Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.65

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.65.1

दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः ॥ ५.६५.१ ॥

难敌啊,我的儿子,请听我要对你说的话。你把错误的道路当作正道,就像不认识路的旅人一样。

5.65.2

पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रजिहीर्षसि ।
पञ्चानामिव भूतानां महतां लोकधारिणाम् ॥ ५.६५.२ ॥

你想夺去般度五子的光辉,那光辉就如同支撑世界的五大元素一般。

5.65.3

युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम् ।
परां गतिमसंप्रेत्य न त्वं जेतुमिहार्हसि ॥ ५.६५.३ ॥

贡蒂之子坚战安住于至高的法中。若未达到至上的归宿,你在此是无法战胜他的。

5.65.4

भीमसेनं च कौन्तेयं यस्य नास्ति समो बले ।
रणान्तकं तर्जयसे महावातमिव द्रुमः ॥ ५.६५.४ ॥

贡蒂之子毗摩森那,力量无人能及,是战争的终结者,你却去挑衅他,就像树木去挑衅大风一样。

5.65.5

सर्वशस्त्रभृतां श्रेष्ठं मेरुं सिखरिणामिव ।
युधि गाण्डिवधन्वानं को नु युध्येत बुद्धिमान् ॥ ५.६५.५ ॥

哪位智者会与持甘狄拔弓的阿周那作战?他是所有持兵器者中最优秀的,如同群山之中的须弥山。

5.65.6

धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् ।
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव ॥ ५.६५.६ ॥

般遮罗王子持法财,在敌人中间放箭,如同天神之王因陀罗的金刚杵,今日他会不击杀谁呢?

5.65.7

सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु ।
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ॥ ५.६५.७ ॥

萨提亚基同样不可战胜,在安陀迦与毗湿尼中受人尊敬,致力于般度之子的利益,必将摧毁你的军队。

5.65.8

यः पुनः प्रतिमानेन त्रील्लोकानतिरिच्यते ।
तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान् ॥ ५.६५.८ ॥

谁有智慧,会与那莲花眼的克里希那作战?他以任何标准衡量都超越三界。

5.65.9

एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः ।
आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः ॥ ५.६५.९ ॥

一方是他的妻子、亲族与眷属,他自己和这大地;另一方是财富征服者(阿周那)。

5.65.10

वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः ।
अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः ॥ ५.६५.१० ॥

婆苏提婆同样不可战胜;自制的般度之子在哪里,大地也承受不住;keśava在哪里,那力量便不可抵挡。

5.65.11

तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् ।
वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम् ॥ ५.६५.११ ॥

孩子,你要坚持善良者与说有益之言的好友的话;请忍耐年老的、山塔努之子毗湿摩,你的祖父。

5.65.12

मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम् ।
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ॥ ५.६५.१२ ॥

请听从我的话,我是为库鲁们之利而言的;也请听从德罗纳、克利巴、毗迦尔纳、大王与巴赫利迦的话。

5.65.13

एते ह्यपि यतैवाहं मन्तुमर्हसि तांस्तथा ।
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ॥ ५.६५.१३ ॥

这些人都通晓法,对我的情谊也同样深厚;所以,婆罗多子孙啊,你应当像看待我一样看待他们。

5.65.14

यत्तद्विराटनगरे सह भ्रातृभिरग्रतः ।
उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत ॥ ५.६५.१४ ॥

在毗罗吒城中,当你的诸兄走在前面时,你的军队极度恐惧,弃置了牛群,全军溃散——那件事。

5.65.15

यच्चैव नगरे तस्मिञ्श्रूयते महदद्भुतम् ।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥ ५.६५.१५ ॥

而在那座城中所传闻的那件大奇事,足以证明一人能胜过众多之人。

5.65.16

अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते ।
स भ्रातॄनभिजानीहि वृत्त्या तं प्रतिपादय ॥ ५.६५.१६ ॥

若阿周那如此行事,你们众人岂不更能做到?他是你的兄弟;应从他的行为认出他,并依此尊敬他。