Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.88

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.88.1

यदाह विदुरः कृष्णे सर्वं तत्सत्यमच्युते ।
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ॥ ५.८८.१ ॥

維杜羅關於克里希那所說的一切都是真實的:遮那陀那熱愛普利塔之子,無法使他轉向。

5.88.2

यत्तत्सत्कारसंयुक्तं देयं वसु जनार्दने ।
अनेकरूपं राजेन्द्र न तद्देयं कदाचन ॥ ५.८८.२ ॥

有多種財物應當以敬意奉獻給遮那陀那;但是,王中之王啊,那些絕不可給予。

5.88.3

देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः ।
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ॥ ५.८८.३ ॥

此地此時不合適,羯舍婆不值得如此尊敬。大王啊,無感官者會以為我是因畏懼而敬他。

5.88.4

अवमानश्च यत्र स्यात्क्षत्रियस्य विशांपते ।
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ॥ ५.८८.४ ॥

人民之主啊,凡會使剎帝利受辱之事,智者不應去做——這是我堅定的看法。

5.88.5

स हि पूज्यतमो लोके कृष्णः पृथुललोचनः ।
त्रयाणामपि लोकानां विदितं मम सर्वथा ॥ ५.८८.५ ॥

那位眼睛寬大的克里希那,是世上最值得尊敬的;此事在三界之中我完全知道。

5.88.6

न तु तस्मै प्रदेयं स्यात्तथा कार्यगतिः प्रभो ।
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ॥ ५.८८.६ ॥

然而不應給他任何東西,主公啊,事情的進程本就如此。敵意已經挑起,不捨棄敵意,它便不會平息。

5.88.7

तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः ।
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् ॥ ५.८८.७ ॥

库鲁祖父毗湿摩听了他的话,对毗其特拉维利亚之子国王说了这番话。

5.88.8

सत्कृतोऽसत्कृतो वाऽपि न क्रुध्येत जनार्दनः ।
नावमंस्यत्यवज्ञातॄनवज्ञातोऽपि केशवः।
नालमेनमवज्ञातुं नावज्ञेयो हि केशवः ॥ ५.८८.८ ॥

无论受到尊敬还是侮辱,遮那陀那都不会发怒。即使被轻视,他也不会轻视那些轻视他的人,因为不可轻视凯沙婆。

5.88.9

यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् ।
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ॥ ५.८८.९ ॥

但是,啊,大臂者,心中已经决定的事情,任何人以任何方法都无法改变其做法。

5.88.10

स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया ।
वासुदेवेन तीर्थेन क्षिप्रं संशाभ्य पाण्डवैः ॥ ५.८८.१० ॥

那位大臂者所说的,应当毫不犹豫地去做:通过瓦苏提婆,以正当的途径,迅速与般度之子们和解。

5.88.11

धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः ।
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ॥ ५.८८.११ ॥

正直的遮那陀那必定会说出合乎法义而有益的话。因此,你应当与亲属一起,对他说些悦耳的话。

5.88.12

न पर्याप्तोस्मि यद्राजञ्श्रियं निष्केवलामहम् ।
तैः सहेमामुपाश्रीयां यावज्जीवं पितामह ॥ ५.८८.१२ ॥

陛下,我不满足于独自享有这份王权的繁荣。祖父啊,我想与他们一起,终生享受它。

5.88.13

इदं तु सुमहत्कार्यं श्रुणु मे यत्समर्थितम् ।
परायणं पाण्डवानां नियच्छामि जनार्दनम् ॥ ५.८८.१३ ॥

这是一件大事,我已经筹划妥当,请听我说。我将束缚那作为般度之子依靠的遮那陀那。

5.88.14

तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा ।
पाण्डवाश्च विधेया मे स च प्रातरिहैप्यति ॥ ५.८८.१४ ॥

他被束缚之后,毗湿尼族、大地以及般度之子都将听命于我;而他明早会来到这里。

5.88.15

अत्रोपायान्यथा सम्यङ्न बुद्ध्येत जनार्दनः ।
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ॥ ५.८८.१५ ॥

此事应当有妙计,使遮那陀那不能完全察觉,且不会带来任何祸患;请您告诉我。

5.88.16

तस्य तद्वचनं श्रुत्वा घोरं कृष्णेऽभिसंहितम् ।
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ॥ ५.८८.१६ ॥

听了他针对黑天而策划的可怕言语,持国王与大臣们一同痛苦而沮丧。

5.88.17

ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः ।
मैवं वोचः प्रजापाल नैष धर्मः सनातनः ॥ ५.८८.१७ ॥

于是持国王对难敌说了这些话:"治理民众的人啊,不要这样说;这不是永恒的法。"

5.88.18

दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः ।
अपापः कौरवेयेषु स कथं बन्धमर्हति ॥ ५.८८.१८ ॥

希瑞犍尼迦是使者,是我们的亲属和亲爱之人,对俱卢族并无过错;他怎么配受束缚呢?

5.88.19

परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः ।
वृणोत्यनर्थं नैवार्थं याच्यमानः सुहृज्जनैः ॥ ५.८८.१९ ॥

德拉什特拉啊,你这个愚钝至极的儿子被四面包围。尽管善意的朋友恳求他,他却选择毁灭而非利益。

5.88.20

इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम् ।
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ॥ ५.८८.२० ॥

此人行于歧途,是作恶之人,带来罪孽;而你也抛弃朋友的忠言,随他而行。

5.88.21

कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः ।
तव पुत्रः सहामात्यः क्षणेन न भविष्यति ॥ ५.८८.२१ ॥

若与行事毫不费力的克里希那相对,你这极为愚昧的儿子连同他的大臣,将在顷刻之间不复存在。

5.88.22

पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः ।
नोत्सहेऽनर्थसंयुक्ताः श्रोतुं वाचः कथंचन ॥ ५.८८.२२ ॥

这个罪人、残忍之徒、弃绝法义的愚昧之人,其带来毁灭的言辞,我无论如何也不愿听闻。

5.88.23

इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् ।
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ॥ ५.८८.२३ ॥

说完这些,婆罗多族的至尊、年迈而极为愤慨、真正勇武的毗湿摩便从那里起身离去。