Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.114

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.114.1

अर्जुनस्तु रणे शल्यं यतमानं महारथम् ।
छादयामास समरे शरैः सन्नतपर्वभिः ॥ ६.११४.१ ॥

全知者说:战场上,阿周那以弯曲有节的箭矢遮蔽了奋力作战的大车将沙利耶。

6.114.2

सुशर्माणं कृपं चव त्रिभीस्त्रिभिरविध्यत ।
प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् ॥ ६.११४.२ ॥

他以各三支箭射中苏沙尔曼与克里帕,战场上也同样射中了迦湿弥罗之王与信度王胜车。

6.114.3

चित्रसेनं विकर्णं च कृतवर्माणमेव च ।
दुर्मर्षणं च राजेन्द्र ह्यावन्त्यौ च महारथौ ॥ ६.११४.३ ॥

也包括质多罗犀那、毗羯尔纳与具陀跋摩;诸王之主啊,还有杜尔摩沙那,以及阿槃提的两位大车将。

6.114.4

एकैकं त्रिभिरानर्च्छत्कङ्कबर्हिणवाजितैः ।
शरैरतिरथो युद्धे पीडयन्वाहिनीं तव ॥ ६.११४.४ ॥

这位超级大车将以饰有鹤与孔雀羽的箭,每人各射三支,在战场上压迫着你的军队。

6.114.5

जयद्रथो रणे पार्थं विद्ध्वा भारत सायकैः ।
भीमं विव्याध तरसा चित्रसेनरथे स्थितः ॥ ६.११४.५ ॥

婆罗多的后裔啊,胜车在战场上以箭射中了般度之子,并站在质多罗犀那的车上,迅速也射中了怖军。

6.114.6

शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः ।
विव्याधाते महाराज बहुधा मर्ममेदिभिः ॥ ६.११४.६ ॥

沙利耶与克里帕,车战中的第一流勇士,大王啊,以穿透要害的箭,多方射中了胜利者阿周那。

6.114.7

चित्रसेनादयश्चैव पुत्रास्तव विशांपते ।
पञ्चाभिः पञ्चभिस्तूर्णं सुंयुगे निशितैः शरैः ॥ ६.११४.७ ॥

众生之主啊,恰特罗塞那等你的诸子也在善战中迅速各射出五支利箭。

6.114.8

आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष ।
तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ ॥ ६.११४.८ ॥

尊者啊,他们在战斗中打击了阿周那与婆罗摩西那;那里,车战者中最优秀的、贡蒂之子、婆罗多族的两头公牛,那两人遭到了打击。

6.114.9

अपीडयेतां समरे त्रिगर्तानां महद्बलम् ।
सुशर्माणि रणे पार्थं शरैर्नवभिराशुगैः ॥ ६.११४.९ ॥

他们二人在战斗中逼迫特里伽尔塔的大军;在战场上,他们以九支疾飞之箭逼迫苏沙尔曼与帕尔特ha。

6.114.10

ननाद बलवन्नादं त्रासयानो महद्बलम् ।
अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ ॥ ६.११४.१० ॥

他震慑大军,发出强大的吼声;其余的勇猛车战者,婆罗摩西那与达难闍耶,也都发出吼声。

6.114.11

विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः ।
तेषां च रथिनां मध्ये कौन्तेयौ भरतर्षभौ ॥ ६.११४.११ ॥

他们以锐利的、饰有金羽的、直飞的箭射穿了他们;在那些车战者之中,站着贡蒂的两个儿子,婆罗多族的两头公牛。

6.114.12

क्रीडमानौ रथोदारौ चित्ररूपौ व्यदृश्यताम् ।
आमिषेप्सू गवां मध्ये सिंहाविव मदोत्कटौ ॥ ६.११४.१२ ॥

那两位乘车的豪杰,形貌奇特,看去仿佛在嬉戏,如同在牛群中渴望肉食、因骄傲而狂怒的两头狮子。

6.114.13

छित्त्वा धनूंषि शूराणां शरांश्च बहुधा रणे ।
पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् ॥ ६.११४.१३ ॥

两位勇士在战场上将英雄们的弓和箭多方斩断,使成百上千人的头颅落地。

6.114.14

रथाश्च बहवो भग्ना हयाश्च शतशो हताः ।
गजाश्च सगजारोहाः पेतुरुर्व्यां महाहवे ॥ ६.११४.१४ ॥

许多战车被毁,数百匹马被杀,大象连同象夫在那场大战中倒在地上。

6.114.15

रथिनः सादिनश्चापि तत्रतत्र निषूदिताः ।
दृश्यन्ते बहवो राजन्वेषमानाः समन्ततः ॥ ६.११४.१५ ॥

