Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.87

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.87.1

राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः ।
संभावितश्च लोकस्य संमतश्चासि भारत ॥ ५.८७.१ ॥

君王啊,你即使在三界中也备受敬重,是善人中的最优秀者。婆罗多之后啊,你受世人尊崇,为众人所认可。

5.87.2

यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः ।
शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि ॥ ५.८७.२ ॥

你已处于人生的晚年,因此在此情形下你所说的话,无论依据经典还是良好的推理,都会非常坚定可靠,因为你是长者。

5.87.3

लेखा शशिनिभाः सूर्ये महोर्मिरिव सागरे ।
धर्मस्त्वयि तथा राजन्निति व्यवसिताः प्रजाः ॥ ५.८७.३ ॥

君王啊,正如月的纹路在太阳中,巨浪在海洋中,法也确立于你之中;因此臣民依赖于你。

5.87.4

सदैव भावितो लोको गुणौघैस्तव पार्थिव ।
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः ॥ ५.८७.४ ॥

君王啊,世界始终受到你诸多美德的滋养。应当与亲族一道,恒常努力守护这些美德。

5.87.5

आर्जवं प्रतिपद्यस्व मा बाल्याद्ब्रहु नीनशः ।
राजन्पुत्रांश्च पौत्रांश्च सुहृदश्चैव सुप्रियान् ॥ ५.८७.५ ॥

应当持守正直,不要因孩童般的愚昧而毁掉许多东西。君王啊,不要毁掉你的儿子、孙子,以及你最亲爱的朋友。

5.87.6

यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु ।
एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति ॥ ५.८७.६ ॥

君王啊,你想作为客人大量赠予克里希那的这些以及其他东西——达沙尔哈的后裔即使配得大地本身。

5.87.7

न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात् ।
एतद्दित्ससि कृष्णाय सत्येनात्मानमालभे ॥ ५.८७.७ ॥

但你并非为了法,也非为取悦他而将此给予黑天。我以真理发誓,触摸自身为证。

5.87.8

मायैषा सत्यमेवैतच्छद्मैतद्भूरिदक्षिणा ।
जानामि त्वन्मतं राजन्गूढं बाह्येन कर्मणा ॥ ५.८७.८ ॥

这是幻术;虽似真实,实则诡计,这盛大的布施只是伪装。大王,我知道你藏在外在行为之下的隐秘用意。

5.87.9

पञ्च पञ्चैव लिप्स्यन्ति ग्रामकान्पाण्डवा नृप ।
न च दित्ससि तेभ्यस्तांस्तच्छमं न करिष्यसि ॥ ५.८७.९ ॥

大王,般度之子只会各求五个村庄;你却不愿给予他们,因此你不会与他们讲和。

5.87.10

अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि ।
अनेन चाप्युपायेन पाण्डवेभ्यो विभेत्स्यसि ॥ ५.८७.१० ॥

你想以财富夺取大臂的瓦尔什涅耶(黑天);而借此方式,你也会与般度之子分离。

5.87.11

न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया ।
अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते ॥ ५.८७.११ ॥

他不能以财富、努力或责备得到;除了财胜(阿周那),无人能做到——这真理我告诉你。

5.87.12

वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम् ।
अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम् ॥ ५.८७.१२ ॥

我知道黑天的伟大,也知道他坚定的虔诚;我知道财胜与他的生命同等,他不可舍弃。

5.87.13

अन्यत्कुम्भादपांपूर्णादन्यत्पादावसेचनात् ।
अन्यत्कुशलसंप्रश्नान्नैवेक्ष्यति जनार्दनः ॥ ५.८७.१३ ॥

除了盛满水的水罐、洗脚和问候安好之外,遮那陀那不会要求别的。

5.87.14

यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः ।
तदस्मै क्रियतां राजन्मानार्होऽसौ जनार्दनः ॥ ५.८७.१४ ॥

大王啊,这位大德所喜爱的款待,就为他准备吧;遮那陀那配得上尊敬。

5.87.15

आशंसमानः कल्याणं कुरूनभ्येति केशवः ।
येनैव राजन्नर्थेन तदेवास्मा उपाकुरु ॥ ५.८७.१५ ॥

大王啊,怙世尊怀着祈求吉祥之心前来拜见俱卢族;请按照他前来的目的为他安排。

5.87.16

शममिच्छति दाशार्हस्तव दुर्योधनस्य च ।
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु ॥ ५.८७.१६ ॥

王中之王啊,十部族之主希望你、难敌与般度诸子之间和平;所以请遵从他的话。

5.87.17

पिताऽसि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे ।
वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् ॥ ५.८७.१७ ॥

大王啊,你是父亲;你的儿子和其他人都是孩子。你年老了;请像父亲一样对待他们,因为他们也像儿子一样对待你。