摩诃婆罗多 · 章 6.108
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.108.1
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे ।
पाण्डवाश्च कथं भीष्मं तन्ममाचक्ष्व सञ्जय ॥ ६.१०८.१ ॥
在战斗中,始佉延底如何迎战甘迦之子(毗湿摩)?般度之子又如何攻击毗湿摩?善胜啊,请把一切告诉我。
6.108.2
ततः प्रभाते विमले सूर्यस्योदयनं प्रति ।
ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥ ६.१०८.२ ॥
然后,在清晨明净之时,朝向太阳升起的方向,当大鼓、腰鼓与小鼓被敲响时……
6.108.3
ध्मायमानेषु शङ्खेषु पाण्डरेषु समन्ततः ।
शिखण्डिनं पुरस्कृत्य निर्याप्ताः पाण्डवा युधि ॥ ६.१०८.३ ॥
四面白色的螺号响起时,般度之子们推举始佉延底在前,出阵迎战。
6.108.4
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् ।
शिखण्डी सर्वसैन्यानामग्र आसीद्विशांपते ॥ ६.१०८.४ ॥
大王啊,他布成了能摧毁一切敌人的阵势;人主啊,始佉延底站在所有军队的最前列。
6.108.5
चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥ ६.१०८.५ ॥
其后,护卫两翼者是毗摩森那与财主(阿周那);后方则是德劳波蒂的诸子与勇猛的苏跋陀罗之子。
6.108.6
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः ।
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ॥ ६.१०८.६ ॥
萨提亚基与伊吉坦那,两位大车将,是他们的护卫者;其后,在般遮罗人护卫之下的是猛光。
6.108.7
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः ।
प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥ ६.१०८.७ ॥
于是国王坚战,主上,与两位双生子同行,以狮吼震动四方,婆罗多族的雄牛啊。
6.108.8
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृत्तः ।
द्रुपदश्च महाबाहो ततः पञ्चादुपाद्रवत् ॥ ६.१०८.८ ॥
随后毘罗吒被自己的军队环绕,居于后方;大臂者啊,德鲁帕达也从后方前进。
6.108.9
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् ।
जघनं पालयामासुः पाण्डवेयश्च राक्षसः ॥ ६.१०८.९ ॥
迦迦耶的五位兄弟与勇猛的德里什塔克图,般度之子及罗刹守护后方。
6.108.10
एवं व्यूह्य महासैन्यं पाण्डवास्तव वाहिनीम् ।
अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः ॥ ६.१०८.१० ॥
如此布置大军之后,般度子孙在战中舍弃自身性命,冲向你的军队。
6.108.11
तथैव कुरवो राजन्भीष्मं कृत्वा महारथम् ।
अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥ ६.१०८.११ ॥
同样,国王啊,俱卢族人以毗湿摩为大车将置于诸军之前,向般度子孙进发。
6.108.12
पुत्रैस्तव दुराधर्षो रक्षितः सुमहाबलैः ।
ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः ॥ ६.१०८.१२ ॥
你那些极其强大的儿子守护着这支难以攻破的军队;然后是大弓手德罗纳及其大力之子。
6.108.13
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः ।
कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ॥ ६.१०८.१३ ॥
随后在后方是被象军包围的婆伽达多;克里巴与克里塔伐尔曼追随婆伽达多。
6.108.14
काम्भोजराजो बलवांस्ततः पश्चात्सुदक्षिणः ।
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥ ६.१०८.१४ ॥
随后在后方是强大的甘博阇王苏达克希那;还有摩揭陀王阇耶森那、苏跋罗之子以及勃诃德跋罗。
6.108.15
तथैवान्ये महेष्वासाः सुशर्मप्रमुखा नृपाः ।
जघनं पालयामासुस्तव सैन्यस्य भारत ॥ ६.१०८.१५ ॥
同样,以苏沙尔曼为首的其他大弓箭手诸王,守卫着你军的后方,婆罗多的后裔啊。
