Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.48

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.48.1

पृच्छामि त्वां सञ्जय राजमध्ये ।
किमब्रवीद्वाक्यमदीनसत्वः।
धनञ्जयस्तात युधां प्रेणता ।
दुरात्मनां जीवितच्छिन्महात्मा ॥ ५.४८.१ ॥

桑闪耶啊,我问你:在众王之中,那无畏的达难阇耶(阿周那)说了什么话?亲爱的,那位在战斗中领先、断送恶人性命的大德者宣告了什么?

5.48.2

दुर्योधनो वाचमिमां श्रृणोतु ।
यदब्रवीदर्जुनो योत्स्यमानः।
युधिष्ठिरस्यानुमते महात्मा ।
धनञ्जयः श्रृण्वतः केशवस्य ॥ ५.४८.२ ॥

愿难敌听闻这番话:那准备战斗的阿周那,在坚战的同意下,当黑天在听时,那大德的达难阇耶所说的话。

5.48.3

अवित्रस्तो बाहुवीर्यं विजान-
न्नुपह्वरे वासुदेवस्य धीरः।
अवोचन्मां योत्स्यमानः किरीटी ।
मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ॥ ५.४८.३ ॥

在婆苏提婆面前,知晓自己臂力的无畏而坚定的紧那罗(阿周那)准备战斗,对我说:请在俱卢众中把这话告诉持国之子。

5.48.4

संश्रृण्वतस्तस्य दुर्भाषिणो वै ।
दुरात्मनः सूतपुत्रस्य सूत।
यो योद्धुमाशंसति मां सदैव ।
मन्दप्रज्ञः कालपक्वोऽतिमूढः ॥ ५.४८.४ ॥

当聆听那位出言恶毒、心怀邪恶的御者之子(迦尔纳)之言时——他总想与我交战——他智慧低下,已被时间催熟,极为愚昧。

5.48.5

ये वै राजानः पाण्डवायोधनाय ।
समानीताः श्रृण्वतां चापि तेषाम् ।
यथा समग्रं वचनं मयोक्तं ।
सहामात्यं श्रावयेथा नृपं तत ॥ ५.४८.५ ॥

请将为般度之子集结而来的诸王,在他们聆听之时,把我所说的全部话语告诉他们;也让那位国王与大臣们一同听到。

5.48.6

यथा नूनं देवराजस्य देवाः ।
शुश्रूषन्ते वज्रहस्तस्य सर्वे।
तथाऽश्रृण्वन्पाण्डवाः सृञ्जयाश्च ।
किरीटिना वाचमुक्तां समर्थाम् ॥ ५.४८.६ ॥

正如众神恭敬聆听手持金刚杵的天王,般度之子与斯林遮耶人也聆听了持冠者所说的恰当之言。

5.48.7

इत्यब्रवीदर्जुनो योत्स्यमानो ।
गाण्डीवधन्वा लोहितपद्मनेत्रः।
न चेद्राज्यं मुञ्चति धार्तराष्ट्रो ।
यधिष्ठिरस्याजमीढस्य राज्ञः ॥ ५.४८.७ ॥

好战的阿周那——手持甘提婆弓、眼如红莲——这样说道:若持国之子不放弃阿阇弥ढ后裔、国王坚战的王国。

5.48.8

अस्ति नूनं कर्म कृतं पुरस्ता-
दनिर्विष्टं पापकं धार्तराष्ट्रैः।
येषां युद्धं भीमसेनार्जुनाभ्यां ।
तथाश्विभ्यां वासुदेवेन चैव ॥ ५.४८.८ ॥

毫无疑问,持国之子先前犯下了一桩未曾赎罪的恶行,因此他们将与怖军、阿周那、双马童以及婆苏提婆交战。

5.48.9

शैनयेन ध्रुवमात्तायुधेन ।
धृष्टद्युम्नेनाथ शिखण्डिना च।
युधिष्ठिरेणेन्द्रकल्पेन चैव ।
योऽपध्यानान्निर्दहेद्गां दिवं च ॥ ५.४८.९ ॥

他们必定会被希尼之子(萨谛奇)、举起武器的德里湿陀衍那、湿伽难提,以及如因陀罗般的坚战所杀;坚战以其愤怒足以焚烧大地与天界。

5.48.10

तैश्चेद्योद्धुं मन्यते धार्तराष्ट्रो ।
निर्वृत्तोऽर्थः सकलः पाण्डवानाम्।
मा तत्कार्षीः पाण्डवस्यार्थहेतो-
रुपैहि युद्धं यदि मन्यसे त्वम् ॥ ५.४८.१० ॥

若持国之子想与他们交战,般度之子的全部目的已经达成。不要为了般度之子的利益去做那件事;如果你认为战争是对的,那就来应战吧。

5.48.11

यां तां वने दुःखशय्यामवात्सी-
त्प्रव्राजितः पाण्डवो धर्मचारी।
आप्नोतु तां दुःखतरामनर्था-
मन्त्यां शय्यां धार्तराष्ट्रः पराशुः ॥ ५.४८.११ ॥

愿持国之子得到那张比正法行者般度之子被放逐在森林中所躺的苦床更为痛苦的灾祸之最后床榻;愿他死去躺在那里。

5.48.12

ह्रिया ज्ञानेन तपसा दमेन ।
शौर्येणाथो धर्मगुप्त्या धनेन।
अन्यायवृत्तिः कुरु पाण्डवे या-
नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ॥ ५.४८.१२ ॥

无论以羞耻、智慧、苦行、克制、勇武、护持正法,还是以财富,那位对库鲁族般度之子行不义的恶念持国之子,都未曾遵从这些。

5.48.13

मायोपधं प्रतिधानार्जवाभ्यां ।
तपोदमाभ्यां धर्मगुप्त्या बलेन।
सत्यं ब्रुवन्प्रतिपन्नो नृपो न-
स्तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ॥ ५.४८.१३ ॥

这位说实话的国王,既不用诡计与报复,也不用正直、苦行、克制、护持正法或武力;他忍受着,极度地受苦。

5.48.14

यदा ज्येष्ठः पाण्डवः संशितात्मा ।
क्रोधं यत्तं वर्षपूगान्सुघोरम्।
अवस्त्रष्टा कुरुपूद्वृत्तचेता-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.१४ ॥

