摩诃婆罗多 · 章 5.89
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.89.1
प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम् ।
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ॥ ५.८९.१ ॥
黎明时分,克里希纳起身完成了所有日常仪式,在婆罗门们允许之后,动身前往城市。
5.89.2
तं प्रयान्तं महाबाहुमनुज्ञाप्य महाबलम् ।
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ॥ ५.८९.२ ॥
在那位大臂、大力者启程时向他告别后,伏栗迦斯陀罗的所有居民都转身回去了。
5.89.3
प्रददौ पुण्डरीकाक्षो रत्नानि च धनानि च ।
तान्प्रस्थाप्य महाबाहुरुपायात्कुरुसंसदम् ॥ ५.८९.३ ॥
莲花眼者赠予珠宝与财富;送走他们之后,大臂者前往俱卢的集会。
5.89.4
धार्तराष्ट्रास्तमायान्तं प्रत्युञ्जग्मुः स्वलङ्कृताः ।
दुर्योधनादृते सर्वे भीष्मद्रोणकृपादयः ॥ ५.८९.४ ॥
除了难敌,持国百子与毗湿摩、德罗纳、克里帕等人都盛装出迎,迎接他的到来。
5.89.5
पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः ।
यानैर्बहुविधैरन्ये पद्भिरेव तथाऽपरे ॥ ५.८९.५ ॥
大王啊,许多城中百姓渴望见到希利希凯莎,有人乘坐各式车辆而来,也有人步行前来。
5.89.6
स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा ।
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ॥ ५.८९.६ ॥
途中他遇见了行事不知疲倦的毗湿摩和德罗纳,在持国百子的簇拥下前往城中。
5.89.7
कृष्णसंमाननार्थं च नगरं समलङ्कृतम् ।
बभूव राजमार्गश्च बहुरत्नसमाचितः ॥ ५.८९.७ ॥
为了向黑天致敬,全城装饰一新,王家大道上堆满了许多珍宝。
5.89.8
न च कश्चिद्गृहे राजंस्तदाऽऽसीद्भरतर्षभ ।
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ॥ ५.८९.८ ॥
大王啊,婆罗多族之雄牛啊,那时为了见到婆苏提婆,家中无人留守——无论妇女、老人还是孩童。
5.89.9
राजमार्गे नरास्तस्मिन्संस्तुवन्त्यवनिं गताः ।
तस्मिन्काले महाराज हृषीकेशप्रवेशने ॥ ५.८९.९ ॥
大王啊,在那条王家大道上,前往的人们俯身于地,赞颂着那时希利希开舍的入城。
5.89.10
आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि ।
प्रचलन्तीव भारेण दृश्यन्तेस्म महीतले ॥ ५.८९.१० ॥
即使是极为高大的房屋,也被众多美貌的妇女所覆盖,在重压之下仿佛在颤动,显现于大地之上。
5.89.11
तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः ।
प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते ॥ ५.८९.११ ॥
同样,婆苏提婆的马匹虽能奔行,却在王家大道上被人群包围,失去了行进的速度。
5.89.12
स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः ।
पाण्डुरैः पुण्डरीकाक्षः प्रासादैरुपशोभितम् ॥ ५.८९.१२ ॥
这位使敌人苦恼的莲花眼者,走进了装饰着白色殿宇的持国之宅。
5.89.13
तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः ।
वैचित्रवीर्यं राजानमभ्यगच्छदरिन्दमः ॥ ५.८९.१३ ॥
克舍婆穿过王宫的三道庭院,这位制服敌人者走近了毗遮提罗跋耶之子国王。
5.89.14
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नराधिपः ।
तहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥ ५.८९.१४ ॥
当达舍尔哈(黑天)走近时,这位名声远播的盲王与德罗纳、毗湿摩一同起身。
5.89.15
कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः ।
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥ ५.८९.१५ ॥
克利巴、索摩达多、大王与跋喜迦都从座位上起身,向遮那陀那致敬。
5.89.16
ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम् ।
सभीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा ॥ ५.८९.१६ ॥
随后,他走近著名的国王持国,与毗湿摩一同以恰当的言辞向他致敬。
5.89.17
तेषु धर्मानुपूर्वी तां प्रयुज्य मधुसूदनः ।
यथावयः समीयाय राजभिः सह माधवः ॥ ५.८९.१७ ॥
他依照职责的礼序对待众人,摩豆苏陀那,摩陀婆,依年长幼之次序拜会诸王。
5.89.18
अथ द्रोणं सबाह्लीकं सपुत्रं च यशस्विनम् ।
कृपं च सोमदत्तं च समीयाय जनार्दनः ॥ ५.८९.१८ ॥
随后,遮那陀那拜会了名声显赫的德罗纳,与跋喜迦及其子,以及克利巴与索摩达多。
5.89.19
तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् ।
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ॥ ५.८९.१९ ॥
那里依照持国王之命,设有一个高大、打磨光亮的大金座;不朽者(黑天)便坐在上面。
5.89.20
अथ गां मधुपर्कं चाप्युदकं च जनार्दने ।
उपजह्नुर्यथान्यायं धृतराष्ट्रपुरोहिताः ॥ ५.८९.२० ॥
随后,持国王的祭司依照礼法向阁楼陀那(黑天)奉上一头牛、蜜糖饮(madhuparka)和水。
5.89.21
कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् ।
आस्ते सांबन्धिकं कुर्वन्कुरुभिः परिवारितः ॥ ५.८९.२१ ॥
受到款待的戈文达(黑天)在那里停留,被诸库鲁围绕,履行亲族之责,仿佛在嘲笑所有的库鲁。
5.89.22
सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः ।
राजानं समनुज्ञाप्य निरक्रामदरिन्दमः ॥ ५.८९.२२ ॥
那位受持国王尊敬礼拜的大名者、降伏敌人者,向国王告辞后离去。
5.89.23
तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि ।
विदुरावसथं रम्यमुपातिष्ठत माधवः ॥ ५.८९.२३ ॥
摩陀婆(黑天)依礼与库鲁诸人在库鲁议会中会面后,前往维杜罗那优美的住所。
5.89.24
विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् ।
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् ॥ ५.८९.२४ ॥
维杜罗带着一切吉祥之物走近阁楼陀那(黑天),礼敬了带着一切所愿之物到来的达沙尔哈后裔。
5.89.25
कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् ।
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ॥ ५.८९.२५ ॥
精通一切法的毗杜罗接受了款待后,向摩图苏陀那(歌文达)询问般度诸子的安好。
5.89.26
प्रीयमाणस्य सुहृदो विदुरो बुद्धिसत्तमः ।
धर्मार्थनित्यस्य सतो गतरोवस्य धीमतः ॥ ५.८९.२६ ॥
智慧最卓越的毗杜罗,那位欣然的挚友——他始终专注于法与利,是善人,远离忧愁,睿智。
5.89.27
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् ।
क्षत्तुराचष्ट दाशार्हः सर्वं प्रत्यक्षदर्शिवान् ॥ ५.८९.२७ ॥
达萨尔哈(克里希纳)将般度五子的一切行为详细地告诉了毗杜罗,因为他亲眼目睹了一切。