摩诃婆罗多 · 章 6.106
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.106.1
ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः ।
आजघान रणे पार्थान्सहसेनान्समन्ततः ॥ ६.१०६.१ ॥
此时你的父亲愤怒地在战场上用锋利的上等箭,从四面八方射击普利塔之子及其军队。
6.106.2
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः ।
नकुलं च त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ ६.१०६.२ ॥
以十二箭射中毗摩,以九箭射中萨蒂亚基,以三箭射中那古拉,以七箭射中萨哈德瓦。
6.106.3
युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत् ।
धृष्टद्युम्नं ततो विद्ध्वा ननाद सुमहाबलः ॥ ६.१०६.३ ॥
以十二箭射中坚战的臂与胸,随后射中德立斯塔祖木那,大力者怒吼。
6.106.4
तं द्वादशाख्यैर्नकुलो माधवश्च त्रिभिः शरैः ।
धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च सप्तभिः ।
युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ॥ ६.१०६.४ ॥
那古拉以十二箭,摩陀婆以三箭,德立斯塔祖木那以七十箭,毗摩森以七箭,坚战以十二箭,反击了祖父(毗湿摩)。
6.106.5
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत ।
एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ॥ ६.१०६.५ ॥
德罗纳射中萨蒂亚基后,又以五支如阎摩之杖般锋利的箭射中毗摩森,每人各五箭。
6.106.6
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः ।
तोत्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम् ॥ ६.१०६.६ ॥
二人也各以三支直飞的箭反击他,如以刺棒刺大象一般,攻击婆罗门中之最的德罗纳。
6.106.7
सौवीरा कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः।
संग्रमे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ॥ ६.१०६.७ ॥
索维罗人、基塔瓦人、东方、西方和北方诸族、摩罗婆人、阿毗沙诃人、舒罗森人、尸毗人和婆萨蒂人,虽被利箭射伤,仍未在战场上抛弃毗湿摩。
6.106.8
तथैवान्ये महीपाला नानादेशसमागताः ।
पाण्डवानभ्यवर्तन्त विविधायुधपाणयः ।
तथैव पाण्डवा राजन्परिवव्रुः पितामहम् ॥ ६.१०६.८ ॥
同样,其他从各地汇集而来的诸王手持各种兵器,向般度之子们冲去。大王啊,同样,般度之子们也包围了祖父。
6.106.9
स समन्तात्परिवृतो रथौघैरपराजितः ।
गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ॥ ६.१०६.९ ॥
他虽被四面车阵所围,仍不可战胜,如同在林中被放出的火焰,燃烧着敌人而熊熊燃烧。
6.106.10
रथाग्न्यगारश्चापार्चिरसिशक्तिगजेन्धनः ।
शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ॥ ६.१०६.१० ॥
以战车为火室,以弓为火焰,以刀剑、长矛和象为燃料,以箭为火星——毗湿摩之火焚烧了刹帝利中的雄牛。
6.106.11
यथा हि सुमहानग्निः कक्षे चरसि सानिलः ।
तथा भीष्मो महाराज दिव्यमस्त्रमुदीरयन् ॥ ६.१०६.११ ॥
正如大火随风在林中蔓延,大王啊,毗湿摩也放出神力之武器向前推进。
6.106.12
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः ।
कर्णिनालीकनाराचैश्छादयामास तद्बलम् ॥ ६.१०६.१२ ॥
他以金羽、禿鷲羽毛、磨得锋利的箭,以及 karṇi、nāla、īka 和 nārāca 箭,遮蔽了那支军队。
6.106.13
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः ।
मुण्डतालवनानीव चकार स रथव्रजान् ॥ ६.१०६.१३ ॥
他以利箭射倒旗帜与车兵,使车队如同被砍去树梢的棕榈林。
6.106.14
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे ।
अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ॥ ६.१०६.१४ ॥
大王,那位大臂者在战场上使战车、象与马都失去了乘者。他是众持兵器者中最优秀的。
6.106.15
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।
निशम्य सर्वभूतानि समकम्पन्त भारत ॥ ६.१०६.१५ ॥
婆罗多之子啊,听到他弓弦的响声如雷霆轰鸣,一切众生同时颤抖。
6.106.16