当心志坚定的长兄般度之子压抑多年的可怖愤怒爆发时,那位成熟睿智的俱卢之最、持国之子,将为那场战争而懊悔。

5.48.15

कृष्णवर्त्मेव ज्वलितः समिद्धो ।
यथा दहेत्कक्षमग्निर्निदाघे।
एवं दग्धा धार्तराष्ट्रस्य सेनां ।
युधिष्ठिरः क्रोधदीप्तोन्ववेक्ष्य ॥ ५.४८.१५ ॥

如同燃起的黑焰大火,在盛夏焚烧林丛,同样,怒火燃烧的坚战望见持国之子的军队,便将它焚毁。

5.48.16

यदा द्रष्टा भीमसेनं रथस्यं ।
गदाहस्तं क्रोधविषं वमन्तम्।
अमर्षणं पाण्डवं भीमवेगं ।
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.१६ ॥

当他看见站在战车上、手持权杖、吐出愤怒毒液、不肯宽恕、速度可怖的般度之子怖军时,持国之子将为那场战争而懊悔。

5.48.17

सेनागगं दंशितं भीमसेनं ।
सुलक्षणं वीरहणं परेषाम्।
घ्नन्तं चमूमन्तकसन्निकाशं ।
तदा स्मर्ता वचनस्यातिमानी ॥ ५.४८.१७ ॥

那时,他看见怖军走在军前,披甲,具有吉祥之相,是敌方英雄的杀手,如死神一般击杀军队,那极度骄傲的人便会想起自己的话语。

5.48.18

यदा द्रष्टा भीमसेनेन नागा-
न्निपातितान्गिरिकूटप्रकाशान्।
किम्भैरिवासृग्वमतो भिन्नकुम्भां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.१८ ॥

当怖军击倒那些如山峰般闪耀的象群,它们裂开的额头涌出如同可怕伤口般的鲜血时,那时持国之子将为那场战斗而懊悔。

5.48.19

महासिंहो गा इव संप्रविश्य ।
गदापाणिर्धार्तराष्ट्रानुपेत्य।
यदा भीमो भीमरूपो निहन्ता ।
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.१९ ॥

如大狮子闯入牛群,手持金刚杵、形貌可怖的怖军将走近持国之子们并杀戮他们,那时持国之子将为那场战斗而懊悔。

5.48.20

महाभये वीतभयः कृतास्त्रः ।
समागमे शत्रुबलावमर्दी।
सकृद्रथेनाप्रतिमान्रथौघा-
न्पदातिसङ्घान्गदयाभिनिघ्नन् ॥ ५.४८.२० ॥

在大恐怖中无所畏惧,精通武艺,摧毁敌军之力的他,在战斗中以一辆战车用金刚杵击杀那无与伦比的战车群和步兵的队伍。

5.48.21

सैन्याननेकांस्तरसा विगृह्ण-
न्यदा छेत्ता धार्तराष्ट्रस्य सैन्यम्।
छिन्दन्वनं परशुनेव शूर-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.२१ ॥

当英雄怖军猛烈攻击众多军队,像用斧头砍伐森林一样砍杀持国之子的军队时,那时持国之子将为那场战斗而懊悔。

5.48.22

तृणप्रायं ज्वलनेनेव दग्धं ।
ग्रामं यथा धार्तराष्ट्रान्समीक्ष्य।
पक्वं सस्यं वैद्युतेनेव दग्धं ।
परासिक्तं विपुलं स्वं बलौघम् ॥ ५.४८.२२ ॥

如同被火焚烧如草的村庄,见到持国之子;如同被闪电烧焦的成熟庄稼,自己庞大的军队洪流被冲散。

5.48.23

हतप्रवीरं विमुखं भयार्तं ।
पराङ्मुखं प्रायशोऽनष्टयोधम्।
शस्त्रार्चिषा भिमसेनेन दग्धं ।
तदा युद्धं धार्तराष्ट्रोऽन्वतप्त्सत् ॥ ५.४८.२३ ॥

英雄被杀,面露惧色,为恐惧所苦,背转而退;大多数战士未被毁灭的军队,被毗摩塞那以兵器之火焚烧。那时,持国之子因战斗而痛苦。

5.48.24

उपासङ्गानाचरेद्दक्षिणेन ।
वराङ्गानां नकुलश्चित्रयोधी।
यदा रथाग्र्यो रथिनः प्रचेता ।
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.२४ ॥

当那伟大的战士、神妙作战的那古罗,车兵中最杰出的御者,警觉地从右侧携带箭袋,朝着身躯出众的战士前进时,那时持国之子因战斗而痛苦。

5.48.25

सुखोचितो दुःखशय्यां वनेषु ।
दीर्घं कालं नकुलो यामशेत।
आशीविषः क्रुद्ध इवोद्वमन्विषं ।
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.२५ ॥

习惯于安乐的那古罗,在森林中长久地卧于苦难之床,如同愤怒的毒蛇喷吐毒液;那时,持国之子因战斗而痛苦。

5.48.26

त्यक्तात्मानः पार्थिवायोधनाय ।
समादिष्टा धर्मराजेन सूत।
रथैः शुभ्रैः सैन्यमभिद्रवन्तो ।
दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ॥ ५.४८.२६ ॥

舍弃性命者,受法王之命为诸王之战而来,以明亮的战车冲向军队——见此情景,御者啊,持国之子日后将懊悔不已。

5.48.27

शिशून्कृतास्त्रानशिशुप्रकाशान् ।
यदा द्रष्टा कौरवः पञ्च शूरान्।
त्यक्त्वा प्राणान्कौरवानाद्रवन्त-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.२७ ॥

当持国之子看到那五位精通武器、看似孩童却非孩童的勇士,舍弃性命冲向俱卢族时,持国之子便会为那场战争懊悔不已。

5.48.28

यथा शक्रो दानवनाशनार्थं ।
सुवर्णतारं रथमुत्तमाश्वैः।
दान्तैर्युक्तं सहदेवोऽधिरूढः ।
शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ॥ ५.४८.२८ ॥

如同因陀罗为消灭达那婆而登上缀满金星、由优良驯服之马所驾的战车,同样,偕天也登上此车,将以箭雨使诸王的头颅纷纷落下。

5.48.29

महाभये संप्रवृत्ते रथस्थं ।
विवर्तमानं समरे कृतास्त्रम्।
सर्वा दिशः सपतन्तं समीक्ष्य ।
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.२९ ॥

