摩诃婆罗多 · 章 5.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.46.1
यत्तच्छुक्रं महञ्ज्योतिर्दीप्यमानं महद्यशः ।
तद्वै देवा उपासते तस्मात्सूर्यो विराजते।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.१ ॥
那清净、伟大的光明、光辉灿烂、大有荣耀者,诸神礼拜之,因此太阳才放光。瑜伽行者观见那永恒的世尊。
5.46.2
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते ।
तच्छुकं ज्योतिषां मध्येऽतप्तं तपति तापनम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.२ ॥
梵从清净而生,梵因清净而增长。那清净者自身不被烧灼,却在诸光之中放出炽热。瑜伽行者观见那永恒的世尊。
5.46.3
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.३ ॥
瑜伽行者观见那永恒的世尊。
5.46.4
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.४ ॥
瑜伽行者观见那永恒的世尊。
5.46.5
चक्रे रथस्य तिष्ठन्तोऽध्रुवस्याव्ययकर्मणः ।
केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.५ ॥
站在那不动而行为不灭者的车轮上,有旗幡的骏马承载着天上那神圣不老的存在。瑜伽行者观见那永恒的世尊。
5.46.6
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.६ ॥
瑜伽行者观见那永恒的世尊。
5.46.7
द्वादशपूगां सरितं पिबन्तो देवरक्षिताम् ।
मध्वीक्षन्तश्च ते तस्याः संचरन्तीह घोराम् ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.७ ॥
饮用那条由诸神守护、有十二支流的河水,凝视其甘甜之水,在此惊怖地往来的瑜伽行者,得见那永恒的世尊。
5.46.8
तदर्धमासं पिबति संचितं भ्रमरो मधु ।
ईशानः सर्वभूतेषु हविर्भूतमकल्पयत्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.८ ॥
蜜蜂饮用积聚了半个月的蜂蜜;自在主将它安排为一切众生中的祭品。瑜伽行者得见那永恒的世尊。
5.46.9
हिरण्यपर्णमश्वत्थमभिपद्य ह्यपक्षकाः ।
ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.९ ॥
到达那棵金叶的无花果树后,没有翅膀的人在那里变成鸟,向任意方向飞去。瑜伽行者得见那永恒的世尊。
5.46.10
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे ।
हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.१० ॥
从圆满中取出圆满,从圆满中造出圆满,从圆满中拿走圆满;然而只剩下圆满。瑜伽行者得见那永恒的世尊。
5.46.11
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा ।
तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥ ५.४६.११ ॥
风从那里而来,他始终在其中受约束;火与苏摩也从那里而来,生命之气在其中展开。
5.46.12
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.१२ ॥
此后应当知晓一切;我们无法一一言说。瑜伽者得见那永恒的世尊。
5.46.13
अपानं गिरपि प्राणः प्राणं गिरति चन्द्रमाः ।
आदित्यो गिरते चन्द्रमादित्यं गिरते परः ।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.१३ ॥
下行气吞没上行气,上行气吞没下行气;月亮吞没气息,太阳吞没月亮,至上者吞没太阳。瑜伽者得见那永恒的世尊。
5.46.14
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् ।
तं चेत्सन्ततमूर्ध्वाय न मृत्युर्नामृतं भवेत्।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.१४ ॥
天鹅从水中飞起时不抬起一只脚;若它持续将那只脚向上举起,便既无死亡,也无不死。瑜伽者得见那永恒的世尊。
5.46.15
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.१५ ॥
瑜伽者得见那永恒的世尊。
5.46.16
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.१६ ॥
瑜伽者得见那永恒的世尊。
5.46.17
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.१७ ॥
瑜伽者得见那永恒的世尊。
5.46.18
एवंरूपो महात्मा स पावकं पुरुषो गिरन् ।
यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.१८ ॥
这位具有如此形貌的大士,是吞噬火焰的补卢沙。知晓此补卢沙者,其在此间的目标不会失落。瑜伽行者得见那永恒的世尊。
5.46.19
यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत् ।
मध्यमे मध्य आगच्छेदपिचेत्स्यान्मनोजवः।
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.१९ ॥
若有人展开千千万万对翅膀飞翔,抵达中央之中央,即便其速如意念——瑜伽行者得见那永恒的世尊。
5.46.20
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.२० ॥
瑜伽行者得见那永恒的世尊。
5.46.21
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.२१ ॥
瑜伽行者得见那永恒的世尊。
5.46.22
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.२२ ॥
瑜伽行者得见那永恒的世尊。
5.46.23
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.२३ ॥
瑜伽行者得见那永恒的世尊。
5.46.24
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ ५.४६.२४ ॥
瑜伽行者看见那永恒的世尊。
5.46.25
एवं यः सर्वभूतेषु आत्मानमनुपश्यति ।
अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् । ॥ ५.४६.२५ ॥
若人如此于一切众生中见自我,于各种行中勤勉者亦然,此后他何须忧愁?
5.46.26
यथोदपाने महति सर्वतः संप्लुतोदके ।
एवं सर्वेषु वेदेषु आत्मानमनुजानतः ॥ ५.४६.२६ ॥
如同大井四面皆充满水,对于在一切吠陀中认识自我者,亦是如此。
5.46.27
अङ्गुष्ठमात्रः पुरुषो महात्मा ।
न दृश्यतेऽसौ हृदि संनिविष्टः ।
अजश्चरो दिवारात्रमतन्द्रितश्च ।
स तं मत्वा कविरास्ते प्रसन्नः ॥ ५.४६.२७ ॥
那大我,大小如拇指的人,虽居于心中,却不可见。他不生,日夜不倦地运行。知之者,智者便安然喜悦。
5.46.28
अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः ।
आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥ ५.४६.२८ ॥
唯有我被称为母亲与父亲;我又是儿子。我也是一切的自我,无论有还是无。
5.46.29
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत ।
ममैव यूयमात्मस्था न मे यूयं न वो ह्यहम् ॥ ५.४६.२९ ॥
我是祖父、长者、父亲,也是儿子,婆罗多啊。你们都安住于我之中的自我;你们并不属于我,我也不属于你们。
5.46.30
आत्मैव स्थानं मम जन्म चात्मा ।
ओतप्रोतोऽहमजरप्रतिष्ठः।
अजश्चरो दिवारात्रमतन्द्रितोऽहं ।
मां विज्ञाय कविरास्ते प्रसन्नः ॥ ५.४६.३० ॥
自我是我的居所,自我是我的诞生。我贯穿其中,立于不朽的根基。我无生而运行,日夜不知疲倦。认识我的智者,便安然喜悦地存在。
5.46.31
अणोरणीयान्सुमनाः सर्वभूतेषु जाग्रति ।
पितरं सर्वभूतेषु पुष्करे निहितं विदुः ॥ ५.४६.३१ ॥
比最细的微尘更微细,慈和地在一切众生中常醒。安住于一切众生心中莲花里的父,智者知之。