摩诃婆罗多 · 章 6.105
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.105.1
दृष्ट्वा भीष्मं रणे युद्धं पाण्डवैरभिसंवृतम् ।
यथा मेघैर्महाराज तपान्ते दिवि भास्करम् ॥ ६.१०५.१ ॥
大王啊,看见毗湿摩在战场上被般度之子们包围,就像盛夏尽头天空中被云层遮蔽的太阳。
6.105.2
दुर्योधनो महाराज दुःशासनमभाषत ।
एष शूरो महेष्वासो भीष्मः शूरनिषूदनः ॥ ६.१०५.२ ॥
大王啊,难敌对难降说:这位英雄、伟大的弓箭手毗湿摩,是歼灭英雄的人。
6.105.3
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ ।
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः ॥ ६.१०५.३ ॥
婆罗多之牛啊,他被英勇的般度之子从四面包围。勇士啊,保护这位大德之人是你的责任。
6.105.4
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः ।
निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह ॥ ६.१०५.४ ॥
若我们的祖父毗湿摩在战斗中得到保护,他将与般度之子一起杀死奋战的般遮罗人。
6.105.5
तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम् ।
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः ॥ ६.१०५.५ ॥
我认为那里最要紧的事,就是好好保护毗湿摩本人。这位大弓箭手、持大誓的毗湿摩,正是我们的守护者。
6.105.6
स भवान्सर्वसैन्येन परिवार्य पितामहम् ।
समरे कर्म कुर्वाणं दुष्करं परिरक्षतु ॥ ६.१०५.६ ॥
因此,你应以全军包围我们的祖父,好好保护这位在战斗中建立艰难功业的人。
6.105.7
स एवमुक्तः समरे पुत्रो दुःशासनस्तव ।
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः ॥ ६.१०५.७ ॥
战斗中被如此吩咐后,你的儿子难降(Duḥśāsana)率领大军,将毗湿摩团团包围而立。
6.105.8
ततः शतसहस्राणां हयानां सुबलात्मजः ।
विमलप्रासहस्तानामृष्टितोमरधारिणाम् ॥ ६.१०५.८ ॥
于是苏跋罗之子(沙恭尼),率领数十万匹马,手持明亮的长矛,执持利剑与投枪……
6.105.9
दर्पितानां सुवेगानां बलस्थानां पताकिनाम् ।
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः ॥ ६.१०५.९ ॥
骄傲、迅捷、坚定、持旗的,受过训练、善于作战的,由最优秀的勇士统领……
6.105.10
नकुलं सहदेवं च धर्मराजं च पाण्डवम् ।
न्यवारयन्नरश्रेष्ठान्परिवार्य समन्ततः ॥ ६.१०५.१० ॥
那些最优秀的勇士从四面八方包围,阻挡了无种、偕天,以及般度之子法王(坚战)。
6.105.11
ततो दुर्योधनो राजा शूराणां हयसादिनाम् ।
अयुतं प्रेषयामास पाण्डवानां निवारणे ॥ ६.१०५.११ ॥
于是国王难敌派遣一万名勇猛的骑兵,去阻挡般度诸子。
6.105.12
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे ।
खुराहता धरा राजंश्चकम्पे च ननाद च ॥ ६.१०५.१२ ॥
国王啊!那些如金翅鸟般迅猛冲入战阵的骑兵,马蹄踏击大地,大地震颤,轰然作响。
6.105.13
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा ।
महावंशवनस्येव दह्यमानस्य पर्वते ॥ ६.१०५.१३ ॥
那时马蹄声极其巨大,如同山上燃烧的大竹林发出的爆裂声。
6.105.14
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः ।
दिवाकररथं प्राप्य च्छादयामास भास्करम् ॥ ६.१०५.१४ ॥
那里被跳跃的它们扬起的巨大尘土,直达太阳之车,遮蔽了太阳。
6.105.15
वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवीक चमूः ।
निपतद्भिर्महावेगैर्हंसैरिव महत्सरः ॥ ६.१०५.१५ ॥
般度之子的军队被那些迅猛的马所震动,如同大湖被疾速落下的天鹅所搅动。
6.105.16
हेषतां चैव शब्देन न प्राज्ञायत किंचन ।
अन्तर्दधे महाञ्शब्दस्तेन शब्देन मोहितः ॥ ६.१०५.१६ ॥
在马嘶之声中已无法分辨任何东西;那巨大的声音消失了,人人都被那声音迷惑。
6.105.17
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ ।
प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम् ॥ ६.१०५.१७ ॥
于是,国王坚战与摩德丽的两个儿子般度族人,在战场上猛烈地抵挡了骑兵的冲击。
6.105.18
उद्वृत्तस्य महाराज प्रावृट्कालेऽतिपूर्यतः ।
पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः ॥ ६.१०५.१८ ॥
大王啊,雨季中满溢翻涌的水势,在望日时被大海的岸边所阻挡一般,被遏止了。
6.105.19
