Mahābhārata · Adhyāya 6.119
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.119.1
एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् ।
विव्यधुः समरे भीष्मं परिवार्य समन्ततः ॥ ६.११९.१ ॥
Thus all the Pāṇḍavas, placing Śikhaṇḍin in front, surrounded Bhīṣma on every side in battle and struck him.
6.119.2
शतघ्नीभिः सुघोराभिः परिघैश्च परश्वथैः ।
मुद्गरैर्मुसलैः प्रासैः क्षेपणीयैश्च सर्वशः ॥ ६.११९.२ ॥
with terrible hundred-killers, iron clubs, axes, maces, pestles, spears and missiles to be hurled, from every side.
6.119.3
शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः ।
नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च सर्वशः ॥ ६.११९.३ ॥
with golden-feathered arrows, javelins, quivering lances, iron arrows, calf-tooth arrows and bhuśuṇḍīs, in every way.
6.119.4
अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः ।
स विशीर्णतनुत्रामाः पीडितो बहुभिस्तदा ॥ ६.११९.४ ॥
In battle all the Sṛñjayas together struck Bhīṣma; then, his armour shattered, he was afflicted by many.
6.119.5
न विव्यथे तदा भीष्मो भिद्यमानेषु मर्मसु ।
संदीप्तशरचापाग्निरस्त्रप्रसृतमारुतः ॥ ६.११९.५ ॥
Though his vital spots were being pierced, Bhīṣma was not then distressed; his fire was his blazing arrows and bow, and his wind the spreading of weapons.
6.119.6
नेमिनिर्ह्रादसंतापो महास्त्रोदयपावकः ।
चित्रचापमहाज्वालो वीरक्षयमहेन्धनः ॥ ६.११९.६ ॥
Its heat was the roar of chariot-wheels, its fire the rising of great weapons, its great flame his variegated bow, and its great fuel the destruction of heroes.
6.119.7
युगान्तागनिसमप्रख्यः परेषां समपद्यत ।
निवृत्य रथसङ्घानामन्तरेण विनिःसृतः ॥ ६.११९.७ ॥
He appeared to the enemies like the fire at the end of an age, and turning back he came out from between the groups of chariots.
6.119.8
दृश्यते स्म नेरन्द्राणां पुनर्मध्यगतश्चरन् ।
ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च ॥ ६.११९.८ ॥
He was seen again moving in the midst among the lords of men; then, having passed by the king of the Pāñcālas and Dhṛṣṭaketu,
6.119.9
पाण्डवानीकिनीमध्यमाससाद विशांपते ।
ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् ॥ ६.११९.९ ॥
O lord of the people, he reached the middle of the Pāṇḍava host. Then Sātyaki and Bhīma, and the Pāṇḍava Dhanañjaya,
6.119.10
द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् ।
भीमघोषैर्महावेगैर्मर्मावरणभेदिभिः ॥ ६.११९.१० ॥
and Drupada, Virāṭa, and Dhṛṣṭadyumna son of Pṛṣata — with arrows of terrible roar, of great speed, piercing the vital armour.
6.119.11
षडेतान्निशितैर्भीष्मः प्रविव्याधोत्तकैः शरैः ।
तस्य ते निशितान्बाणात्सन्निवार्य महारथाः ॥ ६.११९.११ ॥
Bhīṣma pierced these six with sharp, excellent arrows; warding off his sharp arrows, the great chariot-warriors
6.119.12
दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा ।
शिखण्डी तु महाबाणान्यान्मुमोच महारथः ॥ ६.११९.१२ ॥
With tens upon tens they assailed Bhīṣma with force; but the great chariot-warrior Śikhaṇḍin released mighty arrows.
6.119.13
न चक्रुस्ते रुजं तस्य स्वर्मपुङ्खाः शिलाशिताः ।
ततः किरीटी संरब्धो भीष्ममेवाभ्यधावत ॥ ६.११९.१३ ॥
They did not harm him at all, those gold-feathered arrows whetted on stone. Then Kirīṭin, enraged, rushed straight at Bhīṣma.
