摩诃婆罗多 · 章 5.98
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.98.1
मातलिस्तु व्रजन्मार्गे नारदेन महर्षिणा ।
वरुणं गच्छता द्रष्टुं समागच्छद्यदृच्छया ॥ ५.९८.१ ॥
摩多梨行于路上,偶然遇见了前往拜见伐楼那的大仙那罗陀。
5.98.2
नारदोऽथाब्रवीदेनं क्व भवान्गन्तुमुद्यतः ।
स्येन वा सूत कार्येण शासनाद्वा शतक्रतोः ॥ ५.९८.२ ॥
那罗陀于是问他:“御者,你打算去哪里?是为自己的事,还是奉百祭(因陀罗)之命?”
5.98.3
मातलिर्नारदेनैवं संपृष्टः पथि गच्छता ।
यथावत्सर्वमाचष्ट स्वकार्यं नारदं प्रति ॥ ५.९८.३ ॥
摩多梨在路上被那罗陀如此询问,便将自己的差事原原本本地告诉了那罗陀。
5.98.4
तमुवाचाथ स मुनिर्गच्छावः सहिताविति ।
सलिलेशदिदृक्षार्थमहमप्युद्यतो दिवः ॥ ५.९८.४ ॥
那位仙人于是对他说:“我们一同去吧。我也从天界出发,要去见水神之主。”
5.98.5
अहं ते सर्वमाख्यास्ये दर्शयन्वसुधातलम् ।
दृष्ट्वा तत्र वरं कंचिद्रोचयिष्याव मातले ॥ ५.९८.५ ॥
我会把一切都告诉你,并为你指示大地表面;我们在那里看过之后,再选择某种恩惠吧,摩多梨。
5.98.6
अवगाह्य तु तौ भूमिमुभौ मातलिनारदौ ।
ददृशाते महात्मानौ लोकपालमपां पतिम् ॥ ५.९८.६ ॥
随后,二位大德的摩多梨与那罗陀进入大地,看见了世界守护者、水之主伐楼那。
5.98.7
तत्र देवर्षिसदृशीं पूजां स प्राप नारदः ।
महेन्द्रसदृशीं चैव मातलिः प्रत्यपद्यत ॥ ५.९८.७ ॥
在那里,那罗陀获得了与天界仙人相称的礼遇,摩多梨也获得了与大因陀罗(因陀罗)相称的礼遇。
5.98.8
तावुभौ ग्रीतमनसौ कार्यवन्तौ निवेद्य ह ।
वरुणेनाभ्यनुज्ञातौ नागलोकं विचेरतुः ॥ ५.९८.८ ॥
两人心中欢喜,向伐楼那报告了所办之事,得到许可后,前往龙界(那伽界)。
5.98.9
नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् ।
जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः ॥ ५.९८.९ ॥
那罗陀知晓所有居于地下的众生,便向御者完整地讲解了一切。
5.98.10
दृष्टस्ते वरुणः सूत पुत्रपौत्रसमावृतः ।
पश्योदकपतेः स्थानं सर्वतोभद्रमृद्धिमत् ॥ ५.९८.१० ॥
御者啊,你已见到被子孙环绕的伐楼那;现在请看水主的居所,它四面吉祥,富饶壮丽。
5.98.11
एष पुत्रो महाप्रज्ञो वरुणस्येह गोपतेः ।
एष वै शीलवृत्तेन शौचेन च विशिष्यते ॥ ५.९८.११ ॥
这位大智慧的儿子是牧主伐楼那之子,他以良好的品行和纯洁而在此格外突出。
5.98.12
एषोऽस्य पुत्रोऽभिमतः पुष्करः पुष्करेक्षणः ।
रूपवान्दर्शनीयश्च सोमपुत्र्या वृतः पतिः ॥ ५.९८.१२ ॥
这是伐楼那所钟爱的儿子布什卡罗,目如莲花,相貌俊美,令人赏心悦目;月神(苏摩)之女已选他为夫。
5.98.13
ज्योत्स्नाकालीति यामाहुर्द्वितीयां रूपतः श्रियम् ।
