摩诃婆罗多 · 章 5.47
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.47.1
एवं सनत्सुजातेन विदुरेण च धीमता ।
सार्धं कथयतो राज्ञः सा व्यतीयय सर्वरी ॥ ५.४७.१ ॥
如此,国王与智慧的萨纳特苏加塔及毗undefined(维杜拉)交谈之间,那一夜过去了。
5.47.2
तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते ।
सभामाविविशुर्हृष्टाःक सूतस्योपदिदृक्षया ॥ ५.४७.२ ॥
那夜天亮之后,众王心怀喜悦,想要见到御者(桑闍耶),纷纷进入议会大殿。
5.47.3
शुश्रूषमाणाः पार्थानां वाचो धर्मार्थसंहिताः ।
धृतराष्ट्रमुखाः सर्वे ययू राजन्सभां शुभाम् ॥ ५.४७.३ ॥
大王啊,众人渴望聆听般度子孙充满法与利的言辞,以持国王为首,都前往那座美好的议会大殿。
5.47.4
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् ।
चन्द्रप्रभां सुरुचिरां सिक्तां चिन्दनवारिणा ॥ ५.४७.४ ॥
洁白如甘露,宽广,装饰着金色的庭院,有如月光般的光辉,极其美丽,并洒有檀香水。
5.47.5
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि ।
अश्मसारमयैर्दान्तैःक स्वास्तीर्णैः सोत्तरच्छदैः ॥ ५.४७.५ ॥
铺设着精美的座位,有金制的、木制的、铁木制的和象牙制的,并覆盖着上好的垫子与罩布。
5.47.6
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः ।
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः । ॥ ५.४७.६ ॥
毗湿摩、德罗纳、克利巴、沙利耶、克里达瓦尔曼、胜车、马嘶、毗迦尔纳、苏摩达多和跋利迦。
5.47.7
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः ।
सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ।
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ॥ ५.४७.७ ॥
大智的毗undefined 字 —
5.47.8
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः ।
दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ॥ ५.४७.८ ॥
难敌之弟难降、奇军,以及苏跋罗之子沙恭尼,还有难面、难忍、迦尔纳、乌卢迦,然后是毗温沙提。
5.47.9
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम् ।
विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ॥ ५.४७.९ ॥
大王啊,他们以俱卢王难敌——那个难以平息怒火的人——为前导,走进那座会堂,如同诸天进入因陀罗的殿堂。
5.47.10
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः ।
शुशुभे सा सभा रजन्सिंहैरिव गिरेर्गुहा ॥ ५.४७.१० ॥
大王啊,那些臂如铁杵的勇士进入时,那座会堂便如山洞中有狮子一般光彩照人。
5.47.11
ते प्रविश्य महेष्वासाः सभां सर्वे महौजसः ।
आसनानि विचित्राणि भेजिरे सूर्यवर्चसः ॥ ५.४७.११ ॥
他们全都是大弓箭手、大力士,光耀如太阳,进入那座会堂后,各自坐上奇妙的座位。
5.47.12
आसनस्थेषु सर्वेषु तेषु राजसु भारत ।
द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ॥ ५.४७.१२ ॥
婆罗多的后裔啊,当那些国王都坐定之时,守门人前来通报:御者之子已经到达。
5.47.13
अयं सरथ आयाति योऽयासीत्पाण्डवान्प्रति ।
दूतो नस्तूर्णमायाति सैन्धवैः साधुवाहिभिः ॥ ५.४७.१३ ॥
那位去见般度子弟的人乘车而来;我们的使者以信度的良马飞快地赶来。
5.47.14
…पेयाय स तु क्षिप्रं रथात्प्रस्कन्द्य कुण्डली ।
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ॥ ५.४७.१४ ॥
……那位戴耳环者急忙从车上跃下,走进坐满高尚君王的大殿。
5.47.15
प्राप्तोऽस्मि पाण्डवान्गत्वा तं विजानीत कौरवाः ।
यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ॥ ५.४७.१५ ॥
我已去见般度子弟并返回。考罗婆们,请知道:般度子弟依年长次序,回礼问候所有的俱卢人。
5.47.16
अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत् ।
पुनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः ॥ ५.४७.१६ ॥
般度子弟向长者行礼,对同辈如同辈相待。随后,贡蒂之子依年长次序致敬,与众人交谈。
5.47.17
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः ।
अब्रवं पाण्डवान्गत्वा नात्र किञ्चन हापितम् ॥ ५.४७.१७ ॥
正如持国王先前所嘱咐的那样,我从此地前往,向般度子弟转达,未曾遗漏任何一句。
5.47.18
पृच्छामि त्वां सञ्जय राजमध्ये ।
यदब्रवीद्वाक्यमदीनसत्वः।
जनार्दनस्तात युधां प्रणेता ।
दुरात्मनां जीवितच्छिन्महात्मा ॥ ५.४७.१८ ॥
桑闍耶,我在众王面前问你:无畏之心的遮那陀那说了什么话?亲爱的,那位统领战士、夺取恶人性命的大德之人究竟说了什么?
