摩诃婆罗多 · 章 6.104
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.104.1
अर्जुनस्तान्नरव्याघ्रः सुशर्मानुचरान्नृपान् ।
अनयत्प्रेतराजस्य सदनं सायकैः शितैः ॥ ६.१०४.१ ॥
人中之虎阿周那以锐利的箭将苏尸尔摩的那些随从诸王送往死神阎摩的住所。
6.104.2
सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे ।
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः ॥ ६.१०४.२ ॥
于是苏尸尔摩也在战中以箭射中了贫瞿子:以七十箭射婆苏提婆,又以九箭再射贫瞿子。
6.104.3
तं निवार्य शरौघेण सक्रुसूनुर्महारथः ।
सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम् ॥ ६.१०४.३ ॥
以箭雨阻挡了他之后,这位大战车武士、贡蒂之子在战斗中把苏尸尔摩的战士送往阎摩的住所。
6.104.4
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।
व्यद्रवन्त रणे राजन्भये जाते महारथाः ॥ ६.१०४.४ ॥
大王啊,那些大战车武士被贫瞿子杀戮,如同世界末劫时的时间之力,恐惧生起时便逃离了战场。
6.104.5
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष ।
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश ॥ ६.१०४.५ ॥
尊者啊,有人弃马,有人弃车,另有人弃象,四处逃散,奔向十方。
6.104.6
अपरे तु तदादाय वाजिनागरथान्रणे ।
त्वरया परया युक्ताः प्राद्रवन्त विशांपते ॥ ६.१०४.६ ॥
而其他人则带着马、象和车,在战场上以极快的速度逃走了,人主啊。
6.104.7
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे ।
निरपेक्षा व्यधावन्त तेनतेन स्म भारत ॥ ६.१०४.७ ॥
步兵也在大战中弃置兵器,毫不顾惜地四散奔逃,婆罗多的后裔啊。
6.104.8
वार्यमाणाः सुबहुशस्त्रैगर्तेन सुशर्मणा ।
तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे ॥ ६.१०४.८ ॥
尽管伽尔塔王苏舍尔曼及其他诸位最尊贵的国王以多种兵器阻拦,他们仍不能在战阵中站稳。
6.104.9
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव ।
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतः ॥ ६.१०४.९ ॥
见那支军队溃逃,你的儿子难敌在战阵中以毗湿摩为先,率领全军向前。
6.104.10
सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् ।
त्रिगर्ताधिपतेरर्थे जीवितस्य विशांपते ॥ ६.१०४.१० ॥
为了三乡之主的性命,他们竭尽全力向财主(阿周那)猛攻,人主啊。
6.104.11
स एकः समरे तस्थौ किरन्बहुविधाञ्शरान् ।
भ्रातृभिः सहितः सर्वैः शेषा हि प्रद्रुता नराः ॥ ६.१०४.११ ॥
他一人在战阵中屹立,发射种种箭矢,与诸兄弟同在;其余的人都逃散了。
6.104.12
तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः ।
प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यतिष्ठत ॥ ६.१०४.१२ ॥
同样,国王啊,般度之子们也竭尽全力披甲,为了财主(阿周那)向毗湿摩所在之处前进。
6.104.13
ज्ञायमाना रणे वीर्यं घोरं गाण्डीवधन्वनः ।
हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः ॥ ६.१०४.१३ ॥
在战场上认出持甘提拔弓者(阿周那)的可怕威力,他们满怀斗志、惊呼喧嚷,从四面八方冲向毗湿摩。
6.104.14
ततस्तालध्वजः शूरः पाण्डवानां वरूथिनीम् ।
छादयामास समरे शरैः सन्नतपर्वभिः ॥ ६.१०४.१४ ॥
于是持棕榈旗的英雄在战斗中以弯曲节结的箭矢遮蔽了般度子弟的军队。
6.104.15
एकीभूतास्ततः सर्वे कुरवः सह पाण्डवैः ।
अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे ॥ ६.१०४.१५ ॥
大王啊,当太阳到达中天时,所有的俱卢人与般度子弟合为一体,展开了战斗。
6.104.16
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिराशुगैः ।
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः ॥ ६.१०४.१६ ॥
勇士萨提亚基以五支快箭射中克里塔瓦尔曼,立于战场之上,成千上万地洒射箭矢。
6.104.17
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः ।
पुनर्विव्याध सप्तत्या सारथिं चास्य पञ्चभिः ॥ ६.१०४.१७ ॥
同样,国王德鲁帕达以锐利的箭射中德罗纳,又以七十支箭射伤他,以五支箭射伤他的御者。
6.104.18
भीमसेनस्तु राजानं बाह्लीकं प्रपितामहम् ।
विद्ध्वा नदन्महानादं शार्दूल इव कानने ॥ ६.१०४.१८ ॥
然而毗摩森那射中国王巴赫利迦——他是曾祖父般的长辈——如林中猛虎般发出巨大的吼声。
6.104.19
आर्जुनिश्चित्रसेनेन विद्धो बहुभिरशुगैः ।
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः।
चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम् ॥ ६.१०४.१९ ॥
阿周那之子虽被持明者(Citrasena)的许多疾箭射中,这位英雄仍屹立于战场,射出成千上万支箭。在战斗中,他以三支箭猛烈地射穿了Citrasena。
6.104.20
समागतौ तौ तु रणे महामात्रौ व्यरोचताम् ।
यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ ॥ ६.१०४.२० ॥
在战场上相遇的这两位大车将,犹如天空中两颗极为可怖的星辰,光芒闪耀,大王啊:水星与土星。
6.104.21
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः ।
ननाद बलवान्नादं सौभद्रः परवीरहा ॥ ६.१०४.२१ ॥
他射杀了对方的四匹马,又以九支箭射中御者,威猛的苏跋陀罗之子,敌方英雄的杀手,发出了吼声。
6.104.22
हताश्वात्तु रथात्तूर्णं सोऽवप्लुत्य महारथः ।
आरुरोह रथं तूर्णं दुर्मुखस्य विशांपते ॥ ६.१०४.२२ ॥
此时,大车将的马已被射杀,他迅速从车上跃下,立即登上了Durmukha的战车,啊,人民之主。
6.104.23
द्रोणश्च द्रुपदं भित्त्वा शरैः सन्नतपर्वभिः ।
सारथिं चास्य विव्याध त्वरमाणः पराक्रमी ॥ ६.१०४.२३ ॥
德罗纳以带弯曲节的箭射穿了德鲁帕达,又迅速而英勇地射伤了他的御者。
6.104.24
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे ।
अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन् ॥ ६.१०४.२४ ॥
于是,饱受折磨的德鲁帕达王从军队前线乘快马撤退,心中仍记着旧日的仇怨。
6.104.25
भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् ।
व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः ॥ ६.१०४.२५ ॥
而毗摩森那转瞬之间使国王跋利迦的战车失去了马匹与御者,全军都在旁观。
6.104.26
ससंभ्रमो महाराज संशयं परमं गतः ॥ ६.१०४.२६ ॥
大王啊,他惊慌失措,陷入了极大的危险。
6.104.27
अवप्लुत्य ततो वाहाद्बाह्लीकः पुरुषोत्तमः ।
आरुरह रथं तूर्णं लक्ष्मणस्य महारणे ॥ ६.१०४.२७ ॥
于是最上之人跋利迦从坐骑跃下,在大战中迅速登上了罗什曼那的战车。
6.104.28
सात्यकिः कृतवर्माणं वारयित्वा महारणे ।
शरैर्बहुविधै राजन्नाससाद पितामहम् ॥ ६.१०४.२८ ॥
萨提亚基在大战中阻挡了克里塔瓦尔曼,大王啊,他以多种箭矢逼近了祖父。
6.104.29
स विद्ध्वा भारतं षष्ट्या निशितै रोमवाहिभिः ।
नृत्यन्निव रथोपस्थे विधुन्वानो महद्धनुः ॥ ६.१०४.२९ ॥
他以六十支锋利的羽箭射中婆罗多(毗湿摩),挥舞着大弓,仿佛在车板上跳舞。
6.104.30
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः ।
हेमचित्रां महावेगां नागकन्योपमां शुभाम् ॥ ६.१०४.३० ॥
于是祖父向他投出一支铁制大枪,饰以黄金,速度极快,美丽如蛇女。
6.104.31
तामापतन्तीं सहसा मृत्युकल्पां सुदुर्जयाम् ।
व्यंसयामास वार्ष्णेयो लाघवेन महायशाः ॥ ६.१०४.३१ ॥
那支突然向他飞来的长矛,如同死亡,极难抵挡,伟大名声的跋尔什尼耶以敏捷将其偏转。
6.104.32
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा ।
न्यपतद्धरणीपृष्ठे महोल्केव महाप्रभा ॥ ६.१०४.३२ ॥
那支极其可怖的长矛未能击中跋尔什尼耶,便如一颗光芒耀眼的巨大流星坠落在大地表面。
6.104.33
वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं कनकप्रभाम् ।
वेगवद्गृह्य चिक्षेप पितामहरथं प्रति ॥ ६.१०४.३३ ॥
于是,大王,跋尔什尼耶迅速抓起自己金光闪耀的长矛,朝祖父的战车掷去。
6.104.34
वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे ।
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम् ॥ ६.१०४.३४ ॥
在大战中被跋尔什尼耶的臂力推动,那支长矛疾速飞驰,犹如死亡之夜扑向一个人。
6.104.35
तामापतन्तीं सहसा द्विधा चिच्छेद भारतः ।
क्षुरप्राभ्यां सुतीक्ष्णाभ्यांसा व्यशीर्यत मेदिनीम् ॥ ६.१०४.३५ ॥
那支突然向他飞来的长矛,婆罗多以两支极其锋利的剃刀箭将其斩为两段,碎裂后散落于大地之上。
6.104.36
छित्त्वा शक्तिं तु गाङ्गयः सात्यकिं नवभिः शरैः ।
आजघानोरसि क्रुद्धः प्रहसञ्छत्रुकर्शनः ॥ ६.१०४.३६ ॥
甘伽之子(毗湿摩)斩断长矛后,怒而大笑,以九支箭射中萨提亚基的胸膛;他是摧毁敌人的英雄。
6.104.37
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज ।
परिवब्रू रणे भीष्मं माधवत्राणकारणात् ॥ ६.१०४.३७ ॥
于是,般度之后啊,般度五子连同战车、象和马,为了保护摩陀婆(萨谛奇),在战场上包围了毗湿摩。
6.104.38
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।
पाण्डवानां कुरूणां च समरे विजयैषिणाम् ॥ ६.१०४.३८ ॥
于是,般度五子与俱卢人之间爆发了一场激烈而令人毛骨悚然的战斗,双方都渴望在战场上获胜。