अदित्याश्चैव यः पुत्रो ज्येष्ठः श्रेष्ठः कृतः स्मृतः ॥ ५.९८.१३ ॥
被称为月光迦利的女神,形貌如第二位吉祥天;阿底提的长子被认为是最尊贵的。
5.98.14
भवनं पश्य वारुण्यं यदेतत्सर्वकाञ्चनम् ।
यत्प्राप्य सुरतां प्राप्ताः सुराः सुरपतेः सखे ॥ ५.९८.१४ ॥
看这瓦如那的宫殿,全由黄金所成;诸天得之,便得享福,善友啊,天主的朋友。
5.98.15
एतानि हृतराज्यानां दैतेयानां स्म मातले ।
दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्युत ॥ ५.९८.१५ ॥
摩多利啊,这些属于失去王国的提泰耶人,闪耀可见,还有一切兵器。
5.98.16
अक्षयाणि किलैतानि विवर्तन्ते स्म मातले ।
अनुभावप्रयुक्तानि सुरैरवजितानि ह ॥ ५.९८.१६ ॥
摩多利啊,这些是不坏的,确实在旋转;它们由威力所驱使,曾为诸天所征服。
5.98.17
अत्र राक्षसजात्यश्च दैत्यजात्यश्च मातले ।
दिव्यप्रहरणाश्चासन्पूर्वदैवतनिर्मिताः ॥ ५.९८.१७ ॥
摩多利啊,这里有罗刹族和提泰耶族,持有神圣的兵器,为往古诸神所造。
5.98.18
अग्निरेष महार्चिष्माञ्जागर्ति वारुणे ह्रदे ।
वैष्णवं चक्रमाविद्धं विधूमेन हविष्मता ॥ ५.९८.१८ ॥
这大焰之火在婆楼那之湖中警戒;毗湿奴之轮,由无烟、持祭的火所投掷。
5.98.19
एष गाण्डीमयश्चापो लोकसंहारसंभृतः ।
रक्ष्यते दैवतैर्नित्यं यतस्तद्गाण्डिवं धनुः ॥ ५.९८.१९ ॥
此弓以 gāṇḍī 制成,为毁灭世界而生。诸神常常守护它,因此名为甘狄瓦(Gāṇḍīva)。
5.98.20
एष कृत्ये समुत्पन्ने तत्तद्धारयते बलम् ।
सहस्रशतसङ्ख्येन प्राणेन सततं ध्रुवः ॥ ५.९८.२० ॥
当咒术(kṛtyā)生起时,它便承载其力量;以数以十万计的生命之力,它始终坚定不移。
5.98.21
अशास्यानपि शास्त्येष रक्षोबन्धुषु राजसु ।
सृष्टः प्रथमतश्चण्डो ब्रह्मणा ब्रह्मवादिना ॥ ५.९८.२१ ॥
它惩罚那些不可制服的人,以及与罗刹有亲缘的诸王。梵天,这位宣说梵智者,最初以猛烈之相创造了它。
5.98.22
एतच्छस्त्रं नरेन्द्राणां महच्चक्रे भासितम् ।
पुत्राः सलिलराजस्य धारयन्ति महोदयम् ॥ ५.९८.२२ ॥
这件大兵器在王者之轮中熠熠生辉。水王(Varuṇa)之子承载着这份盛大的威势。
5.98.23
एतत्सलिलराजस्य छत्रं छत्रगृहे स्थितम् ।
सर्वतः सलिलं शीतं जीमूत इव वर्षति ॥ ५.९८.२३ ॥
这是水王的伞盖,立于伞盖之室。它四面倾注清凉之水,如同云雨降落。
5.98.24
एतच्छत्रात्परिभ्रष्टं सलिलं सोमनिर्मलम् ।
तमसा मूर्छितं भाति येन नार्छति दर्शनम् ॥ ५.९८.२४ ॥
从伞盖滴落的这水,清澈如月;然而被黑暗所笼罩,它显得竟不可见。
5.98.25
बहून्यद्भुतरूपाणि द्रष्टव्यानीह मातले ।
तव कार्योपरोधस्तु तस्माद्गच्छाव मा चिरम् ॥ ५.९८.२५ ॥
摩多利啊,这里有许多值得一见的奇妙形象;但你的任务将受到阻碍。因此我们不要耽搁,立即前行。