अमोघा ह्यपत्नबाणाः पितुस्ते भरतर्षभ ।
नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ॥ ६.१०६.१६ ॥
婆罗多族的雄牛啊,你父亲一方那从毗湿摩之弓射出的无误之箭,并未卡在甲胄之中。
6.106.17
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः ।
अपश्याम महाराज ह्रियमाणान्रणाजिरे ॥ ६.१०६.१७ ॥
大王啊,大王,我们看到战场上,套着快马的战车被拖走,车上的勇士已被杀死。
6.106.18
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश ।
महारथाः समाख्याताः कलपुत्रास्तनुत्यजः ।
अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ॥ ६.१०६.१८ ॥
车底、迦尸与卢沙的一万四千名大车战士,被称为迦罗之子,甘愿舍身,个个永不退缩,持有镶金的旗帜。
6.106.19
संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम् ।
निमग्नाः परलोकाय सवाजिरथकुञ्जराः ॥ ६.१०६.१९ ॥
在战斗中遇到毗湿摩,如张开大口的死神,他们连同马匹、战车和象群一起沉入了彼世。
6.106.20
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च भारत ।
अपश्याम महाराज शतशोऽथ सहस्रशः ॥ ६.१०६.२० ॥
婆罗多啊,大王,我们看到成百上千的战车,有的车轴和部件折断,有的车轮碎裂。
6.106.21
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः ।
शरैः सुकवचैश्छिन्नैः पट्टसैश्च विशांपते ॥ ६.१०६.२१ ॥
战车连同车盖都已破碎,车兵被击倒,箭矢与刀剑斩断了身着良甲的战士,啊,人主。
6.106.22
गदाभिर्भिण्डिपालैश्च निशितैश्च शिलीमुखैः ।
अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ॥ ६.१०६.२२ ॥
铁棍、投枪、锐利的箭矢、拉索、箭囊与断裂的车轮,啊,尊者。
6.106.23
बाहुभिः कार्मुकैः खङ्गैः शिरोभिश्च सकुण्डलैः ।
तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः।
चापैश्च बहुधा च्छिन्नैः समास्तीर्यत मेदिनी ॥ ६.१०६.२३ ॥
手臂、弓、剑、戴着耳环的头颅、护手、指套和旗帜纷纷倒地,断成多段的弓遍布,大地被覆盖。
6.106.24
गजारोहा गजान्राजन्हयांश्च हयसादिनः ।
अभिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ॥ ६.१०६.२४ ॥
大王,象骑者驱象、骑兵策马,迅速冲向那里,成百上千。
6.106.25
यतमानाश्च ते वीरा द्रवमाणान्महारथान् ।
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ॥ ६.१०६.२५ ॥
那些英雄虽然奋力抵抗,却无法阻止被毗湿摩之箭所困扰而逃奔的大车战士。
6.106.26
महेन्द्रसमवीर्येण वध्यमाना महाचमूः ।
अभज्यत महाराज न च द्वौ समधावताम् ॥ ६.१०६.२६ ॥
大王啊,那支大军被与因陀罗同等勇力者(毗湿摩)所杀,已经崩溃;甚至没有两人同行逃走。
6.106.27
आविद्धरथनागाश्वं पतितध्वजसंकुलम् ।
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥ ६.१०६.२७ ॥
般度之子的军队,车、象、马四散,堆满倒下的旗帜,陷入哀号之中,失去了知觉。
6.106.28
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथ ।
प्रियं सखाय चाक्रन्दे सखा दैवबलात्कृतः ॥ ६.१०६.२८ ॥
此处父杀子,子杀父;亲爱的朋友呼唤朋友,而那朋友被天命之力所驱使。
6.106.29
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः ।
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त सर्वशः ॥ ६.१०६.२९ ॥
般度之子的其他士兵脱去铠甲,披散头发,四处奔逃,随处可见。
6.106.30
तद्गोकुलमिवोद्भ्रान्तमुद्भान्तरथकूबरम् ।
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥ ६.१०६.३० ॥
那时,般度之子的大军显得惊慌散乱,犹如一群牛,战车的辕木剧烈摇晃,以痛苦的声音哀号。
6.106.31
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः ।
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥ ६.१०६.३१ ॥
见大军溃败,耶达瓦的欢喜者克里希纳勒住上好的战车,对彭睇(毗跋particularly)之子、可畏的比毗兹摩说道。
6.106.32