当大恐怖降临,人们看到他站在战车上,在战场上回旋,精通武器,扑向四面八方时,持国之子便会为那场战争懊悔不已。

5.48.30

ह्रीनिषेवो निपुणः सत्यवादी ।
महाबलः सर्वधर्मोपपन्नः।
गान्धारिमार्छंस्तुमुले क्षिप्रकारी ।
क्षेप्ता जनान्सहदेवस्तरस्वी ॥ ५.४८.३० ॥

萨诃提婆谦逊、熟练、诚实,力量强大,具备一切德行,在混战中冲向甘陀利之子;他行动迅速,勇猛急躁,将人们掷倒在地。

5.48.31

यदा द्रष्टा द्रौपदेयान्महेषून् ।
शूरान्कृतास्त्रान्रथयुद्धकोविदान्।
आशीविषान्घोरविषानिवायत-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.३१ ॥

当他看见德劳波蒂的诸子——伟大的射手、精通兵器与车战的勇士,如剧毒之蛇般前进——那时,持国之子便会为那场战斗而悲叹。

5.48.32

यदाभिमन्युः परवीरघाती ।
शरैः परान्मेघ इवाभिवर्षन्।
विगाहिता कृष्णसमः कृतास्त्र-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.३२ ॥

当摧毁敌方英雄的阿毗曼纽如乌云般向敌人倾泻箭雨,与克里希那相当、精通兵器地投入战斗时——那时,持国之子便会为那场战斗而悲叹。

5.48.33

यदा द्रष्टा बालमबालवीर्यं ।
द्विषच्चमूं मृत्युमिवोत्पतन्तम्।
सौभद्रमिन्द्रप्रतिमं कृतास्त्रं ।
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.३३ ॥

当他看见那位勇力不似孩童、如死神般扑向敌军的少年——苏跋陀罗之子,与因陀罗相当、精通兵器——那时,持国之子便会为那场战斗而悲叹。

5.48.34

प्रभद्रकाः शीघ्रतरा युवानो ।
विशारदाः सिंहसमानवीर्याः।
यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.३४ ॥

当迅捷、娴熟、勇如雄狮的年轻普罗跋陀罗人率军冲击持国之子时,持国之子将为那场战斗而懊悔。

5.48.35

वृद्धौ विराटद्रुपदौ महारथौ ।
पथक्कमूभ्यामभिवर्तमानौ।
यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.३५ ॥

当两位年迈的大战车武士毗罗吒与德鲁帕达分两路进军,望见持国之子及其军队时,持国之子将为那场战斗而懊悔。

5.48.36

यदा कृतास्त्रो द्रुपदः प्रचिन्वन् ।
शिरांसि यूनां समरे रथस्थः।
क्रूद्धः शरैश्छेत्स्यति चापमुक्तै-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.३६ ॥

当精通武艺的德鲁帕达站在战车上,在战场上收集年轻人的头颅,愤怒地用从弓上射出的箭将它们斩断时,持国之子将为那场战斗而懊悔。

5.48.37

यदा विराटः परवीरघाती ।
रथान्तरे शत्रुचमूं प्रवेष्टा।
मात्स्यैः सार्धमनृशंसरूपै-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.३७ ॥

当摧毁敌方英雄的毗罗吒与仪容高贵的摩差人一起,从战车之间进入敌军时,持国之子将为那场战斗而懊悔。

5.48.38

ज्येष्ठं मात्स्यमनृसंसार्यरूपं ।
विराटपुत्रं रथिनं पुरस्तात्।
यदा द्रष्टा दंशतिं पाण्डवार्थे ।
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.३८ ॥

当他看见毗罗吒之长子、外貌温和的摩差王子,为般度五子而身披甲胄立于战车前时,持国之子便会因那场战斗而痛苦。

5.48.39

रणे हते कौरवाणां प्रवीरे ।
शिखण्डिना शन्तनोर्वै तनूजे।
न जातु नः शत्रवो धारयेयु-
रशंशयं सत्यमेतद्ब्रवीति ॥ ५.४८.३९ ॥

当俱卢族的英雄、商睹之子在战场上被尸犍陀所杀时,我们的敌人绝不可能坚守——他说,这是真实的,毫无疑问。

5.48.40

यदा शिखण्डी रथिनः प्रचिन्वन् ।
भीष्मं रथेनाभियाता वरूथी।
दिव्यैर्हयैरवमृद्गन् रथौघां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.४० ॥

当尸犍陀寻找车兵,身披甲胄驾车冲向毗湿摩,以神马践踏车阵之时,持国之子便会因那场战斗而痛苦。

5.48.41

यदा द्रष्टा सृञ्जयानामनीके ।
धृष्टद्नुम्नं प्रमुखे रोचमानम्।
अस्त्रं यस्मै गुह्यमुवाच धीमा-
न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ॥ ५.४८.४१ ॥

当他看见在srñjaya军队前列闪耀的德里斯塔敦牟——智者德罗纳曾传授他秘密神兵之时——持国之子便会痛苦。

5.48.42

यदा स सेनापतिरप्रमेयः ।
परामृद्गन्निषुभिर्धार्तराष्ट्रान्।
द्रोणं रणे शत्रुसहोभियाता ।
तदा युद्धं धार्ताराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.४२ ॥

当那位不可估量的统帅以箭摧毁持国之子,在战场上攻击击败敌人的德罗纳时,持国之子将因那场战斗而痛苦懊悔。

5.48.43

ह्रीमान्मनीपी बलवान्मनस्वी ।
स लक्ष्मीवान्सोमकानां प्रबर्हः ।
न जातु तं शत्रवोऽन्ये सहेर-
न्योपां स स्यादग्रणीर्वृष्णिसिंहः ॥ ५.४८.४३ ॥

他知耻、明智、强大、心志高远;他是索摩迦人的光荣与最好的装饰。敌人永远无法抵挡他,在其他人之中他将居首,是毗瑟尼族的雄狮。

5.48.44

इदं च ब्रूया मा वृणीष्वेति लोके ।
युद्धेऽद्वितीयं सचिवं रथस्थम्।
शिनेर्नप्तारं प्रवृणीम सात्यकिं ।
महाबलं वीतभयं कृतास्त्रम् ॥ ५.४८.४४ ॥

