摩诃婆罗多 · 章 5.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.27.1
धर्मनित्या पाण्डव ते विचेष्टा ।
लोके श्रुता दृश्यते चापि पार्थ ।
महाश्रावं जीवित चाप्यनित्यं ।
संपश्य त्वं पाण्डव मा व्यनीनशः ॥ ५.२७.१ ॥
般度之子啊,你的行为在世上被闻知,也被看到是安住于法的。普利塔之子啊,生命如大河奔流,是无常的。般度之子啊,你要好好思量,不要毁灭。
5.27.2
नचेद्भागं कुरवोऽन्यत्र युद्धा-
त्प्रयच्छेरंस्तुभ्यमजातशत्रो।
भैक्षचर्यामन्धकवृष्णिराज्ये ।
श्रेयो मन्ये न तु युद्धेन राज्यम् ॥ ५.२७.२ ॥
无敌之子啊,如果俱卢族不以战争之外的方式给你应得之份,我认为在安陀迦与毗湿尼的国度乞食为生,胜过以战争夺取王国。
5.27.3
अल्पकालं जीवितं यन्मनुष्ये ।
महास्रावं नित्यदुःखं चलं च।
भूयश्च तद्यशसो नानुरूपं ।
तस्मात्पापं पाण्डव मा कृथास्त्वम् ॥ ५.२७.३ ॥
人的寿命极为短暂,如大河奔流,永远充满痛苦而不稳定,而且也不配得上名声。因此,般度之子啊,不要作恶。
5.27.4
कामा मनुष्यं प्रसजन्त एते ।
धर्मस्य ये विघ्नमूलं नरेन्द्र ।
पूर्वं नरस्तान्मतिमान्प्रणिघ्नन् ।
लोके प्रशंसां लभतेऽनवद्याम् ॥ ५.२७.४ ॥
人主啊,这些欲望依附于人,是障碍法的根源。智慧之人若先行将它们摧毁,便能在世间获得无可指摘的赞誉。
5.27.5
निबन्धनी ह्यर्थतृष्णेह पार्थ ।
तामिच्छतां बाध्यते धर्म एव।
धर्मं तु यः प्रणृणीते स बुद्धः ।
कामे गृध्नो हीयतेऽर्थानुरोधात् ॥ ५.२७.५ ॥
此处,对财富的渴望确是束缚,哦,普利塔之子。对于渴求它的人,法本身便受到阻碍。真正践行法者才是智者。贪恋欲望者因追逐财富而日渐衰减。
5.27.6
धर्मं कृत्वा कर्मणां तात मुख्यं ।
महाप्रतापः सवितेव भाति।
हीनो हि धर्मेण महीमपीमां ।
लब्ध्वा नरः सीदति पापबुद्धिः ॥ ५.२७.६ ॥
亲爱的,行持法这最为重要的行为,大威力者便如太阳般光耀。然而失去法、心怀恶念的人,即便得到这大地,也会沉沦。
5.27.7
वेदोऽधीतश्चरितं ब्रह्मचर्यं ।
यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् ।
परं स्थानं मन्यमानेन भूय ।
आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥ ५.२७.७ ॥
研习吠陀,修持梵行,以祭祀奉献,并布施婆罗门。以之为至上境界,人便多年舍弃欢乐。
5.27.8
सुखप्रिये सेवमानोऽतिवेलं ।
योगाभ्यासे यो न करोति कर्म।
वित्तक्षये हीनसुखोऽतिवेलं ।
दुःखं शेते कामवेगप्रणुन्नः ॥ ५.२७.८ ॥
好享乐、过度沉溺者,不在瑜伽修习中行动,财富失去时,失去喜乐,陷入极大的痛苦,被欲望的力量驱使而卧倒。
5.27.9
एवं पुनर्ब्रह्मचर्याऽप्रसक्तो ।
हित्वा धर्मं यः प्रकरोत्यधर्मम्।
अश्रद्दधत्परलोकाय मूढो ।
हित्वा देहं तप्यते प्रेत्य मन्दः ॥ ५.२७.९ ॥
同样,不执著于梵行,舍弃法而行非法,不信后世,愚痴而迟钝之人,舍弃身体后于死后受苦。
5.27.10
न कर्मणां विप्रणाशोऽस्त्यमुत्र ।
पुण्यानां वाऽप्यथवा पापकानाम् ।
पूर्वं कर्तुर्गच्छति पुण्यपापं ।
पश्चात्त्वेनमनुयात्येव कर्ता ॥ ५.२७.१० ॥
业行在来世不会消失,无论是善是恶。作者的功德与罪过先行;之后作者自己随之而去。