6.108.16
दिवसेदिवसे प्राप्ते भीष्मः शान्तनवो युधि ।
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ॥ ६.१०८.१६ ॥
战斗日复一日来临时,山陀王之子毗湿摩在战场上布置了阿修罗、毗舍遮与罗刹阵形。
6.108.17
ततः प्रववृते युद्धं तव तेषां च भारत ।
अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ॥ ६.१०८.१७ ॥
于是,婆罗多啊,你的军队与他们之间爆发了战斗;国王啊,他们互相攻击,进行着一场使王国与国家得以扩大的争斗。
6.108.18
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् ।
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् ॥ ६.१०८.१८ ॥
以阿周那为首的普利塔之子们,将湿坎丁置于前列,在战场上向毗湿摩进攻,倾泻各式各样的箭矢。
6.108.19
तत्र भारत भीमेन ताडितास्तावकाः शरैः ।
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ॥ ६.१०८.१९ ॥
婆罗多啊,那里你的战士被毗摩的箭射中,浸透在血流之中,当时便前往了另一个世界。
6.108.20
नकुलः सहदेवश्च सात्यकिश्च महारथः ।
तव सैनयं समासाद्य पीडयामासुरोजसा ॥ ६.१०८.२० ॥
无种、偕天与大车将萨谛奇攻击你的军队,以力量压迫它。
6.108.21
ते वध्यामानाः समरे तावका भरतर्षभ ।
नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ॥ ६.१०८.२१ ॥
婆罗多雄牛啊,你的战士在战斗中被击中,无法阻挡般度子孙的庞大军力。
6.108.22
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः ।
संप्राद्रवद्दशः दिशः काल्यमानं महारथैः ॥ ६.१०८.२२ ॥
于是你的军队四面受击,被大车将驱赶,向十个方向奔逃。
6.108.23
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ ।
वध्यमानाः शितैर्बाणैः पाण्डवैः सह सृञ्जयैः ॥ ६.१०८.२३ ॥
婆罗多雄牛啊,你的战士找不到任何保护者,被般度子孙与斯林加耶人的利箭射中。
6.108.24
पीड्यमानं बलं दृष्ट्वा पार्थैर्भीष्मः पराक्रमी ।
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ॥ ६.१०८.२४ ॥
见自己的军队被普利塔之子所压迫,威猛的毗湿摩在战斗中愤怒地做了什么?桑闍耶,请把那告诉我。
6.108.25
कथं वा पाण्डवा युद्धे प्रत्युद्याताः परंतपाः ।
निघ्नन्तो मामकान्वीरांस्तन्ममाचक्ष्व सञ्जय ॥ ६.१०८.२५ ॥
在战场上,折磨敌人的般度子孙如何击杀我的勇士而前进?桑闪耶,把这些告诉我。
6.108.26
आचक्षे ते महाराज यदकार्षीत्पिता तव ।
पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः ॥ ६.१०८.२६ ॥
伟大的国王啊,当你儿子的军队被般度子孙和萨陵阇耶人折磨时,你的父亲做了什么,我来告诉你。
6.108.27
प्रंहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज ।
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥ ६.१०८.२७ ॥
般度的后裔啊,心中欢喜的勇猛般度子孙,击打着你儿子的军队向前推进。
6.108.28
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् ।
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥ ६.१०८.२८ ॥
人主啊,毗湿摩当时无法忍受人、象、马的那场毁灭,也无法忍受战场上军队被敌人所杀。
6.108.29
स पाणडवान्महेष्वासः पञ्चालांश्चैव सृञ्जयान् ।
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥ ६.१०८.२९ ॥
那位大弓箭手以铁箭、牛犊齿箭和锐利的合掌箭遮蔽了般度子孙、般遮罗人和萨陵阇耶人。
6.108.30
अभ्यवर्षत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ।
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् ॥ ६.१०८.३० ॥
