Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 5.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.9.1

कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना ।
दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ॥ ५.९.१ ॥

王中之王啊,伟大的因陀罗与其妻子如何遭受这极大而可怕的苦难?我想知道。

5.9.2

शृणु राजन्पुरावृत्तमितिहासं पुरातनम् ।
सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ॥ ५.९.२ ॥

王啊,请听古老的往事,婆罗多之后啊,因陀罗与妻子如何遭受苦难。

5.9.3

त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।
स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ॥ ५.९.३ ॥

生主特瓦什特里确实是诸神中最优秀、苦行极大的。据说,出于对因陀罗的敌意,他创造了一个三头之子。

5.9.4

ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः ।
तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ॥ ५.९.४ ॥

光辉灿烂的毗首罗波渴望因陀罗之位,以那三张如日、月、火般可怖的脸。

5.9.5

वेदानेकेन सोऽधीते सुरामेकेन चापिबत् ।
एकेन च दिशः सर्वाः पिबन्निव निरीक्षते ॥ ५.९.५ ॥

他以一张嘴诵读吠陀,以一张嘴饮酒,以一张嘴环视四方,仿佛在饮尽它们。

5.9.6

स तपस्वी मुदुर्दान्तो धर्मे तपसि चोद्यतः ।
तपस्तस्य महत्तीव्रं सुदुश्चरमरिन्दम ॥ ५.९.६ ॥

他是苦行者,难以制服,专注于法与苦行。敌人的征服者啊,他的苦行伟大、猛烈而极其艰难。

5.9.7

तस्य दृष्ट्वा तपोवीर्यं सत्यं चामिततेजसः ।
विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ॥ ५.९.७ ॥

因果然见其苦行之力与真实,无量光明者的力量令因陀罗忧惧,心想:“愿此人不要成为因陀罗。”

5.9.8

कथं सज्जेच्च भोगेषु न च तप्येन्महत्तपः ।
विवर्धमानस्त्रिशिराः सर्वं हि भुवनं ग्रसेत् ॥ ५.९.८ ॥

他怎会不沉溺于享乐,又怎会不被大苦行所煎熬?那日渐增长的三头者将吞噬整个世界。

5.9.9

इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ ।
आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ॥ ५.९.९ ॥

婆罗多族的雄牛啊,智者如此多方思量后,便命令天女们去诱惑特瓦什特里之子。

5.9.10

यथा स सज्जेत्रिशिराः कामभोगेषु वै भृशम् ।
क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥ ५.९.१० ॥

为使三头者极度沉溺于欲望与享乐,你们快去,毫不迟延地诱惑他。

5.9.11

शृङ्गारवेषाः सुश्रोण्यो हारैर्युक्ता मनोहरैः ।
हावभावसमायुक्ताः सर्वाः सौन्दर्यशोभिताः ॥ ५.९.११ ॥

盛装于爱欲的装束,腰肢婀娜,佩戴迷人的项链,充满娇媚的姿态,个个以美貌而光彩照人。

5.9.12

प्रलोभयत भद्रं वः शमयध्वं भयं मम ।
अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः ॥ ५.९.१२ ॥

去诱惑他吧,愿你们吉祥;请平息我的恐惧。美好的女子们啊,我觉得自己身心不安。

5.9.13

भयं तन्मे महाघोरं क्षिप्रं नाशयताबलाः ।
तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने।
यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ॥ ५.९.१३ ॥

那恐惧对我而言极为可怖;诸位弱女,请迅速将其消除。帝释啊,我们将如此努力地诱惑他,使您不会遭遇恐惧;因此,啊,毁灭力量者。

5.9.14

निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः ।
तं प्रलोयितुं देव गच्छामः सहिता वयम् ॥ ५.९.१४ ॥

那坐在那里、仿佛以双眼燃烧的人,是苦行的宝藏;天神啊,我们一同前去诱惑他。

5.9.15

यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् ।
इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम्।
तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ॥ ५.९.१५ ॥