大王啊,战车武士与骑兵也在这里那里被杀倒下,许多人在四周挣扎翻滚。

6.114.16

हतैर्गजपदात्योघैर्वाजिभिश्च निषूदितैः ।
रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी ॥ ६.११४.१६ ॥

大地被战死的象群、步兵的尸体堆、被杀的马匹以及多处破碎的战车完全覆盖了。

6.114.17

छत्रैश्च बहुधा च्छिन्नैर्ध्वजैश्च विनिपातितैः ।
अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत ॥ ६.११४.१७ ॥

婆罗多之子啊,大地也被多处斩断的伞盖、倒下的旗帜、丢弃的象钩以及象的饰物所覆盖。

6.114.18

केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा ।
उष्णीषैर्ऋष्टिभिश्चैव चामरव्यजनैरपि ॥ ६.११४.१८ ॥

还有臂环、手镯、项链、被踩碎的罗迦瓦衣料、头巾、长矛、牦牛尾拂尘和扇子。

6.114.19

तत्रतत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः ।
ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी ॥ ६.११४.१९ ॥

四处抛散的、涂着檀香的手臂与众王的大腿,将大地完全覆盖。

6.114.20

तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् ।
शरैः संवार्य तान्वीरान्यज्जघान महाबलः ॥ ६.११४.२० ॥

在那里,我们目睹了般度之子在战场上的奇妙勇武:那位大力者以箭遮蔽那些英雄,将他们击杀。

6.114.21

पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनपराक्रमम् ।
गाङ्गेयस्य रथाभ्याशमुपजग्मे महाबलः ॥ ६.११४.२१ ॥

你的儿子见到婆罗多与阿周那的勇武,那位大力者便前往恒河之子(毗湿摩)的战车附近。

6.114.22

कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।
विन्दानुविन्दावावन्त्यौ नाजहुः संयुगं तदा ॥ ६.११४.२२ ॥

慈悲者(Kṛpa)、Kṛtavarman、信度王胜车,以及阿槃提的两位王子毗湯陀与阿奴毗湯陀,当时都没有放弃战斗。

6.114.23

ततो भीमो महेष्वासः फल्गुनश्च महारथः ।
कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे ॥ ६.११४.२३ ॥

于是大弓手婆罗多(Bhīma)与大车将Phalguna(阿周那)在战场上猛烈冲击那可怕的俱卢军队。

6.114.24

ततो बर्हिणवाजानामयुतान्यर्बुदानि च ।
धनञ्जयरथे तूर्णं पातयन्ति स्म भूमिपाः ॥ ६.११४.२४ ॥

于是众王迅速将成千上万、乃至亿万支羽箭射向财富征服者(阿周那)的战车。

6.114.25

ततस्तञ्शरजालेन सन्निवार्य महारथान् ।
पार्थः समन्तात्समरे प्रेषयामास मृत्यवे ॥ ६.११४.२५ ॥

于是般度之子以箭网从四面阻挡那些大车将,在战场上将他们送往死亡。

6.114.26

शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः ।
आजघानोरसि क्रुद्धो भल्लैः सन्नतपर्वभिः ॥ ६.११४.२६ ॥

然而大车将沙利耶愤怒地,仿佛嬉戏一般,在战场上以带弯节的钩箭击中胜利者阿周那的胸膛。

6.114.27

तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः ।
अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि ॥ ६.११४.२७ ॥

阿周那以五支箭斩断了他的弓和护臂,然后以锐利的箭重创其要害之处。

6.114.28

अथान्यद्धनुरादाय समरे भारसाधनम् ।
मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः ॥ ६.११४.२८ ॥

于是摩德罗国主沙利耶取了另一张能承受战事重负的弓,愤怒地在战斗中打击胜利者阿周那。

6.114.29

त्रिभिः शरैर्महाराज वासुदेवं कच पञ्चभिः ।
भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् ॥ ६.११४.२९ ॥

大王啊!他以三箭射中婆苏提婆(克利须那),以五箭射中毗摩先那,又以九箭射中他们的双臂与胸膛。

6.114.30

ततो द्रोणो महाराज मागधश्च महारथः ।
दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः ॥ ६.११४.३० ॥

大王啊!于是德罗那与大车将摩揭陀王奉难敌之命,前往那个地方。

6.114.31

यत्र पार्थो महाराज भीमसेनश्च पाण्डवः ।
कौरव्यस्य महासेनां जघ्नुतुः सुमहारथौ ॥ ६.११४.३१ ॥

