Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.85

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.85.1

तदा दूतैः समाज्ञाय आयान्तं मधुसूदनम् ।
धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ॥ ५.८५.१ ॥

于是,从使者处得知摩图苏陀那(克里希那)正在前来,持国王敬礼大臂的毗湿摩后说道。

5.85.2

द्रोणं च सञ्जयं चैव विदुरं च महामतिम् ।
दुर्योदनं सहामात्यं हृष्टरोमाऽब्रवीदिदम् ॥ ५.८५.२ ॥

持国王毛发竖立,对德罗纳、桑闍耶、智慧的毗杜罗以及杜尔约陀那与大臣们说了这些话。

5.85.3

अद्भुतं महादाश्चर्यं श्रूयते कुरुनन्दन ।
स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहेगृहे ॥ ५.८५.३ ॥

库鲁之喜,人们听闻一桩奇妙而伟大的奇事;妇女、孩童和老人家家户户都在讲述。

5.85.4

सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः ।
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ॥ ५.८५.४ ॥

有人恭敬地讲述此事,其他聚集的人也这样说;在十字路口和集会中,意见各不相同。

5.85.5

उपायास्यति दाशार्हः पाण्डवार्थे पराक्रमी ।
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ॥ ५.८५.५ ॥

为了般度子孙,英勇的十驮罗后裔即将到来;那摩图苏陀那在各方面都值得我们尊敬和礼拜。

5.85.6

तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरोऽहि सः ।
तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ॥ ५.८५.६ ॥

世界的进程在于他;他是众生之主。在那摩陀婆身上,有坚定、勇力、智慧与活力。

5.85.7

स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः ।
पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ॥ ५.८५.७ ॥

此人中之尊者值得尊敬,因为他就是永恒的法。受到尊敬则带来幸福,受到轻慢则带来不幸。

5.85.8

स चेत्तुप्यति दाशार्ह उपचरैररिन्दमः ।
कृष्णात्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥ ५.८५.८ ॥

若这位降伏敌人的达沙尔哈因我们的侍奉而欢喜,那么我们将从克里希纳那里,在诸王之中获得一切所愿。

5.85.9

तस्य पूजार्थमद्यैव संविधस्त्व परन्तप ।
सभाः पथि विधीयन्तां सर्वकामसमन्विताः ॥ ५.८५.९ ॥

降伏敌人者啊,今日便为迎接他的礼敬作好安排。让沿途建起备有一切舒适设施的议事厅。

5.85.10

यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै ।
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ॥ ५.८५.१० ॥

大臂者啊,请照他会对你生起喜爱之心的方式去做。甘陀利之子啊,或者,婆罗门之子毗湿摩啊,你认为如何?

5.85.11

ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम् ।
ऊचुःक परममित्येवं पूजयन्तोऽस्य तद्वचः ॥ ५.८५.११ ॥

于是毗湿摩等众人对人主持国说:“甚好,极为妙善。”如此尊重他的言语。

5.85.12

तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा ।
सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ॥ ५.८५.१२ ॥

杜尔约达那王知道他们已经同意,便开始指定那些华美议事厅的地址。

5.85.13

ततो देशेषु देशेषु रमणीयेषु भागशः ।
सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ॥ ५.८५.१३ ॥

随后在各个宜人的地方,分别建造了许多充满各种珍宝的议事厅。

5.85.14

आसनानि विचित्राणि युतानि विविधैर्गुणैः ।
स्त्रियो गन्धानलङ्कानारान्सूक्ष्माणि वसनानि च ॥ ५.८५.१४ ॥

装饰各种精美品质的奇异座椅、女子、香料、饰物和精细的衣服。

5.85.15

गुणवन्त्यन्नपानानि भोज्यानि विविधानि च ।
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ॥ ५.८५.१५ ॥

上好的饮食、各式佳肴和芬芳的花环——国王随后将这一切赐予了众人。

5.85.16

विशेवतश्च वासार्थं सभां ग्रामे वृकस्थले ।
विदधे कौरवो राजा बहुरत्नां मनोरमाम् ॥ ५.८५.१६ ॥

特别是为了居住,在Vṛkasthala村,考拉瓦国王安排了一座充满珍宝、令人愉悦的议事厅。

5.85.17

एतद्विधाय वै सर्वं देवार्हमतिमानुषम् ।
आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा ॥ ५.८५.१७ ॥

杜尔约达那王将这一切安排得适合天神、超越凡俗,然后便向持国王禀报了。

5.85.18

ताः सभाः केशवः सर्वा रत्नानि विविधानि च ।
असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् ॥ ५.८५.१८ ॥

达沙尔诃之子克沙瓦甚至没有察看那些议事厅和各种珍宝,便径直走向了俱卢的居所。