我们将努力使他屈服,并消除你的恐惧。得到因陀罗的允许,她们来到三头身边;在那里,这些优秀的女子以种种姿态诱惑他。

5.9.16

नृत्तं संदर्शयामासुस्तथैवाङ्गेषु सौष्ठवम् ।
नाभ्यगच्छत्प्रहर्षं ताः स पश्यन्सुमहातपाः ॥ ५.९.१६ ॥

她们展示了舞蹈,也同样展示了肢体的优美;然而那位大苦行者虽看着她们,却未生欢喜。

5.9.17

इन्द्रियाणि वशे कृत्वा पूर्णसागरसन्निभः ।
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः ॥ ५.९.१७ ॥

他制服了诸根,犹如充盈的大海般安然不动;于是她们竭尽全力,再次来到帝释面前。

5.9.18

कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ।
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो ॥ ५.९.१८ ॥

她们都合掌对天王说:「啊,主上,他极难征服;无法以坚定使他动摇。」

5.9.19

यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् ।
संपूज्याप्सरसः शक्रो विसृज्य च महामतिः ॥ ५.९.१९ ॥

大福之人啊,现在请做你该做的事。大智的因陀罗敬礼天女之后,将她们遣散。

5.9.20

चिन्तयामास तस्यैव वधोपायं युधिष्ठिर ।
स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् ॥ ५.९.२० ॥

युधिष्ठिर啊,他思考如何杀死他。英勇而威严的天神之王默默沉思。

5.9.21

विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् ।
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं नभविष्यति ॥ ५.९.२१ ॥

智慧的因陀罗决心杀死三头者。“我现在就向他投掷金刚杵;他很快就会消失。”

5.9.22

शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा ।
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् ॥ ५.९.२२ ॥

强大者不可轻视已壮大的敌人,即使他弱小。依照经典的智慧作出决定后,应坚定地决心将其杀死。

5.9.23

अथ वैश्वानरनिभं घोररूपं भयावहम् ।
मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति ॥ ५.९.२३ ॥

于是愤怒的因陀罗向三头者投出金刚杵,它如毗舍那罗之火,形貌可怖,令人恐惧。

5.9.24

स पपात हतस्तेन वज्रेण दृढमाहतः ।
पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ॥ ५.९.२४ ॥

他被那金刚杵猛烈击中而倒下,如同山峰被击碎、坠落于大地之上。

5.9.25

तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् ।
न शर्म लेभे देवेन्द्रो दीपिततस्तस्य तेजसा ॥ ५.९.२५ ॥

因子被金刚杵击中,如山岳般倒卧,天神之主因子那仍闪耀的光辉而无法安宁。

5.9.26

हतोऽपि दीप्ततेजाः स जीवन्निव हि दृश्यते ।
घातितस्य शिरांस्याजौ जीवन्तीवाद्भुतानि वै ॥ ५.९.२६ ॥

虽已被杀,他仍闪耀光辉,仿佛活着一般;他在战中被斩下的头颅,也奇异地如同活着。

5.9.27

शिरांसि तस्याजायन्त त्रीण्येव शकुनास्त्रयः ।
तित्तिरिः कलविङ्कश्च तथैव च कपिञ्जलः ।
विश्वरूपशिरांस्येव जायन्ते तानि भारत ॥ ५.९.२७ ॥

他的头颅化为三只鸟:鹧鸪、麻雀与雉。婆罗多之子啊,那些正是毗湿奴形(毗首罗波)之头。

5.9.28

ततोऽतिभीतगात्रस्तु शक्र आस्ते विचारयन् ।
अथाजगाम परशुं स्कन्धेनादाय वर्धकिः ॥ ५.९.२८ ॥

于是因陀罗惊惧战栗,沉思不语;此时,一名木匠肩扛斧头走了过来。

5.9.29

तदरण्यं महाराज यत्रास्तेऽसौ निपातितः ।
स भीतस्तत्र तक्षाणं घटमानं शचीपतिः ॥ ५.९.२९ ॥

大王啊,在那片他倒下的森林里,惊惧的舍遮之夫看见那名木匠正在费力地劳作。

5.9.30

अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः ।
क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ॥ ५.९.३० ॥

惩罚巴迦的因陀罗看见他,急忙说道:“快砍下他的头颅,遵从我的命令!”

