摩诃婆罗多 · 章 5.60
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.60.1
सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्जनेश्वरः ।
ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ॥ ५.६०.१ ॥
听了全阁的话,以智慧为眼的国王便开始依据其优劣来衡量这些话语。
5.60.2
प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः ।
यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ॥ ५.६०.२ ॥
以精细之心充分权衡了优劣,这位明察的国王渴望胜利,依据其智慧的真实本性,恰当地思量了诸子之事。
5.60.3
बलाबलं विनिश्चित्य याथातथ्येन बुद्धिमान् ।
यदा तु मेने भूयिष्ठं तद्वचो गुणदोषतः ॥ ५.६०.३ ॥
当智慧的国王如实判定了强弱之后,便依据优劣认为那些话大多是对的。
5.60.4
पुनरेव कुरूणां च पाण्डवानां च बुद्धिमान् ।
शक्तिं शङ्ख्यातुमारेभे तदा वै मनुजाधिपः ॥ ५.६०.४ ॥
智慧的人主此时又开始计算俱卢与般度的力量。
5.60.5
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् ।
कुरूञ्शक्त्याऽल्पतरया दुर्योधनमथाब्रवीत् ॥ ५.६०.५ ॥
以诸天与世人的力量和光辉衡量般度诸子,以俱卢之力远为弱小来看待,他便对难敌说。
5.60.6
दुर्योधनेयं चिन्ता मे शश्वन्न व्युपशाम्यति ।
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ॥ ५.६०.६ ॥
难敌啊,我的这份忧虑从不平息。我认为这是真实的,是亲眼所见,而非推测而来。
5.60.7
आत्मजेषु परं स्नेहं सर्वभातिनि कुर्वते ।
प्रियामि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥ ५.६०.७ ॥
人们对自己的儿子怀有最深的爱,并依自己的能力为他们做喜欢的事和有益的事。
5.60.8
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे ।
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ॥ ५.६०.८ ॥
如此,我们通常可以看到,善良的人非常希望回报那些施恩于他们的人,以一件大好事相报。
5.60.9
अग्निः साचिव्यर्ता स्यात्खाण्डवे तत्कृतं स्मरन् ।
अर्जुनस्यापि भीमेऽस्मिन्कुरुपाण्डुसमागमे ॥ ५.६०.९ ॥
忆及阿周那在憍萨罗林(康达婆林)中所做之事,火神阿耆尼也会在这次俱卢与般度的会面中成为他们的助手。
5.60.10
जातिगृद्ध्याऽभिपन्नाश्च पाण्डवानामनेकशः ।
धर्मादयः समेष्यन्ति समाहूता दिवौकसः ॥ ५.६०.१० ॥
出于对族人的眷念,并为般度诸子多次忧伤,以法神为首的诸神被召唤后将会聚集。
5.60.11
भीष्मद्रोणकृपादीनां भयादशनिसन्निभम् ।
रिरक्षिषन्तः संरभ्यं गमिष्यन्तीति मे मतिः ॥ ५.६०.११ ॥
他们为了保护自己,免受毗湿摩、德罗纳、克里帕等人如霹雳般的威胁,将怒气冲冲地前往,这是我的看法。
5.60.12
ते देवैः सहिताः पार्था न शक्याः प्रतिवीक्षितुम् ।
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ॥ ५.६०.१२ ॥
那些普利塔之子般度五子,有诸神相伴,凡人不能正视他们;他们是人中之虎,勇猛而精通武器。
5.60.13
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् ।
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥ ५.६०.१३ ॥
其神圣的甘狄拔弓,乃最上之弓,难以战胜;伐楼那的两只神圣不竭箭囊盛满箭矢。
5.60.14
वानरश्च ध्वजे दिव्यो निःसङ्गे धूमवद्गतिः ।
रथश्च चतुरन्तायां यस्य नास्ति समः क्षितौ ॥ ५.६०.१४ ॥
旗上有神圣猴子,其行动如烟般无碍,四方大地上无人能与其战车相比。
5.60.15
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः ।
महाशनिसमः शब्दःत शात्रवाणां भयंकरः ॥ ५.६०.१५ ॥
他的吼声如大云般,人们都能听到;他的声音如巨雷般,令敌人恐惧。
5.60.16
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति ।
देवानामपि जेतारं यं विदुः पार्थिवा रणे ॥ ५.६०.१६ ॥
其勇武,整个世界都视为超人;在战场上,诸王都知道他连诸神也能战胜。
5.60.17
शतानि पञ्च चैवेषून्यो गृह्णन्नैव दृश्यते ।
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ॥ ५.६०.१७ ॥
他取五百支箭时都看不见其动作;瞬息之间便将箭射出,把远处的敌人也射倒。
5.60.18
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च ।
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ॥ ५.६०.१८ ॥
毗湿摩、德罗纳、克里巴、德罗纳之子、摩德罗王沙利耶,以及中立的人们所谈论的那位。
5.60.19
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः ।
अशक्यं रथशार्दूलं पराजेतुमरिंदमम् ॥ ५.६०.१९ ॥
准备开战的般度之子,连超越凡人的诸王也无法战胜;他是战车武士中的猛虎,制服敌人者。
5.60.20
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः ।
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ॥ ५.६०.२० ॥
他以一次迅猛之势射出五百支箭,臂力与迦尔达维里亚相当——那位般度之子。
5.60.21
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्रविक्रमम् ।
निघ्नन्तमिव पश्याभि विमर्देऽस्मिन्महाहवे ॥ ५.६०.२१ ॥
看那位大弓箭手阿周那,他的勇力堪比摩亨德罗与乌彭德罗,在这场大战的厮杀中挥击敌人。
5.60.22
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत ।
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ॥ ५.६०.२२ ॥
婆罗多之子啊,我如此日夜思虑,因忧虑俱卢族的和平而不眠,也无欢乐。
5.60.23
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः ।
अस्य चेत्कलहन्यान्तः शमादन्यो न विद्यते ॥ ५.६०.२३ ॥
俱卢族上空这场大毁灭之兆已经临近;若要结束这场争端,除了和平别无他途。
5.60.24
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥ ५.६०.२४ ॥
亲爱的孩子,我始终愿与普利塔之子和平相处,而不愿争斗;我一直认为般度之子比俱卢族更强大。