摩诃婆罗多 · 章 5.66
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.66.1
दुर्योधने धार्तराष्ट्रे तद्वचो नाभिनन्दति ।
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः ॥ ५.६६.१ ॥
持国之子难敌不赞同那番话。众人沉默之后,人中之杰纷纷起身。
5.66.2
उत्थितेषु महाराज पृथिव्यां सर्वराजसु ।
रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे ॥ ५.६६.२ ॥
大王啊,待大地上的诸王都起身离去后,国王便在私下里开始详细询问山阇耶。
5.66.3
आशंसमानो विजयं तेषां पुत्रवशानुगः ।
आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ॥ ५.६६.३ ॥
希望他们获胜,顺从诸子的意愿,想知道己方、敌方以及般度之子们的最终结局。
5.66.4
गावल्गणे ब्रूहि नः सारफल्गु ।
स्वेसनायं यावदिहास्ति किंचित्।
त्वं पाण्डवानां निपुणं वेत्थ सर्वं ।
किमेषां ज्यायः किमु तेषां कनीयः ॥ ५.६६.४ ॥
嗟乎,乔瓦尔伽纳,请告诉我们:我方军中有什么是精要的、有什么是琐碎的,凡此处所有的一切。你深知般度诸子。这些人中谁是长者,那些人中谁是幼者?
5.66.5
त्वमेतयोः सारवित्सर्वदर्शी ।
धर्मार्थयोर्निपुणो निश्चयज्ञः।
स मे पृष्टः सञ्जय ब्रूहि सर्वं ।
युध्यमानाः कतरेऽस्मिन्न सन्ति ॥ ५.६६.५ ॥
你通晓双方的精要,洞察一切,精通法与利,知晓成败。山阇耶,我既已问你,就请把一切都告诉我:在这场战争中,参战者之中谁已不在了?
5.66.6
न त्वां ब्रूयां रहिते जातु किंचि-
दसूया हि त्वां प्रविशेत राजन्।
आनयस्व पितरं महाव्रतं ।
गान्धारीं च महिषीमाजमीढ ॥ ५.६६.६ ॥
国王啊,我绝不会私下对你说任何话,因为嫉恨可能会侵入你心中。阿阇弥陀啊,请把发大愿的父亲和正妃甘陀利带来。
5.66.7
तो तेऽसूयां विनयेतां नरेन्द्र ।
धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ ।
तयोस्तु त्वां सन्निधौ तद्वदेयं ।
कृत्स्नं मतं केशवपार्थयोर्यत् ॥ ५.६६.७ ॥
愿那两位消除你的嫉恨,人主啊。他们精通法,善巧,且知晓定见。在他们面前,我将把克舍瓦与帕尔塔的全部意见告诉你。
5.66.8
इत्युक्तेन च गान्धारी व्यासश्चात्राजगामह ।
आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ ॥ ५.६६.८ ॥
如此被召唤后,甘陀利与毗耶娑也来到此处。毗杜罗将两人带来,迅速引入议会。
5.66.9
ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च ।
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥ ५.६६.९ ॥
于是,毗耶娑了知桑遮耶与其子的心意,走近前来,说道。
5.66.10
संपृच्छते धृतराष्ट्रय सञ्जय ।
आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते।
सर्वं यावद्वेत्थ तस्मिन्यथाव-
द्याथातथ्यं वासुदेवेऽर्जुने च ॥ ५.६६.१० ॥
桑遮耶啊,他问到的,你所知道的一切都告诉他吧。关于婆苏提婆与阿周那,请如实说出那真实的情况。