5.9.31

महास्कन्धो भृशं ह्येष परशुर्नभविष्यति ।
कर्तुं चाहं न शक्ष्यामि कर्म राद्भिर्विगर्हितम् ॥ ५.९.३१ ॥

他的肩膀极其宽大,这把斧头不足以完成。我不能做那被成功的诸神所谴责的事。

5.9.32

मा भैस्त्वं शीघ्रमेतद्वै कुरुष्व वचनं मम ।
मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ॥ ५.९.३२ ॥

不要害怕;快去做这件事,听从我的话。凭我的恩惠,你的武器将如金刚杵一般。

5.9.33

कं भवन्तमहं विद्यां घोरकर्माणमद्य वै ।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ॥ ५.९.३३ ॥

今日我应当认识你是哪一位行可怕之事的人?我真心想听,请如实告诉我。

5.9.34

अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते ।
कुरुष्वैतद्यथोक्तं मे तक्षन्माऽत्र विचारय ॥ ५.९.३४ ॥

我是因陀罗,诸神之王。让你知道这一点,木匠。照我所说的去做;木匠,不要犹豫此事。

5.9.35

मया हि निहतः शेते त्रिशिरास्त्वं च विद्वि वै ।
स प्रह्वः प्राञ्जलिर्भूत्वा इदं वचनमब्रवीत् ॥ ५.९.३५ ॥

三头者已被我杀死,躺在那里;你应当知道。他俯首合掌,说出了这番话。

5.9.36

क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा ।
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ॥ ५.९.३६ ॥

噢,帝释,你为何不因这残忍之举而羞愧?杀了这位仙人之子,你难道不怕杀害婆罗门的罪过吗?

5.9.37

पश्चाद्धर्मं चरिष्यामि पावनार्थ सुदुश्चरम् ।
शत्रुरेष महावीर्यो वज्रेण निहतो मया ॥ ५.९.३७ ॥

此后我将为了净化而修持极难的法。这位大力之敌已被我以金刚杵击杀。

5.9.38

अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै ।
क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ॥ ५.९.३८ ॥

即使现在我仍因他而惶恐不安。木匠啊,快快砍下他的头颅;我将赐你恩惠。

5.9.39

शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः ।
एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् ॥ ५.९.३९ ॥

在祭祀中,人们将把祭牲之首的一份归于你。这便是你的恩惠。木匠啊,快快做我所喜爱之事。

5.9.40

एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनात्तदा ।
शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा ॥ ५.९.४० ॥

木匠听闻此言,遵从摩亨德罗的命令,便以斧砍下了三头者的头颅。

5.9.41

निकृत्तेषु ततस्तेषु निष्क्रामन्नण्डजास्त्वथ ।
कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ॥ ५.९.४१ ॥

它们被斩断后,从四面八方飞出了卵生的鸟类:鹧鸪、雉鸡和麻雀。

5.9.42

येन वेदानधीते स्म पिबते सोममेव च ।
तस्माद्वक्रार्द्विनिश्चेरुः क्षिप्रं तस्य कपिञ्जलाः ॥ ५.९.४२ ॥

他用来诵读吠陀、饮用苏摩的那张嘴中,他的鹧鸪鸟迅速飞出。

5.9.43

येन सर्वा दिशो राजन्पिबन्निव नीरीक्षते ।
तस्माद्वक्राद्विनिश्चेरुस्तित्तिरास्तस्य पाण्डव ॥ ५.९.४३ ॥