6.119.14
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ।
भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः ॥ ६.११९.१४ ॥
Placing Śikhaṇḍin in front, he cut through Bhīṣma's bow. The great charioteers could not endure the cutting of Bhīṣma's bow.
6.119.15
द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः ।
भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च ॥ ६.११९.१५ ॥
Droṇa and Kṛtavarman, the Saindhava Jayadratha, Bhūriśravas, Śala, Śalya, and likewise Bhagadatta.
6.119.16
सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः ।
तत्र शस्त्राणि दिव्यानि दर्शयन्तो महारथाः ॥ ६.११९.१६ ॥
These seven, greatly enraged, rushed at Kirīṭin, the great charioteers displaying divine weapons there.
6.119.17
अभिपेतुर्भृशं क्रुद्धाश्चादयन्तश्च पाण्डवम् ।
तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति ॥ ६.११९.१७ ॥
Enraged, they fell upon the Pāṇḍava fiercely, and began to cover him. The sound of them charging was heard toward Phalguna.
6.119.18
उद्धूतानां यथा शब्दः समुद्राणां युगक्षये ।
घ्नत त्वरत गृह्णीत विद्ध्यध्वमवकर्तत ॥ ६.११९.१८ ॥
Like the roar of the oceans stirred up at the end of an age: "Strike, hurry, seize, pierce, cut down!"
6.119.19
इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति ।
तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः ॥ ६.११९.१९ ॥
Thus arose a tumultuous uproar toward Phalguna's chariot. Hearing that tumultuous sound, the great charioteers of the Pāṇḍavas...
6.119.20
अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥ ६.११९.२० ॥
O bull of the Bharatas, desiring to protect Phalguna, they rushed toward him: Sātyaki, Bhīmasena, and Dhṛṣṭadyumna, the son of Pṛṣata...
6.119.21
विराटद्रुषदौ चोभौ राक्षसश्च घटोत्कचः ।
अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्च्छिताः ॥ ६.११९.२१ ॥
Virāṭa and Drupada both, the rākṣasa Ghaṭotkaca, and Abhimanyu, greatly enraged — these seven, overcome with wrath...
6.119.22
समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः ।
तेषां समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ ६.११९.२२ ॥
Hastily they rushed upon them, bearing wondrous bows, and between them arose a tumultuous battle that made the hair stand on end...
6.119.23
संग्रमे भरतश्रेष्ठ देवानां दानवैरिव ।
शिखण्डी तु रणे श्रेष्ठो रक्ष्ममाणः किरीटिना ॥ ६.११९.२३ ॥
O best of the Bharatas, that battle was like a struggle between gods and dānavas. And Śikhaṇḍin, foremost in battle, protected by the diademed one (Arjuna)...
6.119.24
अविध्यद्दशभिर्भीषअमं छिन्नधन्वानमाहवे ।
सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे ॥ ६.११९.२४ ॥
He pierced Bhīṣma, whose bow had been broken in battle, with ten arrows, struck his charioteer with ten, and cut down his banner with one.
6.119.25
सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् ।
तदप्यस्य शितैर्बाणैस्त्रिभिश्चिच्छेद फल्गुनः ॥ ६.११९.२५ ॥
Taking another bow, swifter still, Gāṅgeya (Bhīṣma) had it cut by Phalguna with three sharp arrows as well.
6.119.26
एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः ।
धनुश्चिच्छेद भीष्मस्य सव्यसाची परंतपः ॥ ६.११९.२६ ॥
Thus the enraged Pāṇḍava, Savyasācin, the tormentor of foes, again and again cut through each bow that Bhīṣma took up.
6.119.27
स च्छिन्नधन्वा संक्रुद्धाः सृक्किणी परिसंलिहन् ।
शक्तिं जग्राह तरसा गिरीणामपि दारणीम् ॥ ६.११९.२७ ॥
With his bow cut, fully enraged, licking the corners of his mouth, he swiftly seized a spear that could split even mountains.
