摩诃婆罗多 · 章 5.99
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.99.1
एतत्तु नागलोकस्य नाभिस्थाने स्थितं पुरम् ।
पातालमिति विख्यातं दैत्यदानवसेवितम् ॥ ५.९९.१ ॥
此城位于龙蛇世界的脐位,名为波多罗(Pātāla),为提提耶与达那婆所居。
5.99.2
इदमद्भिः समं प्राप्ता ये केचिद्भुवि जङ्गमाः ।
प्रविशन्तो महानादं नदन्ति भयपीडिताः ॥ ५.९९.२ ॥
地上某些会动的生灵随水来到此处;他们被恐惧折磨,进入时发出巨大的呼号。
5.99.3
अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः ।
व्यापारेण धृतात्मानं निबद्धं समबुध्यत ॥ ५.९९.३ ॥
此处有以水为食的阿修罗之火,常年燃烧;它凭自身的作用维持自己,显得被束缚。
5.99.4
अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः ।
अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ॥ ५.९९.४ ॥
此处的甘露为诸神所饮,由诛杀敌人者所藏;因此月神(苏摩)既见减损,也见增长。
5.99.5
अत्रादित्यो हयशिराः काले पर्वणि पर्वणि ।
उत्तिष्ठति सुवर्णाख्यो वाग्भिरापूरयञ्जगत् ॥ ५.९९.५ ॥
此处有马首的太阳,在适当时候、每逢月之交替时升起,名为苏梵那(Suvarṇa),以其声音充满世界。
5.99.6
यस्मादलं समस्तास्ताः पतन्ति जलमूर्तयः ।
तस्मात्पातालमित्येव ख्यायते पुरमुत्तमम् ॥ ५.९९.६ ॥
因为所有这些水之形体都完全坠落于此,所以这座殊胜之城就被称为波多罗(Pātāla)。
5.99.7
ऐरावणोऽस्मात्सलिलं गृहीत्वा जगतो हितः ।
मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति ॥ ५.९९.७ ॥
爱罗婆那从此取水,作为世间的益者,将清凉之水释放到云中,大因陀罗便降下雨来。
5.99.8
ऐरावतो नागराजो वामनः कुमुदोऽञ्जनः ।
प्रसूताः सुप्रतीकस्य वंशे वारणसत्तमाः ॥ ५.९९.८ ॥
爱罗多、龙王、婆摩那、俱牟陀、安阇那——出自善光家族的诸象中的最优者。
5.99.9
अत्र नानाविधाकारास्तिमयो नैकरूपिणः ।
अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः ॥ ५.९९.९ ॥
此处住着各种形状的鱼类提密,它们是水中生物,在水中饮用月神的光辉而居住。
5.99.10
अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः ।
मृता हि दिवसे सूत पुनर्जीवन्ति वै निशि ॥ ५.९९.१० ॥
此处,被日光所射伤而依止于地下(波陀罗)底部的生灵,啊,御者!白日死去,夜间又重新复活。
5.99.11
उदयन्नित्यशश्चात्र चन्द्रमा रश्मिबाहुभिः ।
अमृतं स्पृश्य संस्पर्शात्संजीवयतिदेहिनः ॥ ५.९९.११ ॥
此处,月亮升起,以其光线之臂触及甘露,因这一触碰而使有身众生重获生命。
5.99.12
अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः ।
दैतेया निवसन्ति स्म वासवेन हृतश्रियः ॥ ५.९९.१२ ॥
此处,那些沉溺于非法的提提之子被束缚,受时间折磨,被婆薮(因陀罗)夺去光辉而居住。
5.99.13
अत्र भूतपतिर्नाम सर्वभूतमहेश्वरः ।
भूतये सर्वभूतानामचरत्तप उत्तमम् ॥ ५.९९.१३ ॥
此处,名为薄多跋提的一切众生大自在天,为了一切众生的福祉,修行了至高的苦行。
5.99.14
अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः ।
त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः ॥ ५.९९.१४ ॥
此处居住着践行牛戒的婆罗门,他们因自修和诵读吠陀而消瘦,舍弃了生命之气,赢得天界,作为伟大的仙人而居住。
5.99.15
यत्रतत्रशयो नित्यं येनकेनचिदाशितः ।
येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते ॥ ५.९९.१५ ॥
无论身在何处便在何处睡眠,得到什么便吃什么,得到什么便以之覆身,这样的人在此被称为践行牛戒者。
5.99.16
पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः ।
वरयिष्यामि तं गत्वा यत्नमास्थाय मातले ॥ ५.९९.१६ ॥
看吧,若此处有哪位求婚者因其德行而合你心意,啊,摩多梨,我将竭力前往,选择他为夫。
5.99.17
अण्डमेतञ्जले न्यस्तं दीप्यमानमिव श्रिया ।
आप्रजानां निसर्गाद्वै नोद्भिद्यति न सर्पति ॥ ५.९९.१७ ॥
此卵置于水中,闪耀着光辉,仿佛以其光彩照耀。直到众生被创造之前,它本性上既不破裂,也不移动。
5.99.18
नास्य जातिं निसर्गं वा कथ्यमानं श्रृणोमि वै ।
पितरं मातरं चापि नास्य जानाति कश्चन ॥ ५.९९.१८ ॥
我未曾听说有关其种类或起源的任何说法。也没有人知道它的父亲或母亲。
5.99.19
अतः किल महानग्निरन्तकाले समुत्थितः ।
धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् ॥ ५.९९.१९ ॥
因此,在末劫之时将升起一场大火,哦,摩多利;它将焚烧三界以及一切动与不动之物。
5.99.20
मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम् ।
न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् ॥ ५.९९.२० ॥
摩多利听了那罗陀的话,说道:这里没有任何我喜欢的;去别处吧,不要耽搁。