世间应当这样说:“不要选择。”我们选择萨提亚基为辅佐,他是希尼之孙,战场上无与伦比,立于战车之上,大力无畏,精通兵器。

5.48.45

महोरस्को दीर्घबाहुः प्रमाथी ।
युद्धेऽद्वितीयः परमास्त्रवेदी।
शिनेर्नप्ता तालमात्रायधोऽयं ।
महारथो वीतभयः कृतास्त्रः ॥ ५.४८.४५ ॥

胸膛宽阔、双臂修长,能摧毁敌人,战场上无与伦比,精通至上神兵,希尼之孙,其武器长如棕榈树。这位大战车武士无所畏惧,精通兵器。

5.48.46

यदा शिनीनामधिपो मयोक्तः ।
शरैः परान्मेघ इव प्रवर्षन्।
प्रच्छादयिष्यत्यरिहा योधमुख्यां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.४६ ॥

当我所说的失尼之主如云般降下箭雨,遮蔽敌人时,这位杀敌者将遮蔽诸位主要武士;那时持国之子将为那场战争而懊悔。

5.48.47

यदा धृतिं कुरुते योत्स्यमानः ।
स दीर्घबाहुर्दृढधन्वा महात्मा ।
सिंहस्येव गन्धमाघ्राय गावः ।
संचेष्टन्ते शत्रवोऽस्माद्रणाग्रे ॥ ५.४८.४७ ॥

当那位长臂、强弓、大德的战士准备作战而下定决心时,战阵前沿的敌人因他而骚动,正如牛群嗅到狮子的气味而惊慌。

5.48.48

स दीर्घबाहुर्दृढधन्वा महात्मा ।
भिन्द्याद्गिरीन्संहरेत्सर्वलोकान्।
अस्त्रे कृती निपुणः क्षिप्रहस्तो ।
दिवि स्थितः सूर्य इवाभिभाति ॥ ५.४८.४८ ॥

这位长臂、强弓、大德的战士能劈开群山,毁灭一切世界;他精通兵器,熟练敏捷,手法迅疾,如天空中的太阳般光耀。

5.48.49

चित्रः सूक्ष्मः सुकृतो यादवस्य ।
अस्त्रे योगो वृष्णिसिंहस्य भूयान्।
यथाविधं योगमाहुः प्रशस्तं ।
सर्वैर्गुणैः सात्यकिस्तैरुपेतः ॥ ५.४८.४९ ॥

这位耶达瓦的兵器之技奇妙、精微而完善;瓦尔希尼之狮的兵器之技极为深厚。据规则所称最为殊胜的那种技艺,萨提亚基具备其中的一切德性。

5.48.50

हिरण्मयं श्वेतहयैश्चतुर्भि-
र्यदा युक्तं स्यन्दनं माधवस्य।
द्रष्टा युद्धे सात्यकेर्धार्तराष्ट्र-
स्तदा तप्स्यत्यकृतात्मा स मन्दः ॥ ५.४८.५० ॥

当他在战场上看见由四匹白马驾驭、与萨蒂亚基同在的摩陀婆金色战车时,那个心不受控、愚蒙的持国之子便会因悲痛而焚烧。

5.48.51

यदा रथं हेममणिप्रकाशं ।
श्वेताश्वयुक्तं वानरकेतुमुग्रम्।
दृष्ट्वा ममाप्यास्थितं केशवेन ।
तदा तप्स्यत्यकृतात्मा स मन्दः ॥ ५.४८.५१ ॥

当他看见那辆光彩如金与宝石、由白马驾驭、饰有猴旗、我与凯沙同乘的猛烈战车时,那个心不受控、愚蒙的持国之子便会因悲痛而焚烧。

5.48.52

यदा मौर्व्यास्तलनिष्पेपमुग्रं ।
महाशब्दं वज्रनिष्पेपतुल्यम्।
विद्यूयमानस्य महारणे मया ।
स गाण्डिवस्य श्रोष्यति मन्दबुद्धिः ॥ ५.४८.५२ ॥

当我在大战中如闪电般驰骋时,那个愚钝的人将听见那猛烈的巨响——弓弦的铮鸣与手掌的拍击,如同霹雳炸裂之声,那便是甘狄拔弓的声音。

5.48.53

तदा मूढो धृतराष्ट्रस्य पुत्र-
स्तप्ता युद्धे दुर्मतिर्दुःसहायः।
दृष्ट्वा सैन्यं बाणवर्षान्धकारे ।
प्रभज्यन्तं गोकुलवद्रणाग्रे ॥ ५.४८.५३ ॥

那时,持国之子那愚昧、心术不正、援助薄弱的人,将在战斗中被焚烧:他将看见自己的军队在阵前崩散,如同牧村的牛群,在箭雨的黑暗之中。

5.48.54

बलाहकादुच्चरतः सुभीमा-
न्विद्युत्स्फुलिङ्गानिव घोररूपान्।
सहस्रघ्नान्द्विषतां सङ्गरेषु ।
अस्थिच्छिदो मर्मभिदः सुपुङ्खान् ॥ ५.४८.५४ ॥

从云中升起的极其可怖之物,如同闪电的火花,形貌骇人,在战斗中杀死敌人千人,斩断骨骼,穿透要害,羽翼华美(箭矢)。

5.48.55

यदा द्रष्टा ज्यामुखाद्बाणसङ्घान् ।
गाण्डीवमुक्तानापततः शिताग्रान्।
हयान्गजान्वर्मिणश्चाददानां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.५५ ॥

当他看见从弓弦之口由甘狄拔射出、锋利尖锐、飞来攫取马匹、象群与披甲战士的箭群时,那时持国之子将为那场战争而悲伤。

5.48.56

यदा मन्दः परबाणान्विमुक्ता-
न्ममेषुभिर्हियमाणान्प्रतीपम्।
तिर्यग्विध्य च्छिद्यमानान्पृषत्कै-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.५६ ॥

当那愚昧之人看见敌人射出的箭被我的箭反向带走,横穿而过,并被斑点之箭斩断时,那时持国之子将为那场战争而悲伤。

5.48.57

यदा विपाठा मद्भुजविप्रमुक्ता ।
द्विजाः फलानीव महीरुहाग्रात्।
प्रचेतार उत्तमाङ्गानि यूनां ।
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.५७ ॥