5.47.19
आगुल्फेभ्योऽभिसंवीतः प्रयतोऽहं कृताञ्जलिः ।
शुद्धान्तं प्राविशं राजन्नाख्यातो नरसिंहयोः ॥ ५.४७.१९ ॥
大王啊,我裹着长衣至脚踝,心意专一,双手合十,在二位人中狮子的通报下进入了内宫。
5.47.20
न चाभिमन्युर्न यमौ तं देशमभिजग्मतुः ।
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ॥ ५.४७.२० ॥
阿毗曼尤和双生子都未曾前往那个地方,那里有两位黑天、黑天女和光彩照人的萨提亚婆摩。
5.47.21
उभौ मध्वासवक्षीबौ वरचन्दनरूषितौ ।
स्त्रग्विणौ वरवस्त्राङ्गौ वराभरणभूषितौ ॥ ५.४७.२१ ॥
二人皆沉醉于蜜酒与酒中,涂抹上好的檀香,佩戴花环,身着华服,饰以精美的装饰。
5.47.22
नैकरत्नविचित्रं च काञ्चनं च वरासनम् ।
नानास्तरणसंस्तीर्णं यत्रासाते नरर्षभौ ॥ ५.४७.२२ ॥
在镶嵌众多宝石、铺满各色锦褥的金制上好座位上,那两位人中雄牛正坐在那里。
5.47.23
सत्याङ्कमुपधानं तु कृत्वा शेते जनार्दनः ।
अर्जुनाङ्कगतौ पादौ केशवस्योपलक्षये।
अर्जुनस्य च कृष्णायाः शुभायाश्चाङ्कगावुभौ ॥ ५.४७.२३ ॥
以萨提亚的膝为枕,遮那陀那躺卧。我看见克舍婆的双足在阿周那的膝上,两足分别在阿周那和吉祥的克利史那的膝上。
5.47.24
काञ्चनं पादपीठं तु पार्थो वै प्रादिशन्मुदा ।
दासीभ्यामाहृतं मह्यं स्पृष्ट्वा भूमावुपाविशम् ॥ ५.४७.२४ ॥
阿周那欣然献上金制脚凳,由两位侍女为我取来,我以它触地,然后坐下。
5.47.25
ऊर्ध्वरेखाङ्कितौ पादौ पार्थस्य शुभलक्षणौ ।
पादपीठादपहृतौ धारयेतां वरस्त्रियौ ॥ ५.४७.२५ ॥
普利塔之子的吉相足,刻有向上纹路,被两位上等女子从脚凳上抬起扶持。
5.47.26
न नूनं कल्मषं किञ्चिन्मम कर्मसु विद्यते ।
स्त्रीरत्नाभ्यां समेतौ यन्मिथो मामभ्यभाषताम् ॥ ५.४७.२६ ॥
我的行为中确实没有任何过失,因为那两位女子中的珍宝一同与我说话。
5.47.27
विस्मयो मे महानासीदास्त्रं मे बहुसङ्गतम् ।
हृष्टानि चैव रोमाणि दृष्ट्वा तौ सहितावुभौ ॥ ५.४७.२७ ॥
我深感惊讶,关于兵器的思绪也纷乱起来;见到他们二人同在,我的汗毛都竖了起来。
5.47.28
श्यामौ बृहन्तौ तरुणौ नागाविव समुच्छ्रितौ ।
एकशय्यागतौ दृष्ट्वा भयं मे महदाविशत् ॥ ५.४७.२८ ॥
二人肤色黝黑、身材高大、正值青春,如同两头昂首的象;见他们同来一床,我心中大为恐惧。
5.47.29
ततोऽभ्यचिन्तयं तत्र दृष्ट्वा तौ पुरुषर्षभौ ।
सङ्कल्पो धर्मराजस्य नानवाप्योऽस्ति कश्चन।
निदेशगाविमौ यस्य नरनारायणावुभौ ॥ ५.४७.२९ ॥
于是我看到那里的两位人中雄牛,心中思忖:法王的任何志愿都不是不可达成的,因为这二位,那罗与那罗延,都听从他的命令。
5.47.30
सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः ।
अञ्जलिं मूर्ध्नि सन्धाय सन्देशं चाभ्यचोदयम् ॥ ५.४७.३० ॥
我受到饮食的款待,得到恭敬的礼遇,双手合掌置于头上,然后传达了使者之言。