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्तव ।
प्रहरास्मै नरव्याघ्र भीष्मायाहवशोभिने ॥ ६.१०६.३२ ॥
彭睇之子啊,你所期望的时刻已经到来。人中之虎啊,去攻击这位在战斗中光彩夺目的毗湿摩吧。
6.106.33
यत्पुरा कथितं वीर त्वया राज्ञां समागमे ।
विराटनगरे तात सञ्जयस्य समीपतः ॥ ६.१०६.३३ ॥
勇士啊,亲爱的,你曾在毗罗吒城的诸王集会上,在桑闍耶身旁所说的话。
6.106.34
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् ।
सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति सङ्गरे ॥ ६.१०६.३४ ॥
凡与我在战斗中交战的,以毗湿摩和德罗纳为首的持国之子的全部士兵,连同他们的随从,我都将杀死。
6.106.35
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम ।
क्षत्रधर्ममनुस्मृत्य युध्यस्व विगतज्वरः ॥ ६.१०६.३५ ॥
因此,昆蒂之子啊,就照这样做吧。敌人的征服者啊,这是真实的话语。记住刹帝利的本分,无忧无虑地战斗吧。
6.106.36
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः ।
अकाम इव बीभत्सुरिदं वचनमब्रवीत् ॥ ६.१०६.३६ ॥
毗湿提婆(克里希纳)如此说后,比毗兹摩侧目低头,仿佛不情愿,说出了这些话。
6.106.37
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् ।
दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ॥ ६.१०६.३७ ॥
杀害不应被杀之人,无论是以比地狱更甚的代价获得王国,还是林中流放的苦难,于我而言又有何善果可言?
6.106.38
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव ।
पातयिष्यामि दुर्धर्षं भीष्मं कुरुपितामहम् ॥ ६.१०६.३८ ॥
"把马驱向别处;我将遵从你的话。我要击倒那不可战胜的毗湿摩,俱卢的祖父。"
6.106.39
स चाश्वान्रजतप्रख्यांश्चोदयामास माधवः ।
यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव । ॥ ६.१०६.३९ ॥
摩陀婆驱策那些银光闪耀的骏马,朝着毗湿摩所在之处而去,大王——它们如同光芒四射的太阳,令人难以直视。
6.106.40
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् ।
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे ॥ ६.१०६.४० ॥
于是,坚战那支庞大的军队又转身退回,因为它看见臂力强大的般度之子(阿周那)在战场上向毗湿摩逼近。
6.106.41
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः ।
धनंजयरथं शीघ्रं शरवर्षैरवाकिरत् ॥ ६.१०६.४१ ॥
于是,俱卢中最杰出的毗湿摩如狮子般一再咆哮,迅速以箭雨覆盖了持财(阿周那)的战车。
6.106.42
क्षणेन स रथस्तस्य सहयः सहसारथिः ।
शरवर्षेण महता न प्राज्ञायत भारत ॥ ६.१०६.४२ ॥
顷刻之间,他的战车连同马匹与御者,都被那巨大的箭雨所覆盖,婆罗多啊,已无法辨认。
6.106.43
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्वरः ।
चोदयामास तानश्वान्विनुन्नान्भीष्मसायकैः ॥ ६.१०६.४३ ॥
然而婆苏提婆镇定自若,坚定地迅速驱策那些被毗湿摩之箭所伤的马匹。
6.106.44
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् ।
पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ॥ ६.१०६.४४ ॥
于是普利塔之子取起如雷鸣般声响的神弓,以锐利的箭射断并击落了毗湿摩的弓。
6.106.45
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः ।
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥ ६.१०६.४५ ॥
那位弓被射断的俱卢族人又取了另一张大弓,在一瞬之间便为它上好了弦——即你的父亲。
6.106.46
चकर्ष च ततो दोर्भ्यां धनुर्जलदनिःस्वनम् ।
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ।
तस्य तत्पूजयामास लाघवं शन्तनोः सुतः ॥ ६.१०६.४६ ॥
随后他双臂拉开另一张如雷鸣般声响的弓,但愤怒的阿周那也将它斩断。山塔努之子赞叹他的敏捷。
6.106.47
गाङ्गेयस्त्वब्रवीत्पार्थं धन्विश्रेष्ठमरिंदम ।
साधुसाधु महाबाहो साधु कुन्तीसुतेति च ॥ ६.१०६.४७ ॥
然而恒河之子对普利塔之子——弓手中最优秀者、制敌者——说道:“善哉,善哉!善哉,大臂的贡蒂之子!”
