Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.5.1

द्रुपदेनैवमुक्ते तु वाक्ये वाक्यविदां वरः ।
वसुदेवसुतस्तत्र पृष्णिसिंहोऽब्रवीदिदम् ॥ ५.५.१ ॥

德鲁帕达如此说完后,精通言辞者中最优秀的、婆苏提婆之子、毗利氏雄狮便在那里说道。

5.5.2

उपपन्नमिदं वाक्यं सोमकानां धुरंधरे ।
अर्थसिद्धिकरं राज्ञः पाण्डवस्यामितौजसः ॥ ५.५.२ ॥

索摩迦的擎柱者啊,这番话是恰当的,它能成就无量威力的般度王之事。

5.5.3

एतच्च पूर्वं कार्यं नः सुनीतिमभिकाङ्क्षताम् ।
अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः ॥ ५.५.३ ॥

我们渴望善策,这便是首要之务;否则,行事相反的人将极其愚蠢。

5.5.4

किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु ।
यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च ॥ ५.५.४ ॥

然而,我们与俱卢和般度的关系是相等的,般度之子与他们依其所愿而居。

5.5.5

ते विवाहार्थमानीता वयं सर्वे तथा भवान् ।
कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति ॥ ५.५.५ ॥

他们、我们众人以及您,都是为了婚事而被带来的;婚事完成后,我们将欢喜地返回各自的家。

5.5.6

भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च ।
शिष्यवत्ते वयं सर्वे भवामेह न संशयः ॥ ५.५.६ ॥

您在诸王之中,年岁与学识最为年长;在此我们所有人,无疑都如同您的弟子。

5.5.7

भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते ।
आचार्ययोः सखा चासि द्रोणस्य च कृपस्व च ॥ ५.५.७ ॥

持国王始终十分敬重你。你是两位师尊德罗纳和克里帕的朋友。

5.5.8

स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः ।
सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् ॥ ५.५.८ ॥

因此,请现在发送一封有利于般度之子事业的信息。你所发出的,将成为我们所有人确定的决定。

5.5.9

यदि तावच्छमं कुर्यन्न्यायेन कुरुपुङ्गवः ।
न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः ॥ ५.५.९ ॥

若库鲁之杰依正义媾和,则库鲁与般度之间因兄弟之情便不会有大毁灭。

5.5.10

अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः ।
अन्येषां प्रेषयित्वा च पश्चादस्मान्सभाह्वये ॥ ५.५.१० ॥

然而持国之子若因傲慢与迷惑而不这样做,而是先派遣他人,之后才召我们到会议上,

5.5.11

ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः ।
निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि ॥ ५.५.११ ॥

那时愚昧的难敌将与大臣和亲属一同走向毁灭,当持甘提弓者震怒之时。

5.5.12

ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः ।
गृहान्प्रस्थापयामास सगणं सहबान्धवम् ॥ ५.५.१२ ॥

于是大地之主毗罗吒以礼敬待瓦尔什涅耶(克里希纳),让他与随从和亲属返回家园。

5.5.13

द्वारकं तु गते कृष्णे युधिष्ठिरपुरोगमाः ।
चक्रुः साङ्घ्रामिकं सर्वं विराटश्च महीपतिः ॥ ५.५.१३ ॥

克里希那前往德瓦拉卡之后,以坚战为首的众人与大地之主毗罗吒一同做好了一切战争准备。

5.5.14

ततः संप्रेषयामास विराटः सह बान्धवैः ।
सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः ॥ ५.५.१४ ॥

随后,毗罗吒与亲属一道,派遣使者前往所有护地之王处,大地之主德鲁波陀也这样做了。

5.5.15

वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते ।
समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः ॥ ५.५.१५ ॥

依照库鲁之狮与摩蹉、般遮罗的号令,那些大力的诸侯欣然聚集。

5.5.16

तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् ।
धृतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन् ॥ ५.५.१६ ॥

听闻此事,大军便聚集于般度之子一方;持国之子也召集了诸侯。

5.5.17

समाकुला मही राजन्कुरुपाण्डवकारणात् ।
तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम् ॥ ५.५.१७ ॥

国王啊,因为库鲁与般度的缘故,整个大地都陷入动荡;那时众王出征,整个世界都在震动。

5.5.18

संकुला च तदा भूमिश्चतुरङ्गवलान्विता ।
बलानि तेषां वीराणामागच्छन्ति ततस्ततः ॥ ५.५.१८ ॥

那时大地拥挤不堪,充满了四军之众;那些英雄的军队从四面八方陆续赶来。

5.5.19

चालयन्तीव गां देवीं सपर्वतवनामिमाम् ।
ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम्।
कुरुभ्यः प्रेषयामास युधिष्ठिरमते स्थितः ॥ ५.५.१९ ॥

仿佛要撼动这位女神大地及其山林,潘遮罗王坚定地遵从坚战之意,于是派遣了以智慧与年岁著称的老祭司前往俱卢族。