6.119.28
तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति ।
तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव ॥ ६.११९.२८ ॥
Enraged, he hurled it toward Phalguna's chariot; and seeing it coming on, blazing like a thunderbolt, [Arjuna looked at it].
6.119.29
समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः ।
तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः ॥ ६.११९.२९ ॥
The joy of the Pāṇḍavas took up five sharp barbed arrows and with five arrows cut that spear into five pieces.
6.119.30
संक्रुद्धो भरतश्रेष्ठ भीष्मवाहुप्रवेरिताम् ।
सा पपात तथा च्छिन्ना संक्रुद्धेन किरीटिना ॥ ६.११९.३० ॥
O best of the Bharatas, that spear hurled by Bhīṣma's arm fell thus cut by the enraged Kirīṭin (Arjuna).
6.119.31
मेघबृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा ।
छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः । ॥ ६.११९.३१ ॥
Seeing that spear, fallen like a severed lightning-streak from a cluster of clouds, Bhīṣma, filled with anger…
6.119.32
अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः ।
शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् ॥ ६.११९.३२ ॥
In battle that hero, conqueror of enemy cities, reflected with his mind: 'I am able, with a single bow, to slay all the Pāṇḍavas.'
6.119.33
यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः ।
अजय्यश्चैव सर्वेषां लोकानामिति मे मतिः ।
कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवान् ॥ ६.११९.३३ ॥
If Viṣvaksena, the mighty one, were not their protector, and if he were not unconquerable by all the worlds — such is my opinion — then, relying on two reasons, I shall not fight against the Pāṇḍavas.
6.119.34
अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः ।
पित्रा तुष्टेन मे पूर्वं यदा कालीमुदवहम् ॥ ६.११९.३४ ॥
Because the Pāṇḍavas cannot be slain, and because Śikhaṇḍin has a woman's nature (I will not fight). Formerly, when I carried off Kālī, my father, pleased with me…
6.119.35
स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा ।
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः ॥ ६.११९.३५ ॥
Death at will was granted to me, and invulnerability in battle as well. Therefore I regard death as if my own appointed time had come.
6.119.36
एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः ।
ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् ॥ ६.११९.३६ ॥
Knowing this resolve of Bhīṣma of boundless splendour, the sages and the Vasus, standing in the sky, spoke to Bhīṣma.
6.119.37
यत्ते व्यवसितं तात तदस्माकमपि प्रियम् ।
तत्कुरुष्व महाराज युद्धे बुद्धिं निवर्तय ॥ ६.११९.३७ ॥
Dear son, the resolve you have made is dear to us as well. Great king, do that, and turn your mind away from battle.
6.119.38
अस्य वाक्यस्य निधने प्रादुसासीच्छिवोऽनिलः ।
अनुलोमः सुगन्धी च पृषतैश्च समन्वितः ॥ ६.११९.३८ ॥
At the end of these words there arose an auspicious wind, gentle and fragrant, accompanied by drops of water.
6.119.39
देवदुन्दुभयश्चैव संप्रणेदुर्महास्वनाः ।
पपात पुष्पवृष्टिश्च भीष्मस्योपरि मारिष ॥ ६.११९.३९ ॥
The divine kettledrums resounded with a mighty roar, and, O Māriṣa, a shower of flowers fell upon Bhīṣma.
6.119.40
न च ताः शुश्रुवे कश्चित्तेषां संवदतां गिरः ।
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा ॥ ६.११९.४० ॥
Yet none heard their words as they spoke, save only the mighty-armed Bhīṣma, and I myself, endowed with the sage's power.
6.119.41
संभ्रमश्च महानासीत्रिदशानां विशांपते ।
पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा ॥ ६.११९.४१ ॥
And great agitation arose among the gods, O lord of men, that Bhīṣma, beloved of all the worlds, was about to fall from his chariot.
6.119.42
इति देवगणानां च वाक्यं श्रुत्वा महातपाः ।
ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत ॥ ६.११९.४२ ॥
Having heard these words of the host of gods, the great ascetic, Bhīṣma son of Śantanu, did not turn against Bībhatsu (Arjuna).