6.106.48
समाभाष्यैवमपरं प्रगृह्य रुचिरं धनुः ।
मुमोच समरे भीष्मः शरान्पार्थरथं प्रति ॥ ६.१०६.४८ ॥
毗湿摩如此说罢,又取起另一张精美的弓,在战斗中向普利塔之子的战车射出箭矢。
6.106.49
अदर्शयद्वसुदेवो हययाने परं बलम् ।
मोघान्कुर्वञ्शरांस्तस्य मण्डलानि निदर्शयन् ॥ ६.१०६.४९ ॥
婆苏提婆在马驾的战车上显示了他的超群力量,使毗湿摩的箭矢落空,并展示了环形的回旋动作。
6.106.50
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ ।
गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ॥ ६.१०६.५० ॥
那两位人中之虎,被毗湿摩的箭矢所伤,闪耀如同被角抵划出痕迹的两头愤怒的公牛。
6.106.51
वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् ।
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ॥ ६.१०६.५१ ॥
然而婆苏提婆仔细观察了阿周那温和的作战方式,以及在战场上不断倾泻箭雨的毗湿摩。
6.106.52
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः ।
वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ॥ ६.१०६.५२ ॥
他来到两军中间,如太阳般炽烈,一个接一个地击杀般度之子最优秀的士兵。
6.106.53
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले ।
नामृष्यत महाबाहुर्माधवः परवीरहा ॥ ६.१०६.५३ ॥
见毗湿摩在坚战的军中造成如同劫末般的毁灭,大臂的摩陀婆——敌方英雄的杀手——无法忍受。
6.106.54
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष ।
वासुदेवस्ततो योगी प्रचस्कन्द महारथात् ॥ ६.१०६.५४ ॥
那时,尊贵的人啊,瑜伽行者婆苏提婆松开了阿周那银白色的马,从大战车上跳了下来。
6.106.55
अभिदुद्राव भीष्मं स भुजप्रहरणो बली ।
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः ॥ ६.१०६.५५ ॥
他以双臂为武器,强大而光辉,手持刺棒,如狮子般一再咆哮,向毗湿摩冲去。
6.106.56
दारयन्निव पद्भ्यां स जगतीं जगदीश्वरः ।
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः ॥ ६.१०६.५६ ॥
他仿佛以双足劈开大地,世界之主克里希那双眼因愤怒而发红,怀着杀意,光辉无量,向前迈进。
6.106.57
ग्रसन्निव च तेजांसि तावकानां महाहवे ।
दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यतमन्तिके ॥ ६.१०६.५७ ॥
仿佛在大战中吞噬你军战士的光辉,见摩陀婆在喧嚣中近于毗湿摩处举起,
6.106.58
हतो भीष्मो हतो भीष्म इति तत्रस्म सैनिकाः ।
क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयातुराः ॥ ६.१०६.५८ ॥
他们高喊:“毗湿摩死了!毗湿摩死了!”所有士兵因畏惧婆苏提婆而四散奔逃。
6.106.59
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः ।
शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ॥ ६.१०६.५९ ॥
身披黄色丝绸,黑如宝石的遮那陀那向毗湿摩疾奔,光彩如缠绕闪电的云。
6.106.60
स सिंह इव मातङ्गं यथर्षभ इवर्षभम् ।
