Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.77

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.77.1

उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन ।
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप ॥ ५.७७.१ ॥

生主啊,坚战已经把该说的都说了。可是听了你的话,我觉得并不妥当,敌人的烧灼者啊。

5.77.2

नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो ।
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् ॥ ५.७७.२ ॥

主啊,你认为此处的和平并不容易;它或出于持国的贪欲,或出于他的软弱。

5.77.3

अफलं मन्यसे वाऽपि पुरुषस्य पराक्रमम् ।
न चान्तरेण कर्माणि पौरुषेण बलोदयः ॥ ५.७७.३ ॥

你甚至认为人的勇力是无益的;然而没有行动和人的努力,力量便不会兴起。

5.77.4

तदिदं भाषितं वाक्यं तथाचन तथैव तत् ।
न चैतदेवं द्रष्टव्यमसाध्यमपि किंचन ॥ ५.७७.४ ॥

你所说的那番话确实如此。但不应以为有什么事是做不到的。

5.77.5

किं चैतन्मन्यसे कृच्छ्रमस्माकमवसादकम् ।
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः ॥ ५.७७.५ ॥

你为何认为这对我们是艰难并使人沮丧的事呢?那些行动没有结果的人,不也在行动吗?

5.77.6

संपाद्यमानं सम्यक्व स्यात्कर्म सफलं प्रभो ।
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः ॥ ५.७७.६ ॥

主啊,妥善完成的行为便会有成果。因此克里希那啊,请你如此行事,使他人得到安宁。

5.77.7

पाण्डवानां कुरूणां च भवान्नः प्रथमः सुहृत् ।
सुराणामसुराणां च यथा वीर प्रजापतिः ॥ ५.७७.७ ॥

英雄啊,正如生主之于诸天与阿修罗,你是我们——般度之子与俱卢族——首要的善友。

5.77.8

कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् ।
अस्मद्धितमनुष्ठानं मन्ये तव न दुष्करम् ॥ ५.७७.८ ॥

为俱卢族与般度之子成就无害的和平;我认为这件有利于我们的事,对你来说并不困难。

5.77.9

एवं च कार्यतामेति कार्यं तव जनार्दन ।
गमनादेवमेव त्वं करिष्यसि जनार्दन ॥ ५.७७.९ ॥

如此,哦阇那陀那,你的事业便会成就;哦阇那陀那,你前往便会如此行事。

5.77.10

चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मानि ।
भविष्यति च तत्सर्वं यथा तव चिकीर्षितम् ॥ ५.७७.१० ॥

英雄啊,你对那恶意之人另有所图,一切都会如你所愿成就。

5.77.11

शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् ।
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः ॥ ५.७७.११ ॥

愿我们与他们之间有和平,或者随你的所愿;哦黑天,你经过深思所定的心愿,便是我们的准绳。

5.77.12

न स नार्हति दुष्टात्मा वधं ससुतबान्धवः ।
येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता ॥ ५.७७.१२ ॥

那恶意之人见法之子而不能容忍其荣光,他并不配与其子孙亲族一同被诛。

5.77.13

यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन ।
उपायेन नृशंसेन हृता दुर्द्यूतदेविना ॥ ५.७७.१३ ॥

摩图苏陀那啊,那最正直者未曾看见的残酷手段,被邪恶的赌徒夺走了。

5.77.14

कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः ।
समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते ॥ ५.७७.१४ ॥

生为刹帝利中的弓箭手,被挑战时,即使舍命之事已临近,人怎会退缩?

5.77.15

अधर्मेण जितान्दृष्ट्वा वने प्रवृजितांस्तथा ।
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः ॥ ५.७७.१५ ॥

见我们因不义而败、被流放于森林,哦,伐尔什涅耶,他们应被我所杀;苏约陀那已经离去。

5.77.16

न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि ।
क्रिया कथंच मुख्या स्यान्मृदुना चेतरेण वा ॥ ५.७७.१६ ॥

克里希那啊,你想为朋友而行事,这并不奇怪;但无论以温和还是其他方式,主要之事如何能成?

5.77.17

अथवा मन्यसे ज्यायान्वधस्तेषामनन्तरम् ।
तदेव क्रियतामाशु न विचार्यमतस्त्वया ॥ ५.७७.१७ ॥

或者你认为之后杀他们更好,那就尽快做那件事;你不必为此反复权衡。

5.77.18

जानासि हि यथैतेन द्रौपदी पापबुद्धिना ।
परिक्लिष्टा सभामध्ये तच्च तस्योपमर्षितम् ॥ ५.७७.१८ ॥

你知道德罗波蒂在会场中间如何被这个邪恶之人折磨,也知道她因他而蒙受的那份羞辱。

5.77.19

स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव ।
न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे ॥ ५.७७.१९ ॥

阿周那说:摩陀婆啊,我心中不生起他会善待般度子孙的想法,就像种子撒在贫瘠的土地上。

5.77.20

तस्माद्यन्मन्यसे युक्तं पाण्डवानां हितं च यत् ।
तथाऽऽशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् ॥ ५.७७.२० ॥

因此,摩陀之子(婆利宗族)啊,凡你认为对般度子孙适当且有利的,请迅速去做,做我们眼前应当做的事。