这位难以抵挡的英雄舍弃了自己的性命,倾泻箭雨;国王啊,他向般度子孙中五位最杰出的大车战士倾泻箭矢。
6.108.31
आत्तशस्त्रो रणे यत्नाद्वारयामास सायकैः ।
नानाशस्त्रास्त्रवर्षैस्तान्वीर्यामर्षप्रवेरितैः ॥ ६.१०८.३१ ॥
他在战场上拿起武器,以箭努力阻挡他们;以各种兵器与法器如雨倾泻,因勇力与愤怒所激,他将他们拦阻。
6.108.32
निजघ्ने समरे क्रुद्धो हस्त्यश्वं चामितं बहु ।
रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभ ॥ ६.१०८.३२ ॥
他在战场上愤怒,击杀了无数的象与马;大王啊,人中之牛,他把车战武士从车上打落。
6.108.33
सादिनश्चाश्वपृष्ठेभ्यः पादातांश्च समागतान् ॥ ६.१०८.३३ ॥
他又把骑兵从马背上打落,也打倒了聚集起来的步兵。
6.108.34
गजारोहान्गजेभ्यश्च परेषां जयकारिणः ।
तमेकं समरे भीष्मं त्वरमाणं महारथम् ॥ ६.१०८.३४ ॥
他把象上的骑手从象背打落,也打倒了敌人中谋求胜利者。在战场上,只有一人、急速前进的大车士毗湿摩被他们包围。
6.108.35
पाण्डवाः समवर्तन्त वज्रहस्तमिवासुराः ।
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्छरान् ॥ ६.१०८.३५ ॥
般度之子们如阿修罗围向执金刚者一样向他聚拢,并开始射出锐利的箭,其触感如因陀罗的雷霆。
6.108.36
दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः ।
मण्डलीभूतमेवास्य नित्यं धनुरदृश्यत ॥ ६.१०८.३६ ॥
他在各个方向显现,现出可怖的形体;他的弓不断地呈现,仿佛已成为一个圆圈。
6.108.37
संग्रामे युध्यमानस्य शक्रचापोपमं महत् ।
तदृष्ट्वा समरे कर्म पुत्रास्तव विशांपते ॥ ६.१०८.३७ ॥
人主啊!你的儿子们看到他在战场上如因陀罗之弓般伟大的战功,便(如此行事)。
6.108.38
विस्मायं परमं गत्वा पितामहमपूजयन् ।
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव ॥ ६.१०८.३८ ॥
般度之子们极度惊叹,心中沮丧,敬拜了祖父,并望向你的父亲。
6.108.39
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ।
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥ ६.१०८.३९ ॥
如同诸神不能阻挡在战场上奋战的英雄毗婆质底,他们也无法阻挡这个如张口死神般的人。
6.108.40
दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः ।
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥ ६.१०८.४० ॥
到了第十天,他们以利箭焚毁了尸孙丁的战车军阵,如同黑色路径的火焚烧森林。
6.108.41
तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्सनान्तरे ।
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥ ६.१०८.४१ ॥
尸孙丁在战斗中间以三箭射中他,如同愤怒的毒蛇,或如时间所造的死神。
6.108.42
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् ।
पुनर्नालोकयत्क्रुद्धः प्रहसन्निदमब्रवीत् ॥ ६.१०८.४२ ॥
毗湿摩被他重创,看了尸孙丁一眼,随即愤怒地不再看他,笑着说了这番话。
6.108.43
कामं प्रहर वा मा वा न त्वां योत्स्ये कथंचन ।
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥ ६.१०८.४३ ॥
你攻击也好,不攻击也好,我绝不会与你交战。造物主怎样造就了你,你便是尸犍底尼。
6.108.44
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्च्छितः ।
उवाच भीष्मं समरे सृक्विणी परिलेलिहन् ॥ ६.१०८.४४ ॥
尸犍底听到他的这番话,怒火攻心,在战场上舔着嘴唇对毗湿摩说道。
6.108.45
जानामि त्वां महाबाहो क्षत्रियाणां भयंकरम् ।
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥ ६.१०८.४५ ॥
大臂者啊,我知道你对刹帝利来说是可怕的,我也听说过你与阇摩达吉尼之子的那场战斗。
