Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.102

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.102.1

कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः ।
समीयतू रणे यत्तौ तावुभौ पुरुषर्षभौ ॥ ६.१०२.१ ॥

伟大的弓箭手德罗纳与般度之子持财(阿周那)如何在战场上相遇?那两位人中雄牛都已急切待战。

6.102.2

प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः ।
आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ॥ ६.१०२.२ ॥

桑闪耶啊,般度之子始终为智慧的婆罗堕遮(德罗纳)所钟爱,而导师德罗纳在战场上也始终为普利塔之子所敬爱。

6.102.3

तावुभौ रथिनो सङ्ख्ये हृष्टौ सिंहाविवोत्कटौ ।
कथं समीयतुर्यत्तौ भारद्वाजधनञ्जयौ ॥ ६.१०२.३ ॥

那两位在战场上欢欣如猛狮的车战勇士,婆罗堕遮(德罗纳)与持财(阿周那),都已急切待战,他们如何相遇?

6.102.4

न द्रोणः समरे पार्थं जानीते प्रियमात्मनः ।
क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ॥ ६.१०२.४ ॥

在战场上,德罗纳并不把普利塔之子视为自己所爱,普利塔之子也不顾及老师;二人都以刹帝利之法为先。

6.102.5

न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् ।
निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ॥ ६.१०२.५ ॥

大王啊,在战场上刹帝利彼此不相宽恕;他们超越礼法而战,即使与父亲和兄弟也是如此。

6.102.6

रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः ।
नाचिन्तयच्च तान्बाणान्पार्थचापच्युतान्युधि ॥ ६.१०२.६ ॥

婆罗多啊,在战场上,德罗纳被普利塔之子的三支箭射中,却不在意那些从普利塔之子弓上射出的箭。

6.102.7

शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे ।
स प्रजज्वाल रोषेण गहनेऽग्निरिवोर्जितः ॥ ६.१०२.७ ॥

在战斗中,般遮再次以箭雨覆盖他,他因愤怒如密林中熊熊燃烧的烈火般燃烧起来。

6.102.8

ततोऽर्जुनं रणे द्रोणः शरैः सन्नतपर्वभिः ।
छादयामास राजेन्द्र नचिरादेव भारत ॥ ६.१०२.८ ॥

于是在战斗中,德罗纳以节直的箭矢覆盖了阿周那,王中之王啊,婆罗多啊,不久之后。

6.102.9

ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।
द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ॥ ६.१०२.९ ॥

于是国王难敌激励苏舍尔曼,王啊,因为战斗中有人从后面抓住了德罗纳的战车。

6.102.10

त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् ।
छादयामास समरे पार्थं बाणैरयोमुखैः ॥ ६.१०२.१० ॥

三伽多的国王也怒不可遏,用力拉满弓,在战斗中以铁镞之箭覆盖了般遮。

6.102.11

ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे ।
हंसा इव महाराज शरत्काले नभस्तले ॥ ६.१०२.११ ॥

那二人射出的箭矢,王啊,在空中闪耀,如秋天天空中的天鹅,大王啊。

6.102.12

ते शराः प्राप्य कौन्तेयं समन्ताद्विविशुः प्रभो ।
फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः ॥ ६.१०२.१२ ॥

那些箭抵达贡蒂之子,从四面八方钻入,主啊,就像鸟儿扑向因果实累累而低垂的甘美果树。

6.102.13

अर्जुनस्तु रणे नादं विनद्य रथिनां वरः ।
त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥ ६.१०२.१३ ॥

阿周那乃车战者中之最,在战场上发出吼声,以箭射穿了三域王及其子。

6.102.14

ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।
पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ।
मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ॥ ६.१०२.१४ ॥

他们被Pārtha击杀,犹如劫末之时间,决意赴死,径直冲向Pārtha,并向般度之子的战车射出箭雨。

6.102.15

शरवृष्टिं ततस्तां तु शरवर्षैः समन्ततः ।
प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः ॥ ६.१०२.१५ ॥

王中之王啊,他以自己的箭雨从四面承受了那箭雨,犹如山岳承受雨水。

6.102.16

तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् ।
विमुक्तां बहुभिर्योधैः शस्त्रवृष्टिं दुरासदाम् ॥ ६.१०२.१६ ॥

在那里我们目睹了比跋特苏(阿周那)手法的神妙,他挡住了许多战士射出的、难以抵挡的兵器雨。

6.102.17

यदेको वारयामास मारुतोऽभ्रगणानिव ।
कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ॥ ६.१०२.१७ ॥

犹如一阵风独自阻挡云群,由于阿周那独自所作的这一功业,天神与阿修罗都感到欢喜。

6.102.18

अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत ।
मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ॥ ६.१०२.१८ ॥

于是,婆罗多啊,阿周那在战场上震怒,向三域人在军队前列射出了风神之箭,大王啊。

6.102.19

प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् ।
पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ॥ ६.१०२.१९ ॥

于是风起,震动天空,吹倒成群的树木,也击杀了士兵。

6.102.20

ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम् ।
शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ॥ ६.१०२.२० ॥

于是德罗纳见那极为可怕的风神箭,大王,便放出另一种可怖的山岳之箭。

6.102.21

द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे नराधिप ।
प्रशशाम ततो वयुः प्रसन्नाश्च दिशो दश ॥ ६.१०२.२१ ॥

在战场上德罗纳放出那件武器时,人主啊,风便止息,十方都变得清明。

6.102.22

ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् ।
निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ॥ ६.१०२.२२ ॥