अभिदुद्राव वेगेन विनदन्यादवर्षभः ॥ ६.१०६.६० ॥
如狮扑象,如牛抵牛,那位最杰出的雅达瓦咆哮着,迅疾地扑向毗湿摩。
6.106.61
तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे ।
असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः ।
उवाच चैव गोविन्दमसंभ्रान्तेन चेतसा ॥ ६.१०६.६१ ॥
毗湿摩见莲花眼者在战斗中向他冲来,便在战场上镇定地拉开他的大弓,以不乱的心对哥文达说道。
6.106.62
एह्येहि पुण्डरीकाक्ष देवदेव नमोस्तु ते ।
मामद्य सात्वतश्रेष्ठ तापयस्त महाहवे ॥ ६.१०६.६२ ॥
来吧,来吧,莲花眼者,神中之神,向你致敬。萨特瓦特中的至上者,今日在这场大战中折磨我吧。
6.106.63
त्वया हि देव संग्रामे हतस्यापि ममानघ ।
श्रेय एव परं कृष्ण लोके भवति सर्वतः ॥ ६.१०६.६३ ॥
神啊,无垢的克里希那,即使我在战斗中被你所杀,对我而言,世间四面八方都会带来至上的福祉。
6.106.64
संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे ।
प्रहरस्व यथेष्टं वै दासोऽस्मि तव चानघ ॥ ६.१०६.६४ ॥
哥文达,今日在这场战斗中,我受到三界的尊崇。随你心意打击吧,无垢者;我是你的仆人。
6.106.65
अन्वगेव ततः पार्थः समभिद्रुत्य केशवम् ।
निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ॥ ६.१०६.६५ ॥
于是帕尔塔紧随其后扑向柯舍婆,那位大臂者以双臂紧紧抱住了他。
6.106.66
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः ।
जगामैवैनमादाय वेगेन पुरुषोत्तमः ॥ ६.१०६.६६ ॥
虽被帕尔塔抓住,莲花眼的克里希那,至上之人,仍带着他迅速前行。
6.106.67
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा ।
निजग्राह हृषीकेशं कथंचिद्दशमे पदे ॥ ६.१०६.६७ ॥
普利塔之子阿周那,诛杀敌方英雄者,用力抓住黑天的双足,在第十步上勉强把感官之主抓住了。
6.106.68
तत एवमुवाचार्तः क्रोधपर्याकुलेक्षणम् ।
निःश्वसन्तं यथा नागमर्जुनः प्रणयात्सखा ॥ ६.१०६.६८ ॥
于是忧伤的阿周那出于亲爱,对他的朋友这样说道,那朋友双眼因愤怒而激动,像大象一样喘息。
6.106.69
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि ।
यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ॥ ६.१०६.६९ ॥
大臂者啊,请回去吧;你不应当行虚妄之事。羯舍婆啊,你先前曾说:“我不会战斗。”
6.106.70
मिथ्यावादीति लोकास्त्वां कथयिष्यन्ति माधव ।
ममैष भारः सर्वो हि हनिष्यामि पितामहम् ॥ ६.१०६.७० ॥
世人会称你为说谎者,摩陀婆啊。这全部重担都在我身上;我必定要杀死祖父。
6.106.71
शपे केशव शस्त्रेण सत्येन सुकृतेन च ।
अन्तं यथा गमिष्यामि शत्रूणां शत्रुसूदन ॥ ६.१०६.७१ ॥
羯舍婆啊,我以武器、以真实、以善业发誓:我必定会达到敌人的终结,灭敌者啊。
6.106.72
अद्यैव पश्य दुर्धर्षं पात्यमानं महारथम् ।
तारापतिमिवापूर्णमन्तकाले यदृच्छया ॥ ६.१०६.७२ ॥
今日便看那难以抵挡的大车将被击倒,好似星辰之主月亮,在终结之时偶然亏损。
6.106.73
माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः ।
अभवत्परमप्रीतो दृष्ट्वा पार्थस्य विक्रमम्।
न किंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः ॥ ६.१०६.७३ ॥
摩陀婆听了伟大的频伽那之言,又见到帕尔塔的勇武,非常高兴。他什么也没说,怀着愤怒,再次登上战车。
6.106.74
तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः ।
ववर्ष शरवर्षेण मेघो वृष्ट्या यथाऽचलौ ॥ ६.१०६.७४ ॥
站在战车上的那两位人中之虎,又遭到珊塔努之子毗湿摩的箭雨倾泻,如同乌云向两座山峰降下大雨。
6.106.75
प्राणानादत्त योधानां पिता देवव्रतस्तव ।
गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ॥ ६.१०६.७५ ॥
你的父亲提婆跋罗多夺去了战士的性命,如同寒冬将尽时太阳以光芒吸取万物的光辉。
6.106.76
यथा कुरूणां सैन्यानि बभञ्जुर्युधि पाण्डवाः ।
तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ॥ ६.१०६.७६ ॥
正如般度之子们在战斗中击溃了俱卢的军队,你的父亲也在战斗中击溃了般度之子的军队。
6.106.77
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः ।
निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे ॥ ६.१०६.७७ ॥
被击杀而溃散的军队,失去斗志、心神慌乱,在战场上甚至不敢直视无与伦比的毗湿摩。
6.106.78
मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा ।
ते वध्यमाना भीष्मेण शतशोऽथ सहस्रशः ॥ ६.१०६.७८ ॥
如同正午的太阳以自身光辉炽烈燃烧,他们被毗湿摩成百上千地杀死。
6.106.79
कुर्वाणं समरे कर्माण्यतिमानुषविक्रमम् ।
वीक्षांचक्रुर्महाराज पाण्डवा भयपीडिताः ॥ ६.१०६.७९ ॥
大王啊,被恐惧折磨的般度之子们看见他在战场上施展超越常人的勇猛之业。
6.106.80
तथा पाण्डवसैन्यानि द्राव्यमाणानि भारत ।
त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव।
पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ॥ ६.१०६.८० ॥
婆罗多之后啊,般度军队被如此驱逐,找不到救护者,如同陷在泥中的牛;在战斗中被强者碾碎,如同弱小的蚂蚁。
6.106.81
तथैव योधा राजेन्द्र भीष्मेणामित्रघातिना ।
समरे मृदिताः सर्वे पाण्डवाः सह सृञ्जयैः ॥ ६.१०६.८१ ॥
诸王之主啊,同样,般度的战士与娑罗奈人全都在战斗中被克敌的毗湿摩碾碎了。
6.106.82
महारथं भारत दुष्प्रकम्पं ।
शरौघिणं प्रतपन्तं नरेन्द्रान्।
भीष्मं न शेकुः प्रतिवीक्षितुं ते ।
शरार्चिषं सूर्यमिवातपन्तम् ॥ ६.१०६.८२ ॥
婆罗多之后啊,他们甚至不能直视毗湿摩——那伟大的车战勇士,难以撼动,倾泻箭雨,灼烧人主,以箭焰闪耀,如同炽烤的太阳。
6.106.83
विमृद्गतस्तस्य तु पाण्डुसेना-
मस्तं जगामाथ सहस्ररश्मिः।
ततो हि भीष्मः सबलान्ससैन्या-
न्न्यवारयत्पाण्डुसुताञ्शरौघैः ॥ ६.१०६.८३ ॥
当般度军队被他碾碎时,千光之日落下了;然后毗湿摩以箭的洪流阻住了般度之子及其兵力与军队。
6.106.84
मनोऽवहारं प्रति संबभूव ॥ ६.१०६.८४ ॥
心志随之退转。