当从我双臂射出的穿刺之箭,如同树梢落下的果实,击落年轻战士的头颅时,那时持国之子将为那场战争而悲伤。

5.48.58

यदा द्रष्टा पततः स्यन्दनेभ्यो ।
महागजेभ्योऽश्वगतान्सुयोधनान्।
शरैर्हतान्पातितांश्चैव रङ्गे ।
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.५८ ॥

当他看到苏约达那的战士从战车和大象上坠落,骑马者被箭射杀并倒在战场上时,那时持国之子将为那场战争而悲伤。

5.48.59

असंप्राप्तानस्त्रपथं परस्य ।
यदा द्रष्टा नश्यतो धार्तराष्ट्रान्।
अकुर्वतः कर्म युद्धे समन्ता-
त्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.५९ ॥

当见者看到持国的诸子未能进入敌人兵器的射程,在战场四面八方毫无作为而灭亡时,那时持国之子将为那场战争而悲伤。

5.48.60

पदातिसङ्घान्रथसङ्घान्समन्ता-
द्व्यात्ताननः काल इवाततेषुः।
प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः ।
शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ॥ ५.४८.६० ॥

我张开大口如死神,搭箭上弦,以燃烧的箭雨从四面八方驱赶步兵与车队;那时愚钝之人将为那些敌人而悲伤。

5.48.61

सर्वा दिशः संपतता रथेन ।
रजोध्वस्तं गाण्डिवेन प्रकृत्तम्।
यदा द्रष्टा स्वबलं संप्रमूढं ।
तदा पश्चात्तप्स्यति मन्दबुद्धिः ॥ ५.४८.६१ ॥

当见者看到自己的军队在四面八方疾驰的战车之中,被尘土覆盖,被甘狄拔弓所斩,完全陷入迷乱时,那时愚钝之人将在事后悔恨。

5.48.62

कान्दिग्भूतं छिन्नगात्रं विसंज्ञं ।
दुर्योधनो द्रक्ष्यति सर्वसैन्यम्।
हताश्ववीराग्र्यनरेन्द्रनागं ।
पिपासितं श्रान्तपत्रं भयार्तम् ॥ ५.४८.६२ ॥

难敌将看到全军:四散失措,肢体断裂,失去知觉,马匹、勇士中的精英、诸王与象群皆已被杀,口渴疲惫,充满恐惧。

5.48.63

आर्तस्वरं हन्यमानं हतं च ।
विकीर्णकेशास्थिकपालसङ्घम्।
प्रजापतेः कर्म यथार्थनिष्ठितं ।
तदा दृष्ट्वा तप्स्यति मन्दबुद्धिः ॥ ५.४८.६३ ॥

看见在哀号声中被杀戮的人与已死者,散乱的头发、骸骨与颅骨堆积如山,生主的业果然已经完成,那时这愚钝之人必将悔恨。

5.48.64

यदा रथे गाण्डिवं वासुदेवं ।
दिव्यं शङ्खं पाञ्चजन्यं हयांश्च।
तूणावक्षय्यौ देवदत्तं च मां च ।
दृष्ट्वा युद्धे धार्तराष्ट्रोऽन्वतप्स्यत् ॥ ५.४८.६४ ॥

当他在战场上看见车上的甘狄拔弓、婆薮提婆、神圣的般遮后妖螺、骏马、两个不竭的箭袋、提婆达多,以及我时,持国之子必将悔恨。

5.48.65

उद्वर्तयन्दस्युसङ्घान्समेतान् ।
प्रवर्तयन्युगमन्यद्युगान्ते।
यदा धक्ष्याम्यग्निवत्कौरवेयां-
स्तदा तप्ता धृतराष्ट्रः सपुत्रः ॥ ५.४८.६५ ॥

当我连根拔除聚集的盗贼之众,在此劫末开启另一个时代,如火焚烧俱卢族人时,持国与其诸子必将备受煎熬。

5.48.66

सभ्राता वै सहसैन्यः सभृत्यो ।
भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः।
दर्पस्यान्ते निहतो वेपमानः ।
पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ॥ ५.४८.६६ ॥

与他的兄弟、军队和仆从一起,失去权势,受怒气支配,心智狭隘,在骄傲的尽头被杀而颤抖,愚昧的德拉输陀罗之子之后将会悲痛。

5.48.67

पूर्वाह्णे मां कृतजप्यं कदाचि-
द्विप्रः प्रोवाचोदकान्ते मनोज्ञम्।
कर्तव्यं ते दुष्करं कर्म पार्थ ।
योद्धव्यं कते शत्रुभिः सव्यसाचिन् ॥ ५.४८.६७ ॥

有一次,我在上午诵经之后,水边的一位婆罗门对我说了动听的话:啊,普利塔之子,你必须完成艰难的事业;你必须与敌人作战,啊,萨维亚萨钦。

5.48.68

इन्द्रो वा ते हरिवान्वज्रहस्तः ।
पुरस्ताद्यातु समरेऽरीन्विनिघ्नन्।
सुग्रीवयुक्तेन रथेन वा ते ।
पश्चात्कृष्णो रक्षतु वासुदेवः ॥ ५.४८.६८ ॥

愿手持金刚杵、马群之主因陀罗在战斗中击杀敌人,走在你的前面;或者愿婆薮提婆之子黑天在以须羯哩婆驾驭的战车上,从后方保护你。

5.48.69

वज्रे चाहं वज्रहस्तान्महेन्द्रा-
दस्मिन्युद्धे वासुदेवं सहायम्।
स मे लब्धो दस्युवधाय कृष्णो ।
मन्ये चेतद्विहितं दैवतेर्मे ॥ ५.४८.६९ ॥

我从手持金刚杵的大因陀罗那里得到了金刚杵,在这场战斗中,婆薮提婆也成为我的助手。黑天被赐予我用来诛灭盗贼;我认为这是诸神为我所安排的。

5.48.70

अयुद्ध्यमानो मनसापि यस्य ।
जयं कृष्णः पुरुषस्याभिनन्देत्।
एवं सर्वान्स व्यतीयादमित्रान् ।
सेन्द्रान्देवान्मानुषे नास्ति चिन्ता ॥ ५.४८.७० ॥

