप्तान्सह भूमिपालैः ॥ ५.२५.११ ॥
或者,国王啊,谁能忍受在战场上战胜由德罗纳、毗湿摩、阿湿婆陀摩、沙利耶、克里帕等所护卫的俱卢族,连同由罗陀之子护卫的诸王?
5.25.12
महद्बलं धार्तराष्ट्रस्य राज्ञः ।
को वै शक्तो हन्तुमक्षीयमाणः ।
सोऽहं जये चैव पराजये च ।
निःश्रेयसं नाधिगच्छामि किंचित् ॥ ५.२५.१२ ॥
究竟谁能消灭那不会减少的、国王——持国之子——的庞大军队?无论胜利还是失败,我都找不到任何福祉。
5.25.13
कथं हि नीचा इव दौष्कुलेया ।
निर्धर्मार्थं कर्म कुर्युश्च पार्थाः ।
सोऽहं प्रसाद्य प्रणतो वासुदेवं ।
पञ्चालानामधिपं चैव वृद्धम् ॥ ५.२५.१३ ॥
般度之子岂会像出身卑贱的低劣之人那样,为了不义之目的而行事?我安抚了婆苏提婆,向他行礼,也向般遮罗年长的君主致敬。
5.25.14
कृताञ्जलिः शरणं वः प्रपद्ये ।
कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्।
न ह्येवमेवं वचनं वासुदेवो ।
धनञ्जयो वा जातु किंचिन्न कुर्यात् ॥ ५.२५.१४ ॥
我合掌前来向你们寻求庇护。库如族与斯林遮耶族怎能得享安宁?毗湿奴之子或财主(阿周那)绝不会因这样的话而做任何事。
5.25.15
प्रणान्दद्याद्याचमानः कुतोऽन्य-
देतद्विद्वन्साधनार्थं ब्रवीमि ।
एतद्राज्ञो भीष्मपुरोगमस्य ।
मतं यद्वः शान्तिरिहोत्तमा स्यात् ॥ ५.२५.१५ ॥
即便舍弃性命也应当恳求;此外还有什么呢?博学者啊,我为此手段而说。这是以毗湿摩为首的国王的意见;在此,这对你们将是至上的和平。