ततस्ते रथिनो राजञ्शरैः सन्नतपर्वभिः ।
न्यकृन्तन्नुत्तमाङ्गानि शरेण हयसादिनाम् ॥ ६.१०५.१९ ॥
于是那些车战武士,大王啊,用节部弯曲的箭,斩下骑兵的头颅,每一箭斩一颗头。
6.105.20
ते निपेतुर्महाराज निहता दृढधन्विभिः ।
नागैरिव महानागा यथावद्गिरिगह्वरे ॥ ६.१०५.२० ॥
大王啊,他们被坚定的弓手所杀而倒下,如同山洞中的大象被其他大象杀死而倒地。
6.105.21
तेऽपि प्रासैः सुनिशितैः शरैः सन्नतपर्वभिः ।
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश ॥ ६.१०५.२१ ॥
他们也在十方奔走,用锋利的长矛和节部弯曲的箭斩下头颅。
6.105.22
अभ्याहता हयारोहा ऋष्टिभिर्भरतर्षभ ।
अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः ॥ ६.१०५.२२ ॥
骑士们被长矛刺中,婆罗多中的雄牛啊,他们失去了头颅,犹如大树落下果实。
6.105.23
समादिनो हया राजंस्तत्रतत्र निषूदिताः ।
पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सर्वशः ॥ ६.१०५.२३ ॥
大王啊,载着骑士的马匹在各处被屠杀;倒地的和正被击倒的,到处可见。
6.105.24
वध्यमाना हयाश्चैव प्राद्रवन्त भयार्दिताः ।
यथा सिंहं समासाद्य मृगाः प्राणपरायणाः ॥ ६.१०५.२४ ॥
正被杀戮的马匹因恐惧而痛苦地奔逃,如同靠近狮子的鹿一样只顾保全性命而逃。
6.105.25
पाण्डवाश्च महाराज जित्वा शत्रून्महामृधे ।
दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे ॥ ६.१०५.२५ ॥
大王啊,般度之子在大战中战胜敌人,吹响海螺,在战场上敲击战鼓。
6.105.26
ततो दुर्योधनो दीनो दृष्ट्वा सैन्यं पराजितम् ।
अब्रवीद्रतश्रेष्ठ मद्रराजमिदं वचः ॥ ६.१०५.२६ ॥
此时,见军队战败,沮丧的难敌对车战之首的摩德罗王说了这番话。
6.105.27
एष पाण्डुसुतो ज्येष्ठो यमाभ्यां सहितो रणे ।
पश्यतां वो महाबाहो सेनां द्रावयति प्रभो ॥ ६.१०५.२७ ॥
主啊,请看!般度的长子与双生子一同,在战场上驱散着你的军队。
6.105.28
तं वारय महाबाहो वेलेव मकरालयम् ।
त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः ॥ ६.१०५.२८ ॥
大臂者啊,请阻挡他,如同海岸阻挡大海;你以难以抵御的力量与勇武而闻名。
6.105.29
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान् ।
स ययौ रथवंशेन यत्र राजा युधिष्ठिरः ॥ ६.१०५.२९ ॥
你的儿子说了那番话,英勇的沙利耶便率领一排战车,前往国王坚战所在之处。
6.105.30
तदापतद्वै सहसा शल्यस्य सुमहद्बलम् ।
महौघवेगं समरे वारयामास पाण्डवः ॥ ६.१०५.३० ॥
那时,沙利耶的庞大军队如大水暴涨般骤然冲来,但般度之子在战场上将其阻挡。
6.105.31
मद्रराजं च समरे धर्मराजो महारथः ।
दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे ।
नकुलः सहदेवश्च तं सप्तभिरजिह्नगैः ॥ ६.१०५.३१ ॥
在战斗中,大战车手法王迅速以十支箭射中摩德罗国王的胸膛中央。那拉和萨哈德瓦以七支笔直的箭射中了他。
6.105.32
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः ।
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः ॥ ६.१०५.३२ ॥
摩德罗国王也用每人三支箭射中了他们所有人,随后又以六十支锐利的箭射穿了坚战。
6.105.33
माद्रीपुत्रौ च संभ्रान्तौ द्वाभ्यां द्वाभ्यामताडयत् ।
ततो भीमो महाबहुर्दृष्ट्वा राजनमाहवे ॥ ६.१०५.३३ ॥
他用每人两支箭射中了惊慌的玛德丽之子二人。那时,大臂的怖军在战场上看见了国王,
6.105.34
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा ।
अभ्यपद्यत संग्रामे युधिष्ठिरममित्रजित् ॥ ६.१०५.३४ ॥
坚战落入摩德罗国王的掌控,仿佛已入死亡之口,征服敌人的怖军在战场上赶来救援。
6.105.35
आपतन्नेव भीमस्तु मद्रराजमताडयत् ।
सर्वपारशवैस्तीक्ष्णैर्नाराचैर्मर्मभेदिभिः ॥ ६.१०५.३५ ॥
怖军冲上前去,以锐利的那罗遮箭(皆为波罗舍婆型)射中摩德罗国王,直穿要害。
6.105.36
ततो भीष्मश्च द्रोणश्च सैन्येन महता वृतौ ।
राजानमभ्यपद्येतामञ्जसा शरवर्षिणौ ॥ ६.१०५.३६ ॥
于是毗湿摩与德罗纳,被大军环绕,降下箭雨,迅速径直向国王奔来。
6.105.37
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम् ।
अपरां दिशमास्थाय द्योतमाने दिवाकरे ॥ ६.१०५.३७ ॥
于是一场极其可怖、异常惨烈的战斗开始了,此时明亮的太阳正位于西方。