5.27.11
न्यायोपेतं ब्राह्मणेभ्योऽथ दत्तं ।
श्रद्धापूतं गन्धरसोपपन्नम् ।
अन्वाहार्येषूत्तमदक्षिणेषु ।
तथारूपं कर्म विख्यायते ते ॥ ५.२७.११ ॥
以正当方式获得、以信心净化、伴有香与味、在后续祭祀中以上等酬金奉献给婆罗门的布施——这样的行为被称颂为你的功业。
5.27.12
इह क्षेत्रे क्रियते पार्थ कार्यं ।
न वै किंचित्क्रियते प्रेत्य कार्यम् ।
कृतं त्वया पारलोक्यं च कर्म ।
पुण्यं महत्सद्भिरतिप्रशस्तम् ॥ ५.२७.१२ ॥
哦,普利塔之子,责任只在此田(此生)中履行;死后便无可作为。你已行了关乎来世的善业,是伟大的功德,为善人所极力称赞。
5.27.13
जहाति मृत्युं च जरां भयं च ।
न क्षुत्पिपासे मनसोऽप्रियाणि।
न कर्तव्यं विद्यते तत्र किंचि-
दन्यत्र वै चेन्द्रियप्रीणनाद्धि ॥ ५.२७.१३ ॥
他舍弃死亡、衰老与恐惧;饥渴以及心中不悦之事不再困扰他。那里除了满足感官之外,别无可为之事。
5.27.14
एवंरूपं कर्मफलं नरेन्द्र ।
मातापित्रोर्हृदयस्याप्रियेण।
त्यज क्रोधं पाण्डव हर्षजं च ।
लोकावुभौ मा प्रहासीश्चिराया ॥ ५.२७.१४ ॥
众王之主啊,行为的果报正是如此,令父母之心不悦。般度之子啊,舍弃由喜悦而生的愤怒;不要长久地舍弃两个世界。
5.27.15
अन्तं गत्वा कर्मणां या प्रशंसा ।
सत्यं दमं चार्जवमानृशंस्यम् ।
अश्वमेधं राजसूयं तथेष्ट्वा ।
पापस्यान्तं कर्मणो मा पुनर्गाः ॥ ५.२७.१५ ॥
达到诸业之终,因真实、克制、正直与仁慈而得的赞誉,并举行马祭与王祭之后,便能达到罪业的终点;不要再回到它那里。
5.27.16
तच्चेदेवं द्वेषरूपेण पार्थाः ।
करिष्यध्वं कर्म पापं चिराय।
निवसध्वं वर्षपूगान्वनेषु ।
दुःखं वासं पाण्डवा धर्म एव ॥ ५.२७.१६ ॥
般度的儿子们啊,若你们以仇恨之形如此长久地行恶,你们将在森林中痛苦地度过许多年;这才是法。
5.27.17
प्रव्रज्यया यातयित्वा पुरस्ता-
दात्माधीनं यद्बलं ते तदाऽसीत्।
नित्यं च वश्याः सचिवास्तवेमे ।
जनार्दनो युयुधाश्च वीरः ॥ ५.२७.१७ ॥
此前经流放使其受苦之后,那时处于你自身掌控之下的力量曾是你的;而你的这些谋臣始终服从于你——还有克利须那(Janārdana)与英雄优优驮那(Yuyudhāna)。
5.27.18
मत्स्यो राजा रुक्मरथः सपुत्रः ।
प्रहारिभिः सहपुत्रैर्विराटः।
राजानस्ते ये विजिताः पुरस्ता-
त्त्वामेव ते संश्रयेयुः समस्ताः ॥ ५.२७.१८ ॥
摩特斯亚王鲁克玛罗陀携其子,毗罗吒携其子及战士;那些先前被你征服的国王们,他们全都会来投靠你。
5.27.19
महासहायः प्रतपन्बलस्थः ।
पुरस्कृतो वासुदेवार्जुनाभ्याम्।
वरान्हनिष्यन्द्विषतो रङ्गमध्ये ।
व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ॥ ५.२७.१९ ॥
你有众多盟友,光芒四射,立于力量之中,有婆苏提婆与阿周那在前,你将在战场中央杀死敌人中的勇士,粉碎持国之子的傲慢。
5.27.20
बलं कस्माद्वर्धयित्वा परस्य ।
निजान्कस्मात्कर्शयित्वा सहायान्।
निरुष्य कस्माद्वर्षपूगान्वनेषु ।
युयुत्ससे पाण्डव हीनकाले ॥ ५.२७.२० ॥
般度之子啊,你既增强了敌人的力量,削弱了自己的盟友,又在森林中度过了多年,为何要在不利的时机想要作战?