若克里希纳仅在心中为某人的胜利而欢喜,即使不参战,此人便如此胜过一切敌人;人间不必为包括因陀罗在内的诸神担忧。

5.48.71

स बाहुभ्यां सागरमुत्तितीर्षे-
न्महोदधिं सलिलस्याप्रमेयम्।
तेजस्विनं कृष्णमत्यन्तशूरं ।
युद्धेन यो वासुदेवं जिगीषेत् ॥ ५.४८.७१ ॥

欲以双臂渡过无边水量的大海者,欲在战斗中战胜光辉而极其勇猛的婆苏提婆之子克里希纳者。

5.48.72

गिरिं य इच्छेत्तु तलेन भेत्तुं ।
शिलोच्चयं श्वेतमतिप्रमाणम्।
तस्यैव पाणिः सनखो विशीर्ये-
न्न चापि किञ्चित्स गिरेस्तु कुर्यात् ॥ ५.४८.७२ ॥

欲以手掌击碎一座山——那巨大洁白的岩石堆——他自己的手连同指甲都会被碾碎,而他对那山却毫无损伤。

5.48.73

अग्निं समिद्धं शमयेद्भुजाभ्यां ।
चन्द्रं च सूर्यं च निवारयेत।
हरेद्देवानाममृतं प्रसह्य ।
युद्धेन यो वासुदेवं जिगीषेत् ॥ ५.४८.७३ ॥

欲以双臂熄灭熊熊烈火,阻挡日月,强夺诸神甘露者;欲在战斗中战胜婆苏提婆之子克里希纳者。

5.48.74

यो रुक्मिणीमेकरथेन भोज-
नुत्साद्य राज्ञः समरे प्रसह्य।
उवाह भार्यां यशसा ज्वलन्तीं ।
यस्यां जज्ञे रौक्मिणेयो महात्मा ॥ ५.४८.७४ ॥

他以一车之力,在战斗中强行击败婆濮(博嘉)人与诸王,将以荣耀闪耀的卢克弥妮娶为妻子;从她生下了大德的卢克弥妮之子。

5.48.75

अयं गान्धारांस्तरसा संप्रमथ्य ।
जित्वा पुत्रान्नग्नजितः समग्रान्
बद्धं मुमोच विनदन्तं प्रसह्य ।
सुदर्शनं वै देवतानां ललामम् ॥ ५.४८.७५ ॥

他以力量摧破犍陀罗人,战胜了那伽耆多的所有儿子,并强行释放了怒吼的被缚者。这便是苏达尔沙那,诸神的饰物。

5.48.76

अयं कवाटे निजघान पाण्ड्यं ।
तथा कलिङ्गान्दन्तवक्रं ममर्द।
अनेन दग्धा वर्षपूगान्विनाथा ।
वाराणसी नगरी संबभूव ॥ ५.४८.७६ ॥

他在门前击杀了潘底亚王;同样,他也摧毁了羯陵伽人和檀底婆迦罗。被他焚毁的瓦拉纳西城,多年无人守护。

5.48.77

अयं स्म युद्धे मन्यतेऽन्यैरजेयं ।
तमेकलव्यं नाम निषादराजम्।
वेगेनैव शैलमभिहत्य जम्भः ।
शेते स कृष्णेन हतः परासुः ॥ ५.४८.७७ ॥

此人在战斗中被他人视为不可战胜;他名为一罗婆,是尼沙陀人之王。像以猛力撞击山岳的遮婆一样,他被黑天杀死,躺卧无气息。

5.48.78

तथोग्रसेनस्य सुतं सुदुष्टं ।
वृष्ण्यन्धकानां मध्यगतं सभास्थम्।
अपातयद्बलदेवद्वितीयो ।
हत्वा ददौ चोग्रसेनाय राज्यम् ॥ ५.४८.७८ ॥

同样,他与大力罗一同击倒了乌格拉塞那那极其邪恶的儿子,此人坐于月族与暗库人之间的议会中。杀死他之后,他将王国交还乌格拉塞那。

5.48.79

अयं सौभं योधयामास स्वस्थं ।
विभीषणं मायया साल्वराजम्।
सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं ।
दोर्भ्यां क एनं विषहेत मर्त्यः ॥ ५.४८.७९ ॥

此人与娑部城作战,对抗凭借幻术屹立的可怕的沙尔瓦王;在娑部城门前,他以双臂反接住了百杀投枪。哪个凡人能承受他?

5.48.80

प्राग्ज्योतिषं नाम बभूव दुर्गं ।
पुरं घोरमसुराणामसह्यम्।
महाबलो नरकस्तत्र भौमो ।
जहारादित्या मणिकुण्डले शुभे ॥ ५.४८.८० ॥

有一座名为普拉格乔提沙的城堡,是阿修罗可怕而不可攻破的城市。那里,大力的地之子那罗迦夺走了阿底提美丽的宝珠耳环。

5.48.81

न तं देवाः सह शक्रेण शेकुः ।
समागता युधि मृत्योरभीताः ।
दृष्ट्वा च तं विक्रमं केशवस्य ।
बलं तथैवास्त्रमवारणीयम् ॥ ५.४८.८१ ॥

即使是与因陀罗一同聚集、在战场上不惧死亡的诸神,也无法抵挡他。即便看到了吉舍婆的勇力、他的力量以及那无法抵御的神兵,他们也未能做到。

5.48.82

जानन्तोऽस्य प्रकृतिं केशवस्य ।
न्ययोजयन्दस्युवधाय कृष्णम्।
स तत्कर्म प्रतिशुश्राव दुष्कर-
मैश्वर्यवान्सिद्धिषु वासुदेवः ॥ ५.४८.८२ ॥

虽然深知吉舍婆的本性,他们仍委派黑天去诛杀那强盗。全能的婆苏提婆接受了这件即使在成就之中也极为艰难的事。

5.48.83

निर्मोचने षट्सहस्राणि हत्वा ।
संच्छिद्य पाशान्सहसा क्षुरान्तान्।
मुरं हत्वा विनिहत्यौघरक्षो ।
निर्मोचनं चापि जगाम वीरः ॥ ५.४८.८३ ॥