大王啊,他那张仿佛要饮尽四方的嘴里,般度之子啊,飞出了他的鹧鸪。

5.9.44

यत्सुरापं तु तस्यासीद्वक्रं त्रिशिरसस्तदा ।
कलविङ्काः समुत्पेतुः श्येनाश्च भरतर्षभ ॥ ५.९.४४ ॥

三头者的那张饮酒之口,当时便是如此;婆罗多族的雄牛啊,麻雀和鹰便飞了起来。

5.9.45

ततस्तेषु निकृत्तेषु विज्वरो मघवानथ ।
तक्ष्णे तथा वरं दत्त्वा प्रहृष्टस्त्रिदशेश्वरः ॥ ५.९.४५ ॥

于是,当它们被斩断之后,摆脱了热病的摩ghavan,诸神之主,赐予德叉迦一个恩惠后,心中欢喜。

5.9.46

जगाम त्रिदिवं देवस्तक्षाऽपि स्वगृहान्ययौ ।
मेने कृतार्थमात्मानं हत्वा शत्रुं सुरारिहा ॥ ५.९.४६ ॥

天神前往天界,德叉迦也回到了自己的家;诸天之敌的杀手,在杀死敌人后,自认为已达成所愿。

5.9.47

तक्षापि स्वगृहं गत्वा नैव शंसति कस्यचित् ।
अथैनं नाभिजानन्ति वर्षमेकं तथागतम् ॥ ५.९.४७ ॥

德叉迦回到自己家中后,也不对任何人说;一年之中,无人认出如此离去的他。

5.9.48

अथ संवत्सरे पूर्णे भूताः पशुपतेः प्रभो ।
तमाक्रोशन्त मघवान्नः प्रभुर्ब्रह्महा इति। ॥ ५.९.४८ ॥

于是,一年期满之时,主啊,帕舒帕蒂(湿婆)的众生诅咒他道:“我们的主、摩qhavan(因陀罗)是杀婆罗门者。”

5.9.49

तत इन्द्रो व्रतं घोरमाचरत्पाकशासनः ।
तपसा च सुसंयुक्तः सह देवैर्मरुद्गणैः ॥ ५.९.४९ ॥

于是帝释天(破脚者之统御者)发下可怕的誓愿,与苦行相应,与诸天及摩录多众一同。

5.9.50

समुद्रेषु पृथिव्यां च वनस्पतिषु स्त्रीषु च ।
विभज्य ब्रह्महत्यां च तान्वरैरप्ययोजयत् ॥ ५.९.५० ॥

将杀婆罗门之罪分配给海洋、大地、树木与女人,并以恩赐使之承担。

5.9.51

वरदस्तु वरं दत्त्वा पृथिव्यै सागराय च ।
वनस्पतिभ्यः स्त्रीभ्यश्च ब्रह्महत्यां नुनोद ताम् ॥ ५.९.५१ ॥

赐予者授予大地、海洋、树木与女人恩赐后,便将杀婆罗门之罪驱入其中。

5.9.52

ततस्तु शुद्धो भगवान्देवैर्लोकैश्च पूजितः ।
इन्द्रस्थानमुपातिष्ठत्पूज्यमानो महर्षिभिः ॥ ५.९.५२ ॥

于是清净的世尊帝释,受诸天与诸世界礼敬,受大仙们尊崇,前往帝释之位。

5.9.53

त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् ।
क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥ ५.९.५३ ॥

生主特瓦湿多闻其子为帝释所杀,怒目赤红,于是说出此言。

5.9.54

तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् ।
विनाऽपराधेन यतः पुत्रं हिंसितवान्मम ॥ ५.९.५४ ॥

我那恒常苦行、宽忍、自制、调伏诸根的儿子,你无有过失而将他杀害。

5.9.55

तस्माच्छक्रविनाशाय वृत्रमुत्पादयाम्यहम् ।
लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महम् ।
स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ॥ ५.९.५५ ॥