6.108.46
दिव्यश्च ते प्रभावोऽयं मया च बहुशः श्रुतः ।
जनन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥ ६.१०८.४६ ॥
你这神圣的威力,我已多次听闻。虽然知道你的威力,今天我仍要与你交战。
6.108.47
पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम ।
अद्य त्वां योधयिष्यामि रणे पुरुषसत्तम ॥ ६.१०८.४७ ॥
为了使般度诸子欢喜,也为了我自己,最杰出的人啊,今天我要在战场上迫使你交战,最杰出的人啊。
6.108.48
ध्रुवं च त्वां हनिष्यामि शपे सत्येन तेऽग्रतः ।
एतच्छ्रुत्वा च मद्वाक्यं यत्कृत्यं तत्समाचर ॥ ६.१०८.४८ ॥
我必定会杀死你——我在你面前以真实发誓。听了这话和我的言语,你就去做应做的事吧。
6.108.49
कामं युध्यस्व वा मा वा न मे जीवन्प्रमोक्ष्यसे ।
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय ॥ ६.१०८.४९ ॥
你若愿意便战斗,或不战斗;只要我还活着,你便逃不掉。毗湿摩啊,好好看看这个世界吧,战场上的胜利者。
6.108.50
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः ।
अविध्यत रणे भीष्मं प्रतुदन्वाक्यसायकैः ॥ ६.१०८.५० ॥
说完这些,他便以五支弯曲节的箭射中毗湿摩,并在战场上用言语之箭刺激毗湿摩。
6.108.51
तस्य तद्वचनं श्रुत्वा सव्यसाची महारथः ।
कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत् ॥ ६.१०८.५१ ॥
萨维耶萨钦(阿周那)这位大战车手听了他的话,心想“正是此时”,便催促湿婆坚迪。
6.108.52
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः ।
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥ ६.१०८.५२ ॥
我将跟随你,以箭驱散敌人。满怀愤怒地冲向拥有可怖勇力的毗湿摩吧。
6.108.53
न हि ते संयुगे पीडां शक्ताः कर्तुं महाबलाः ।
तस्मादद्य महाबाहो यत्नाद्भीष्यमभिद्रव ॥ ६.१०८.५३ ॥
在战斗中,即便是强大的勇士也无法伤害你。因此,大臂者啊,今日请全力冲向毗湿摩。
6.108.54
अहत्वा समरे भीष्म यदि यास्यसि मारिष ।
अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥ ६.१०८.५४ ॥
毗湿摩啊,若你在战场上不杀我便离去,尊者,你将与我一起成为这世界的笑柄。
6.108.55
नावहास्या यथा वीर भवेम परमाहवे ।
तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥ ६.१०८.५५ ॥
啊英雄,为了使我们在这场大战中不被嘲笑,请在战斗中努力,去成就祖父(毗湿摩)。
6.108.56
कुरूंश्च सहितान्सर्वान्यतमानान्महारथान् ।
अहमावारयिष्यामि सावयस्व पितामहम् ॥ ६.१०८.५६ ॥
我将阻挡一同奋战的俱卢人和所有大车将。你去保护祖父。
6.108.57
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् ।
चित्रसेनं विकर्णं च सैन्धवं च यजद्रथम् ॥ ६.१०८.५७ ॥
还有德罗纳和德罗纳之子、克利帕,然后是苏约达那、奇特拉塞纳、毗迦尔纳,以及信度王胜车。
6.108.58
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम् ।
भगदत्तं तथा शूरं मागदं च महाबलम् ॥ ६.१०८.५८ ॥
阿槃提的两位国王频陀与阿努频陀、剑浮国王善右、英雄婆伽达多,以及大力的摩揭陀王。
6.108.59
सौमदत्तिं तथा शूरमार्श्यशृङ्गिं च राक्षसम् ।
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ॥ ६.१०८.५९ ॥
还有英雄苏摩达多之子、仙人麟角之后的罗刹,以及三伽多王,连同战场上所有的大车将。
6.108.60
अहमावारयिष्यामि वेलेव मकरालयम् ।
कुरूंश्च सहितान्सर्वान्युध्यमानान्महाबलान् ।
निवारयिष्यामि रणे साधयस्व पितामहम् ॥ ६.१०८.६० ॥
如同海岸阻挡大海,我将阻挡所有奋战的大力俱卢人。在战斗中去成就祖父吧。