在尼摩乔那,他杀了六千人,以利如剃刀的箭刹那间斩断绳索,杀死了牟罗,歼灭了罗刹大军;随后这位英雄也前往尼摩乔那。

5.48.84

तत्रैव तेनास्य बभूव युद्धं ।
महाबलेनातिबलस्य विष्णोः ।
शेते स कृष्णेन हतः परासु-
र्वातेनेव मथितः कर्णिकारः ॥ ५.४८.८४ ॥

就在那里,他与那位力大无比的毗湿奴展开了战斗。他被黑天杀死,失去生命地倒在那里,像被风吹折的迦尔尼迦罗树。

5.48.85

आहृत्य कृष्णो मणिकुण्डले ते ।
हत्वा च भौमं नरकं मुर च।
श्रिया वृतो यशसा चैव विद्वा-
न्प्रत्याजगामाप्रतिमप्रभावः ॥ ५.४८.८५ ॥

克里希那取回了宝石耳环,杀死了地之子那罗迦和穆罗,归来时被光荣与名声所环绕,智慧而威力无比。

5.48.86

अस्मै वराण्यददंस्तत्र देवा ।
दृष्ट्वा भीमं कर्म कृतं रणे तत्।
श्रमश्च ते युध्यमानस्य न स्या-
दाकाशे चाप्सु च ते क्रमः स्यात् ॥ ५.४८.८६ ॥

诸神在那里赐予他恩惠,因为他们看见他在战场上所立的可怕功绩:愿你在战斗中不会疲倦,愿你能在天空与水中行动。

5.48.87

शस्त्राणि गात्रे न च ते क्रमेर-
न्नित्येव कृष्णश्च ततः कृतार्थः ।
एवं रूपे वासुदेवेऽप्रमेये ।
महाबले गुणसंपत्सदैव ॥ ५.४८.८७ ॥

于是克里希那便达成了目的:愿兵器永不伤你的身体。在这样形貌、不可测量、大力的婆苏提婆(克里希那)身上,诸般美德之富足始终存在。

5.48.88

तमसह्यं विष्णुमनन्तवीर्य-
माशंसते धार्तराष्ट्रो विजेतुम् ।
सदा ह्येनं तर्कयते दुरात्मा ।
तच्चाप्ययं सहतेऽस्मान्समीक्ष्य ॥ ५.४८.८८ ॥

持国的恶子妄想战胜那不可忍受、武勇无穷的毗湿奴;这心怀恶念的人始终把他算在内,而他看着我们,也忍耐着这一切。

5.48.89

पर्यागतं मम कृष्णस्य चैव ।
यो मन्यते कलहं संप्रसह्य।
शक्यं हर्तुं पाण्डवानां ममत्वं ।
तद्वेदिता संयुगं तत्र गत्वा ॥ ५.४८.८९ ॥

凡以为能忍受我与克里希那之间的争吵,便可夺走般度族之所有者,让他前往那场战斗,便会知晓。

5.48.90

नमस्कृत्वा शान्तनवाय राज्ञे ।
द्रोणायाथो सहपुत्राय चैव।
शारद्वतायाप्रतिद्वन्द्विने च ।
योत्स्याम्यहं राज्यमभीप्समानः ॥ ५.४८.९० ॥

向山塔努之子国王、德罗纳及其子、以及无与伦比的对手沙罗陀瓦塔致敬之后,我将为求王国而战。

5.48.91

धर्मेणाप्तं निधनं तस्य मन्ये ।
यो योत्स्यते पाण्डवैर्धर्मचारी ।
मिथ्या ग्लहे निर्जिता वै नृशंसैः ।
संवत्सरान्वै द्वादश राजपुत्राः ॥ ५.४८.९१ ॥

我认为,遵循法的人若与般度之子作战,将因法而死。残忍之人在掷骰子中虚伪地击败了王子们,长达十二年。

5.48.92

वासः कृच्छ्रो विहितश्चाप्यरण्ये ।
दीर्घं कालं चैकमज्ञातवर्षम्।
ते हि कस्माज्जीवतां पाण्डवानां ।
नन्दिष्यन्ते धार्तराष्ट्राः पदस्थाः ॥ ५.४८.९२ ॥

在森林中艰难地居住被规定了,很长的时间,并且一年隐姓埋名。般度之子尚在人世,身居高位的持国之子怎会欢喜呢?

5.48.93

ते चेदस्मान्युध्यमानाञ्जयेयु-
र्देवैर्महेन्द्रप्रमुखैः सहायैः।
धर्मादधर्मश्चरितो गरीयां-
स्ततो ध्रुवं नास्ति कृतं च साधु ॥ ५.४८.९३ ॥

若他们与我们作战,借助以大因陀罗为首的众神相助而战胜我们,那么行非法比守法更重;那样一来,必定再无善行可言。

5.48.94

न चेदिदं पौरुषं कर्मबद्धं ।
न चेदस्मान्मन्यतेऽसौ विशिष्टान्।
आशंसेऽहं वासुदेवद्वितीयो ।
दुर्योधनं सानुबन्धं निहन्तुम् ॥ ५.४८.९४ ॥

即使此人力不受业的束缚,即使他不认为我们优越,我仍希望与婆苏提婆同行,将难敌连同其党羽一并诛杀。

5.48.95

न चेदिदं कर्म नरेन्द्र वन्ध्यं ।
न चेद्भवेत्सुकृतं निष्फलं वा।
इदं च तच्चाभिसमीक्ष्य नूनं ।
पराजयो धार्तराष्ट्रस्य साधुः ॥ ५.४८.९५ ॥

人主啊,若此事并非徒劳,善业也非无果,那么细加思量,难道不正是般遮罗之子们与持国之子的败亡才是必然之理吗?