大王啊,阿周那与般度之子怖军这两位大战车武士,在那里击杀了俱卢族的庞大军队。

6.114.32

जयत्सेनस्तु समरे भीमं भीमायुधं युधि ।
विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ ॥ ६.११४.३२ ॥

然而耆耶森那在战斗中以八支利箭射穿了持可怖武器的怖军,婆罗多族的雄牛啊。

6.114.33

तं भीमो दशभिर्विद्धा पुनर्वीव्याध पञ्चभिः ।
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ ६.११४.३३ ॥

怖军以十箭射中他,又以五箭射中;并以一支投枪将他的御者从车座上射落。

6.114.34

उद्भ्रांतैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः ।
मागधोऽपसृतो राजा सर्वसैन्यस्य पश्यतः ॥ ६.११४.३४ ॥

于是摩揭陀王在惊慌的马匹四处奔驰中,当着全军的面撤退了。

6.114.35

द्रोणश्च विवरं दृष्ट्वा भीमसेनं शिलीमुखैः ।
विव्याध बाणैर्निशितैः पञ्चषष्टिभिरायसैः ॥ ६.११४.३५ ॥

德罗纳见有机可乘,便以六十五支锋利的铁箭,即尖石头箭,射中了怖军。

6.114.36

तं भीमः समरश्लाघी गुरुं पितृसमं रणे ।
विव्याध पञ्चभिर्भल्लैस्तथा षष्ट्या च भारत ॥ ६.११४.३६ ॥

怖军自负于战场之勇,以五支投枪射中了战场上如父般的师尊德罗纳,随后又以六十支射中,婆罗多啊。

6.114.37

अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः ।
व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथाऽनिलः ॥ ६.११४.३७ ॥

阿周那以许多铁箭射穿苏沙尔曼,将他的军队冲散,如同风吹散大片云朵。

6.114.38

ततो भीष्मश्च राज च कौसल्यश्च बृहद्बलः ।
समवर्तन्त संक्रुद्धा भीमसेनधनञ्जयौ ॥ ६.११४.३८ ॥

于是毗湿摩、国王和勇猛的考夏利耶愤怒地上前,与毗摩森那和达难闍耶交战。

6.114.39

तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः ।
अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् ॥ ६.११४.३९ ॥

同样,英勇的般度子孙与普利沙塔之子德里什塔笃木那在战场上扑向毗湿摩,如张口的死神一般。

6.114.40

शिखण्डी तु समासाद्य भरतानां पितामहम् ।
अभ्यद्रवत संहृष्टो भयं त्यक्त्वा महारथात् ॥ ६.११४.४० ॥

奇坎迪抵达婆罗多族的祖父面前,满心欢喜,抛开了对这位大战车武士的恐惧,冲了上去。

6.114.41

युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् ।
अयोधयन्रणे भीष्मं सहिताः सर्वसृञ्जयैः ॥ ६.११४.४१ ॥

以坚战为首的普利塔之子们将奇坎迪置于前列,与所有创闍耶人一同在战场上与毗湿摩交战。

6.114.42

तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् ।
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे ॥ ६.११४.४२ ॥

同样,你方所有人以坚守誓言的毗湿摩为先,与以奇坎迪为首的普利塔之子们在战场上交战。

6.114.43

ततः प्रववृते युद्धं कौरवाणां भयावहम् ।
तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति ॥ ६.११४.४३ ॥

于是考劳瓦军与般度之子展开了可怖的大战,以求毗湿摩获胜。

6.114.44

तावकानां जये भीष्मो ग्लह आसीद्विशांपते ।
तत्र हि द्यूतमासक्तं विजयायेतराय वा ॥ ६.११४.४४ ॥

人主啊,在你方的胜利中,毗湿摩便是赌注;那里确实是为胜利或对方而押上了赌局。

6.114.45

धृष्टद्युम्नस्तु राजेन्द्र सर्वसैन्यान्यचोदयत् ।
अभ्यद्रवत गाङ्गेयं मा भैष्ट रथसत्तमाः ॥ ६.११४.४५ ॥

然而,王中之王啊,持国的子嗣(德里什塔德尤姆那)催促全军:“攻击恒河之子!不要害怕,诸位最好的车战勇士!”

6.114.46

सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी ।
भीष्मं समभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे ॥ ६.११४.४६ ॥

般度子嗣的精锐大军听了统帅的话语,在大战中舍命,迅速向毗湿摩冲去。

6.114.47

भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् ।
आपतन्तीं महाराज वेलामिव महोदधिः ॥ ६.११४.४७ ॥

战车勇士中最优秀的毗湿摩也迎战那奔袭而来的大军,大王啊,正如大海迎接海岸。