于是般度之子英雄在战场上使三门国的车阵失去斗志、转身退却、丧失勇气。

6.102.23

ततो दुर्योधनश्चैव कृपश्च रथिनां वरः ।
अश्वत्थामा तथा शल्यः काम्भोजश्च सुदक्षिणः ॥ ६.१०२.२३ ॥

于是难敌、车将中最优秀的克利巴、马嘶、沙利耶以及甘菩阇的苏达克希纳一齐上前。

6.102.24

विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः ।
महता रथवंशेन पार्थस्यावारयन्दिशः ॥ ६.१०२.२४ ॥

毗陀与阿努毗陀、阿槃提人,以及与巴利迦人一同的巴利迦王,以庞大的车阵阻挡普利塔之子的方位。

6.102.25

तथैव भगदत्तश्च श्रतायुश्च महाबलः ।
गजानीकेन भीमस्य ताववारयतां दिशः ॥ ६.१०२.२५ ॥

同样,婆伽陀多与大力的室卢多衍以象军阻断了怖军的各个方向。

6.102.26

भूरिश्रवाः शलश्चैव सौबलश्च विशांपते ।
शरौघैर्विमलैस्तीक्ष्णैर्माद्रीपुत्राववारयन् ॥ ६.१०२.२६ ॥

人主啊,婆利室罗婆、沙利耶与苏巴拉之子以明亮锐利的箭雨阻住了摩德利的两个儿子。

6.102.27

भीष्मस्तु संहतः सङ्ख्ये धार्तराष्ट्रैः ससैनिकैः ।
युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ॥ ६.१०२.२७ ॥

而毗湿摩与持国诸子及其士兵紧密相连,在战场上靠近坚战,从四面将他包围。

6.102.28

आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः ।
लोलिहन्सृक्किणी वीरो मृगराडिव कानने ॥ ६.१०२.२८ ॥

英勇的普利塔之子狼腹(怖军)看到象军冲来,便像林中的狮子一样舔着嘴角。

6.102.29

भीमस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे ।
अवप्लुत्य रथात्तूर्णं तव सैन्यान्यभीषयत् ॥ ६.१०२.२९ ॥

而车战之中最优秀的怖军,在大战中手持金刚杖,迅速从战车跳下,使你的军队惊恐。

6.102.30

तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः ।
परिवव्रू रणे यत्ता भीमसेनं समन्ततः ॥ ६.१०२.३० ॥

他们看见他手持金刚杖,那些象上的战士在战场上戒备,便从四面将怖军包围。

6.102.31

गजमध्यमनुप्राप्तः पाण्डवः स व्यराजत ।
मेघजालस्य महतो यथा मध्यगतो रविः ॥ ६.१०२.३१ ॥

那位般度之子来到象群之中,光辉如同位于巨大云团中央的太阳。

6.102.32

व्यधमत्स गजानीकं गदया पाण्डवर्षभः ।
महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ॥ ६.१०२.३२ ॥

这位般度族的雄牛用铁杵击碎了象军,如同风不停地吹散那无比巨大的云团。

6.102.33

ते वध्यमाना बलिना भीमसेनेन दन्तिनः ।
आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ॥ ६.१०२.३३ ॥

那些象被强大的怖军击杀,在战场上发出痛苦的哀鸣,如同轰鸣的云层。

6.102.34

बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः ।
फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ॥ ६.१०२.३४ ॥

尽管在那里被象牙多处刺伤,普利塔之子仍如盛开的阿输迦树般,在战阵前端闪耀。

6.102.35

सादिनां शस्त्रवृष्टिं च व्यधमद्गदया ततः ।
वायुवेगसमायुक्तो व्यचरत्पाण्डवो युधि ॥ ६.१०२.३५ ॥

随后他以铁杵驱散了骑兵的箭雨,那位拥有风之速度的般度之子在战场上穿梭往来。

6.102.36

विषाणोल्लिखितैर्गात्रौर्विषाणाभिहतो भृशम् ।
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् ॥ ६.१०२.३६ ॥

他的肢体被象牙刮伤,又遭象牙重击,却仍抓住一头象的象牙,使它失去了象牙。

6.102.37

विषाणेन च तेनैव कुम्भोऽभ्याहत्य दन्तिनम् ।
पातयामास समरे दण्डहस्त इवान्तकः ॥ ६.१०२.३७ ॥

坤跋用那根象牙击中大象,使其在战斗中倒下,如手持权杖的死神。

6.102.38

शोणिताक्तां गदां बिभ्रन्मेदोभञ्जाकृतच्छविः ।
कृताभ्यङ्गः शोणितेन रुद्रवत्प्रत्यदृश्यत ॥ ६.१०२.३८ ॥

手持沾满鲜血的棍棒,身体似被脂肪压碎般,浑身涂满血迹,他看去如同楼陀罗。

6.102.39

एवं के वध्यमानाश्च हतशेषा महागजाः ।
प्राद्रवन्त दिशो राजन्विमृद्गन्तः स्वकं बलम् ॥ ६.१०२.३९ ॥

如此,那些被杀的大象中残存的几头,大王,踩踏着自己的军队,向四面八方逃散。

6.102.40

द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्भुखम् ॥ ६.१०२.४० ॥

因那些从四面奔逃的大象,婆罗多族之雄,难敌的全军再次转身败逃。