因此,为了毁灭因陀罗(Śakra),我将造出弗栗多(Vṛtra)。愿众世界看见我的威力与苦行之力。愿那心术邪恶、罪恶意念的天神之王也看见。

5.9.56

उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः ।
अग्नौ हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ॥ ५.९.५६ ॥

于是,那位愤怒的、名声极大的苦行者漱口净身,向火中献供,造出可怖的弗栗多,并对他说道。

5.9.57

इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम ।
सोऽवर्घत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः ॥ ५.९.५७ ॥

“愿你凭借我的苦行之力增长,因陀罗的敌人啊!”他便增长起来,充满天空,如太阳与吠舍婆那火一般。

5.9.58

किं करोमीति चोवाच कालसूर्य इवोदितः ।
शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ॥ ५.९.५८ ॥

他说:“我该做什么?”他如末日之日升起。被告知“杀死舍克罗”之后,他便前往三界而去。

5.9.59

ततो युद्धं समभवद्वृत्रवासवयोर्महत् ।
संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम ॥ ५.९.५९ ॥

于是弗栗多与婆娑婆(因陀罗)之间爆发了大战。两人都十分愤怒;库卢族中最杰出者啊,那场战斗极为可怖,且持续不断。

5.9.60

ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् ।
अपावृत्याक्षिपद्वक्रे शक्रं कोपसमन्वितः ॥ ५.९.६० ॥

于是英雄弗栗多抓住了诸神之王舍多俱胝(因陀罗)。他怒火填胸,张开大口,将舍克罗投入其中。

5.9.61

ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदिवेश्वराः ।
असृजंस्ते महासत्वा जृम्भिकां वृत्रनाशिनीम् ॥ ५.९.६१ ॥

当弗栗多抓住因陀罗时,天界之主们惊慌失措;那些大力者创造了能毁灭弗栗多的哈欠。

5.9.62

विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात् ।
स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलनाशनः ॥ ५.९.६२ ॥

那时,弗栗多打哈欠,口张开了,毁灭力量者收缩自己的肢体,走了出来。

5.9.63

ततः प्रभृति लोकस्य जृम्भिका प्राणिसंश्रिता ।
जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिःसृतम् ॥ ५.९.६३ ॥

从那时起,居于众生之中的哈欠便留在了世间;诸神见因陀罗走出,全都欢喜。

5.9.64

ततः प्रववृते युद्धं वृत्रवासवयोः पुनः ।
संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ॥ ५.९.६४ ॥

于是弗栗多与婆薮之间的战斗再次爆发;那二位愤怒者之间的可怕搏斗持续了很久,婆罗多族的雄牛啊。

5.9.65

यदा व्यवर्धत रणे वृत्रो बलसमन्वितः ।
त्वष्टुस्तेजोबलाविद्धस्तदा शक्रो न्यवर्तत। ॥ ५.९.६५ ॥

当拥有力量的弗栗多在战场上壮大时,因陀罗被特瓦什特里的光辉与力量所击,便转身退却。

5.9.66

निवृत्ते च तदा देवा विषादमगमन्परम् ।
समेत्य सह शक्रेण त्वष्टुस्तेजोविमोहिताः ॥ ५.९.६६ ॥

因陀罗退却之后,诸神陷入极深的绝望;他们与因陀罗相聚,又被特瓦什特里的光辉所迷惑,沉入了悲伤。

5.9.67

अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत ।
किं कार्यमिति वै राजन्विचिन्त्य भयमोहिताः ॥ ५.९.६७ ॥

婆罗多的后裔啊,那时众天神与诸仙人商议。国王啊,他们被恐惧所迷惑,思量此时该做什么。

5.9.68

जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् ।
उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ॥ ५.९.६८ ॥

他们都以心念前往伟大不朽的毗湿奴那里。渴望杀死弗栗多的众神,都坐在曼陀罗山的山顶上。