5.48.96

प्रत्यक्षं वः कुरवो यद्ब्रवीमि ।
युद्ध्यमाना धार्तराष्ट्रा न सन्ति।
अन्यत्र युद्धात्कुरवो यदि स्यु-
र्न युद्धे वै शेष इहास्ति कश्चित् ॥ ५.४८.९६ ॥

诸位俱卢,我所说的,诸君亲眼便可见:交战的持国之子将不复存留。即便俱卢远离战阵,战中此地也将无人幸存。

5.48.97

हत्वा त्वहं धार्तराष्ट्रान्सकर्णा-
न्राज्यं कुरूणामवजेता समग्रम्।
यद्वः कार्यं तत्कुरुध्वं यथास्व-
मिष्टान्दरानात्मभोगान्भजध्वम् ॥ ५.४८.९७ ॥

我将与迦尔纳一同诛杀持国之子,夺取俱卢全国。诸位但行当行之事,各自享受所爱的妻子与自身的欢乐吧。

5.48.98

अप्येवं नो ब्राह्मणाः सन्ति वृद्धा ।
बहुश्रुताः शीलवन्तः कुलीनाः।
सांवत्सरा ज्योतिषि चाभियुक्ता ।
नक्षत्रयोगेषु च निश्चयज्ञाः ॥ ५.४८.९८ ॥

我们这边也有年长的婆罗门,博学、品行端正、出身高贵,精通历法推算,熟悉astrology,并确知星宿结合之理。

5.48.99

उच्चावचं दैवयुक्तं रहस्यं ।
दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः ।
क्षयं महान्तं कुरुसृञ्जयानां ।
निवेदयन्ते पाण्डवानां जयं च ॥ ५.४८.९९ ॥

种种与天命相连的秘密征兆、神圣的占问、鹿轮与吉时,宣告了俱卢与鞞阇耶的大毁灭,也宣告了般度子的胜利。

5.48.100

यथा हि नो मन्यतेऽजातशत्रुः ।
संसिद्धार्थो द्विपतां निग्रहाय।
जनार्दनश्चाप्यपरोक्षविद्यो ।
न संशयं पश्यति वृष्णिसिंहः ॥ ५.४८.१०० ॥

依我们所见,目标已成就的阿阇多设睹(坚战)已决心降服众人;而具有直接知识的生主、韦史尼之狮也不见任何疑惑。

5.48.101

अहं तथैनं खलु भाविरूपं ।
पश्यामि बुद्धया स्वयमप्रमत्तः।
दृष्टिश्च मे न व्यथते पुराणी ।
संयुध्यमाना धार्तराष्ट्रा न सन्ति ॥ ५.४८.१०१ ॥

我亦如此,警觉地以智慧亲见其将至之形,我古老的视力并不动摇:交战的持国之子将不复存在。

5.48.102

अनालब्धं जृम्भति गाण्डिवं धनु-
रनाहता कम्पति मे धनुर्ज्या।
बाणाश्च मे तूणमुखाद्विसृत्य ।
मुहुर्मुहुर्गन्तुमुशन्ति चैव ॥ ५.४८.१०२ ॥

甘狄拔弓未被触碰便打哈欠;我的弓弦未被弹击便颤动;我的箭从箭袋口中跃出,一次又一次地想要飞去。

5.48.103

खङ्गः कोशान्निःसरति प्रसन्नो ।
हित्वेव जीर्णासुरगस्त्वचं स्वाम्।
ध्वजे वाचो रौद्ररूपा भवन्ति ।
कदा रथो योक्ष्यते ते किरीटिन् ॥ ५.४८.१०३ ॥

明亮的剑从鞘中跃出,仿佛脱去旧蛇皮。旗帜上发出可怖之声。哦,冠者,你的战车何时套上?

5.48.104

गोमायुसङ्घाश्च नदन्ति रात्रौ ।
रक्षांस्यथो निष्पतन्त्यन्तरिक्षात्।
मृगाः श्रृगालाः शितिकण्ठाश्च काका ।
गृध्रा बकाश्चैव तरक्षवश्च ॥ ५.४८.१०४ ॥

夜间群狐嚎叫,随后罗刹从天空俯冲而下:鹿、豺狼、青喉鸟、乌鸦、秃鹫、白鹭,还有鬣狗。

5.48.105

सुवर्णपत्राश्च पतन्ति पञ्चा-
दृष्ट्वा रथं श्वेतहयप्रयुक्तम् ।
अहं ह्येकः पार्थिवान्सर्वयोधान् ।
शरान्वर्पन्मृत्युलोकं नयेयम् ॥ ५.४८.१०५ ॥

金羽之箭从五方落下。见到白马所驾之车,我独自以箭雨覆盖诸王与所有战士,将他们送往死亡之界。

5.48.106

समादेदानः पृथगस्त्रमार्गा-
न्यथाप्रिरिद्धो गहनं निदाघे।
स्थूणाकर्णं पाशुपतं महास्त्रं ।
ब्राह्मं चास्त्रं यच्च शक्रोऽप्यदान्मे ॥ ५.४८.१०६ ॥

如同夏日燃起的火焰焚烧密林,他瞄准各种兵器的不同路径:斯图纳卡尔纳、帕苏帕塔、大兵器、梵天之箭,以及因陀罗亲自赐予我的那件兵器。

5.48.107

वधे धृतो वेगवतः प्रमुञ्च-
न्नाहं प्रजाः किञ्चिदिहावशिष्ये ।
शान्तिं लप्स्ये परमो ह्येप भावः ।
स्थिरो मम ब्रूहि गावल्गणे तान् ॥ ५.४८.१०७ ॥

我坚定地要杀死那位迅猛的敌人,放箭不止,在此不会给人民留下任何一人。我将获得平静;这便是我最高的决心。啊,伽瓦尔加纳之子,把我坚定的决心告诉他们。

5.48.108

ये वैजय्याः समरे सूत लब्ध्वा ।
देवानपीन्द्रग्रमुखान्समेतात्।
तैर्मन्मते कलहं संप्रसह्य ।
स धार्तराष्ट्रः पश्यत मोहमस्य ॥ ५.४८.१०८ ॥

啊,御者!那些在战斗中获胜、以因陀罗为首的诸神聚集于此,他们竟欲强行挑起这场争斗。他是持国之子——看他的迷惑吧。

5.48.109

वृद्धो भीष्मः शान्तनवः कृपश्च ।
द्रोणः सपुत्रो विदुरश्च धीमान्।
एते सर्वे यद्वदन्ते तदस्तु ।
आयुष्मन्तः कुरवः सन्तु सर्वे ॥ ५.४८.१०९ ॥

年长的毗湿摩(Bhīṣma),善天之子,克利巴,携子的德罗纳,以及智慧的维杜罗——他们所说的一切,愿其成就。愿所有俱卢人都得长寿。