摩诃婆罗多 · 章 5.76
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.76.1
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रवम् ।
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया ॥ ५.७६.१ ॥
我想要了解你内心的真实意图,出于爱护才说了这番话;并非出于指责,也非炫耀学问,非出于愤怒,也非仅仅为了说话。
5.76.2
वेदाहं तव माहात्म्यसुत ते वेद यद्बलम् ।
उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ॥ ५.७६.२ ॥
孔提之子啊,我知道你的伟大,知道你的力量,也知道你的功业。我并不轻视你。
5.76.3
यथा चात्मनि कल्याणं संभावयसि पाण्डव ।
सहस्रगुणमप्येतत्त्वयि संभावयाम्यहम् ॥ ५.७६.३ ॥
般度之子啊,你如何看重自身的善,我便在你身上千倍地看重它。
5.76.4
यादृशे च कुले जन्म सर्वराजाभिपूजिते ।
बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ॥ ५.७६.४ ॥
你出生于被一切国王尊崇的这样的家族,又被亲属和友人环绕,婆罗多之子啊,你正是这样的人。
5.76.5
जिज्ञासन्तो हि धर्मस्य सन्दिग्धस्य वृकोदर ।
पर्यायं नाध्यवस्यन्ति देवमानुषयोर्जनाः ॥ ५.७६.५ ॥
狼腹啊,即便有人想要弄清法中可疑之处,也无法对神与人之间的分界得出确定的结论。
5.76.6
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु ।
विनाशेऽपि स एवास्य सन्दिग्धं कर्म पौरुषम् ॥ ५.७६.६ ॥
正是此物,成为人达成目标的原因,也正是使他毁灭的原因;人之努力的行动是不确定的。
5.76.7
अन्यथा परिदृष्टानि कविभिर्दोवदर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ ५.७६.७ ॥
善于挑剔过失的智者看待事物有所不同;如同风的疾速,它们以另一种方式转动。
5.76.8
सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् ।
कृतं मानुष्यकं कर्म दैनेनापि विरुद्ध्यते ॥ ५.७६.८ ॥
即使是经过深思熟虑、谋划周全、依道义完成的人力之事,也会被天命所阻。
5.76.9
दैवमप्यकृतं कर्म पौरुषेण विहन्यते ।
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ॥ ५.७६.९ ॥
即使是天命未成之事,也会被人力所摧毁;婆罗多之子啊,寒冷、炎热、雨水、饥饿与口渴也是如此。
5.76.10
यदन्यद्दिष्टभावस्य पुरुषस्य स्वयं कृतम् ।
तस्मादनुपरोधश्च विद्यते तत्र लक्षणम् ॥ ५.७६.१० ॥
命定之人自己所作的其他行为,其中便有不受阻碍的迹象。
5.76.11
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः ।
एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वये ॥ ५.७६.११ ॥
世界的生计不来自别处,只来自行动,般度之子啊;怀着这样的心念去行动,两个家族都将有所收获。
5.76.12
य एवं कृतबुद्धिः स कर्मस्वेव प्रवर्तते ।
नासिद्धो व्यथते तस्य न सिद्धौ हर्षमश्रुते ॥ ५.७६.१२ ॥
若有人以这样坚定的心念投身于行动本身,失败时不会痛苦,成功时也不会欢喜。
5.76.13
तत्रेयमनुमात्रा मे भीमसेन विवक्षिता ।
नैकान्तसिद्धिर्वक्तव्या शत्रुभिः सह संयुगे ॥ ५.७६.१३ ॥
婆罗多的毗摩娑那啊,我这里有一点想法:与敌人作战时,不应说必定成功。
5.76.14
नातिप्रहीणरश्मिः स्यात्तथा भावविपर्यये ।
विषादमर्च्छेद् ग्लानिं वाप्येतमर्थं ब्रवीमिते ॥ ५.७६.१४ ॥
当局势逆转时,不可过度松缰,也不可陷入悲伤或疲倦——这就是我要对你说的意思。
5.76.15
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव ।
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ॥ ५.७६.१५ ॥
般度之子啊,明天我到达持国面前,将为你们努力促成和平,决不放弃。
5.76.16
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम ।
भवतां कच कृतः कामस्तेषां च श्रेय उत्तमम् ॥ ५.७६.१६ ॥
如果他们言和,我的名声将无穷无尽;你们的心愿得以实现,他们也将获得至高的福祉。
5.76.17
ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः ।
कुरवो युद्धमेवात्र घोरं कर्म भविष्यति ॥ ५.७६.१७ ॥
如果他们执迷不悟,不听我的话,那么这里就只会发生与俱卢人的惨烈战争。
5.76.18
अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः ।
धूरर्जुनेन धार्या स्याद्वेढव्य इतरो जनः ॥ ५.७६.१८ ॥
毗摩娑那啊,这场战争的重担已落在你身上;让阿周那承担其轭,而让其他人被阻挡。
5.76.19
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति ।
धनञ्जयस्यैष कामो न हि युद्धं न कामये ॥ ५.७६.१९ ॥
若战事发生,我自己将成为毗跋蹉(阿周那)的御者。这是檀那闍耶的愿望;我并不想要战争。
5.76.20
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव ।
गदतः क्लीबया वाचा तेजस्ते समदीदिपम् ॥ ५.७६.२० ॥
因此,哦,狼腹(毗摩),我怀疑你的心意,便因你怯懦的言辞而更加点燃了你的威势。