5.27.21
अप्राज्ञो वा पाण्डव युद्ध्यमानो-
ऽधर्मज्ञो वा भूतिमथोऽभ्युपैति।
प्रज्ञावान्वा बुद्ध्यमानोऽपि धर्मं ।
संस्तम्भाद्वा सोऽपि भूतेरपैति ॥ ५.२७.२१ ॥
般度之子啊,无智而作战之人,或不知法之人,会获得兴盛;而有智慧、明了法义却因固执而行之人,也会从兴盛中堕落。
5.27.22
नाधर्मे ते धीयते पार्थ बुद्धि-
र्न संरम्भात्कर्म चकर्थ पापम् ।
आत्थ किं तत्कारणं यस्य हेतोः ।
प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥ ५.२७.२२ ॥
般若之子啊,你的心智并不倾向于不义,你也未曾因愤怒而作恶。你说:究竟因何缘故,你想做这违背智慧的事?
5.27.23
अव्याधिजं कटुकं शीर्षरोगि ।
यशोमुषं पापफलोदयं वा।
सतां पेयं यन्न पिबन्त्यसन्तो ।
मन्युं महाराज पिब प्रशाम्य ॥ ५.२७.२३ ॥
大王啊,此怒非由疾病而生;它苦涩,令人头痛,夺人声誉,引发罪恶之果。善人应当饮用,恶人不饮。因此,请平息下来,饮下这份愤怒吧。
5.27.24
पापानुबन्धं को नु तं कामयेत ।
क्षमैव ते ज्यायसी नोत भोगाः ।
यत्र भीष्मः शान्तनवो हतः स्या-
द्यत्र द्रोणः सहपुत्रो हतः स्यात् ॥ ५.२७.२४ ॥
谁会渴望那与罪业相连的享乐?对你而言,唯有忍耐才更好,而非享受。若在那里,શાંતનુ之子毗湿摩被杀,若在那里,德罗纳与其子一同被杀,谁会希望这样的享乐?
5.27.25
कृपः शल्यः सौमदत्तिर्विकर्णो ।
विविंशतिः कर्णदुर्योधनौ च।
एतान्हत्वा कीदृशं तत्सुखं स्या-
द्यद्विन्देथास्तदनुब्रूहि पार्थ ॥ ५.२७.२५ ॥
杀死克利巴、沙利亚、苏摩达多之子、毗伽尔纳、毗filter、迦尔纳和难敌之后,你将获得怎样的快乐?请告诉我,普利塔之子。
5.27.26
लब्ध्वाऽपीमां पृथिवीं सागरान्तां ।
जरामृत्यू नैव हि त्वं प्रजह्याः।
प्रियाप्रिये सुखदुःखे च राज-
न्नैवं विद्वान्नैव युद्धं कुरु त्वम् ॥ ५.२७.२६ ॥
即使得到这片直达大海的大地,你也无法摆脱衰老与死亡。大王啊,你也不能舍弃可意与不可意、乐与苦。明知如此,你不应当发动战争。
5.27.27
अमात्यानां यदि कामस्य हेतो-
रेवं युक्तं कर्म चिकीर्षसि त्वम्।
अपक्रमेः स्वं प्रदायैव तेषां ।
मागास्त्वं वै देवयानात्पथोऽद्य ॥ ५.२७.२७ ॥
若你为了大臣们的欲望而想做这样合宜的事,那就把自己的份额交给他们并退让吧;今天你不要偏离神道。