5.47.31
धनुर्धरोचितेनाथ पाणिनैकं सलक्षणम् ।
पादमानाययत्पार्थः केशवस्य यशस्विनः ॥ ५.४७.३१ ॥
于是弓箭手般若(阿周那)以合适的手,将荣耀的克什ava(黑天)一只带有吉祥相的脚拉近。
5.47.32
इन्द्रकेतुरिवोत्थाय दिव्याभरणभूषितः ।
इन्द्रवीर्योपमः कृष्णः संविष्टो माऽभ्यभाषत ॥ ५.४७.३२ ॥
黑天如因陀罗之幢般起身,以天界饰物庄严,力量与因陀罗相等,他原本端坐,对我说道。
5.47.33
स वाचं वदतां श्रेष्ठ आददे वचनक्षमाम् ।
दीपनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् ॥ ५.४७.३३ ॥
最善言者发出了可以出口的言辞,它激怒了持国之子们,开始温和却极其严厉。
5.47.34
बहिश्चरस्य प्राणस्य प्रियस्य प्रियकारिणः ।
मतिमान्मतिमास्थाय केशवः सन्दधे वचः ॥ ५.४७.३४ ॥
为了那在外游走的生命之气,为了亲爱者,为了行善者,智慧的克什ava依靠智慧,组织了言辞。
5.47.35
वचनं वचनज्ञस्य शिक्षाक्षरसमन्वितम् ।
मनःप्रह्लादनं श्रेष्ठं पश्चाद्धृदयतापनम् ॥ ५.४७.३५ ॥
通晓言辞者的这番话,充满教诲之字,令心喜悦,极为殊胜,但事后却灼烧心肠。
5.47.36
सञ्जयैतद्वचो ब्रूयाः प्राप्य क्षत्रियसंसदम् ।
श्रृण्वतः कुरुवृद्धस्य आचार्यस्य च धीमतः ॥ ५.४७.३६ ॥
啊,桑若耶,到达刹帝利的集会时,你应当在库鲁长老与智慧的师尊聆听时说出这些话。
5.47.37
अर्थांस्त्यजत पार्थेषु सुखमाप्नुत कामजम् ।
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ॥ ५.४७.३७ ॥
舍弃财富,交给般度之子,你便能获得由欲望而生的快乐。为你所亲爱的人做他们所喜爱的事吧,因为国王急于求胜。
5.47.38
यजध्वं विविधैर्यज्ञैर्दक्षिणाश्च प्रयच्छत ।
पुत्रेर्दारैश्च मोदध्वमागतं वो महद्भयम् ॥ ५.४७.३८ ॥
举行种种祭祀,并布施祭礼之资。与你的儿子和妻子一同欢乐吧,因为巨大的危险已降临到你们身上。
5.47.39
ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ।
गोविन्देति यदाक्रन्दत्कृष्णा मां दूरवासिनम् ॥ ५.४७.३९ ॥
如同增长的债务不离我心,当黑公主在远方的我面前呼喊“戈文达”的哭声,也不离开我的心。
5.47.40
तेजोमयं दुराधर्पं बिभ्रता गाण्डिवं धनुः ।
मद्द्वितीयेन पार्थेन वैरं वः प्रत्युपस्थितम् ॥ ५.४७.४० ॥
你们的仇怨已与持着光耀而不可战胜的甘狄拔神弓的般遮,并以我为副的阿周那正面相对。
5.47.41
कृष्णस्यैतद्वचः श्रुत्वा महन्मे भयमाविशत् ।
तव पुत्रस्य लोभं च वर्धमानं प्रपश्यतः ॥ ५.४७.४१ ॥
听到黑天的这些话,我心中生起巨大的恐惧;看着你儿子的贪欲日益增长,这恐惧愈加深重。
5.47.42
सोमेन्द्रसदृशौ वीरौ तौ मन्दो नावबुध्यते ।
भीष्मद्रोणाश्रयाच्चैव कर्णस्य च विकत्थनात् ॥ ५.४७.४२ ॥
那两位英雄与苏摩、因陀罗相等,但愚昧之人(你的儿子)却未能察觉——他依靠毗湿摩与德罗纳,又因迦尔纳的自夸而自恃。