摩诃婆罗多 · 章 6.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.10.1
भारतस्यास्य वर्षस्य तथा हैमवतस्य च ।
प्रमाणमायुषः सूत बलं चापि शुभाशुभम् ॥ ६.१०.१ ॥
持国说:御者啊,请告诉我这婆罗多之地与海马凡陀之地的大小、寿命、力量,以及吉与凶。
6.10.2
अनागतमतिक्रान्तं वर्तमानं च संजय ।
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ॥ ६.१०.२ ॥
持国说:桑闪耶啊,请详细告诉我未来、过去与现在之事,以及哈里洲。
6.10.3
चत्वारि भारते वर्षे युगानि भरतर्षभ ।
कृतं त्रेता द्वापरं च तिष्यं च कुरुवर्धन ॥ ६.१०.३ ॥
桑闪耶说:婆罗多族中的雄牛啊,婆罗多之地有四个时代:克里塔、特瑞塔、杜伐帕拉,以及提希亚(迦利),俱卢的增益者啊。
6.10.4
पूर्वं कृतयुगं नाम ततस्रेतायुगं प्रभो ।
संक्षेपाद्द्वापरस्याथ ततस्तिष्यं प्रवर्तते ॥ ६.१०.४ ॥
桑闪耶说:主啊,先是克里塔时代,然后是特瑞塔时代;简言之,是杜伐帕拉,之后提希亚(迦利)开始显现。
6.10.5
चत्वारि तु सहस्राणि वर्षाणां कुरुसत्तम ।
आयुःसंख्या कृतयुगे संख्याता राजसत्तम ॥ ६.१०.५ ॥
桑闪耶说:俱卢中最优秀的人啊,在克里塔时代,寿命的计算为四千年,王者中最优秀的人啊。
6.10.6
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप ।
द्वे सहस्रे द्वापरे तु भुवि तिष्ठन्ति सांप्रतम् ॥ ६.१०.६ ॥
同样,人主啊,特瑞塔时代为三千年,杜伐帕拉时代为两千年;这些如今仍存于大地之上。
6.10.7
न प्रमाणस्थितिर्ह्यस्ति तिष्येऽस्मिन्भरतर्षभ ।
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥ ६.१०.७ ॥
婆罗多族的雄牛啊,在此时代,寿命并无固定的定数。在此,腹中之胎亦会死去,已生之人也会死去。
6.10.8
महाबला महासत्वाः प्रज्ञागुणसमन्विताः ।
प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः ॥ ६.१०.८ ॥
具大力、大勇、并具智慧之德的众生,成百上千地降生,已经降生。
6.10.9
जाताः कृतयुगे राजन्धनिनः प्रयदर्शनाः ।
प्रजायन्ते च जाताश्च मुनयो वै तपोधनाः ॥ ६.१०.९ ॥
大王啊,生于克里多时代的富有且容貌可喜的人降生,已经降生;以苦行为财富的贤者也降生,已经降生。
6.10.10
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः ।
प्रियदर्शना वपुष्मन्तो महावीर्या धनुर्धराः ॥ ६.१०.१० ॥
具大勇气、大心胸、守法、诚实、令人喜悦、形体俊美、大力、善射的人。
6.10.11
वरार्हा युधि जायन्ते क्षत्रियाः शूरसत्तमाः ।
त्रेतायां क्षत्रिया राजन्सर्वे वै चक्रवर्तिनः ॥ ६.१०.११ ॥
在战斗中降生的刹帝利值得获得恩赐,是英雄中最优秀的。大王啊,在特利多时代,所有刹帝利都确实是转轮王。
6.10.12
सर्ववर्णाश्च जायन्ते सदा चैव च द्वापरे ।
महोत्साहा वीर्यवन्तः परस्परजयैषिणः ॥ ६.१०.१२ ॥
在德瓦帕拉时代,所有种姓永远降生;具大勇气与大力、互相追求胜利的众生。
6.10.13
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप ।
लुब्धा अनृतकाश्चैव तिष्ये जायन्ति भारत ॥ ६.१०.१३ ॥
大王啊,气力微弱、易怒的人,贪婪而且说谎的人,也在提须时代出生,婆罗多之子啊。
6.10.14
ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च ।
तिष्ये भवति भूतानां रागो लोभश्च भारत ॥ ६.१०.१४ ॥
嫉妒、傲慢、愤怒、欺诈和怨恨也都会产生;在提须时代,众生之中生起贪爱与贪欲,婆罗多之子啊。
6.10.15
संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप ।
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥ ६.१०.१५ ॥
大王啊,在这个德婆罗时代有缩减;之后是海马陀国,再之后是诃梨婆罗舍,品质愈加殊胜,人主啊。