6.119.43
भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः ।
शिखण्डी तु महाराज भरतानां पितामहम् ॥ ६.११९.४३ ॥
Bound by sharp arrows that pierce all armour, Śikhaṇḍin, O great king, struck the grandsire of the Bharatas (Bhīṣma)...
6.119.44
आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः ।
स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः ॥ ६.११९.४४ ॥
Enraged, he struck him on the chest with nine sharp arrows; struck by him in battle, Bhīṣma, grandsire of the Kurus...
6.119.45
नाकम्पत महाराज क्षितिकम्पे यथाऽचलः ।
ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः ॥ ६.११९.४५ ॥
He did not tremble, O great king, as a mountain does not shake in an earthquake. Then Bībhatsu (Arjuna), laughing, drew back the bow Gāṇḍīva...
6.119.46
गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।
पुनः पुनः शतैरेनं त्वरमाणो धनञ्जयः ॥ ६.११९.४६ ॥
He struck the son of Gaṅgā (Bhīṣma) with twenty-five small arrows; and Dhanañjaya (Arjuna), hastening, again and again struck him with hundreds.
6.119.47
सर्वगात्रेषु संक्रुद्धस्तथा मर्मस्वताडयत् ।
एवमन्यैरपि भृशं विद्ध्यमानः सहस्रशः ॥ ६.११९.४७ ॥
Deeply enraged, he struck all his limbs and vital spots; and thus, pierced again and again by others too, thousands of times...
6.119.48
तानप्याशु शरैर्भीष्मः प्रविव्याध महारथः ।
तैश्च मुक्ताञ्छरान्भीष्मो युधि सत्यपराक्रमः ॥ ६.११९.४८ ॥
The great charioteer Bhīṣma swiftly pierced them too with arrows; and the arrows released by them, Bhīṣma of true valour in battle...
6.119.49
निवारयामास शरैः समं सन्नतपर्वभिः ।
शिखण्डी तु रणे बाणान्यान्मुमोच महारथः ॥ ६.११९.४९ ॥
In battle the great charioteer Śikhaṇḍin at once held them back with arrows whose shafts were bent at the joints, and released his arrows.
6.119.50
न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलासिताः ।
ततः किरीटी संक्रुद्धो भीष्ममेवाभ्यवर्तत ॥ ६.११९.५० ॥
Those arrows with golden feathers and shafts whetted on stone did him no harm. Then the enraged Kirīṭin advanced straight toward Bhīṣma.
6.119.51
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् ।
अथैनं नवभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे ॥ ६.११९.५१ ॥
Placing Śikhaṇḍin in front, he cut through Bhīṣma's bow; then, piercing him with nine arrows, he severed his banner with one.
6.119.52
सारथिं विशिखैश्चास्य दशभिः समकम्पयत् ।
सोऽन्यत्कार्मुकमादाय गाङ्गेयो बलवत्तरम् ॥ ६.११९.५२ ॥
With ten arrows he made his charioteer tremble. Then Gāṅgeya took up another, far stronger bow.
6.119.53
तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरघातयत् ।
निमेषार्धेन कौन्तेय आत्तमात्तं महारणे ॥ ६.११९.५३ ॥
That bow too he struck in three pieces with three sharp bhalla-arrows; in the great battle the son of Kuntī brought down each bow the instant it was taken up.
6.119.54
एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यथ ।
ततः शान्तनवो भीष्मो बीभत्सुं नात्यवर्तत ॥ ६.११९.५४ ॥
Thus in battle he cut through very many of Bhīṣma's bows; and thereafter the son of Śantanu could not surpass Bībhatsu.
6.119.55
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।
सोऽतिविद्धो महेष्वासो दुःशासनमभाषत ॥ ६.११९.५५ ॥
Then he pierced Bhīṣma with twenty-five small arrows. Pierced through, the great archer spoke to Duḥśāsana.
6.119.56
एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः ।
शरैरनेकसाहस्त्रैर्मामेवाभ्यपतद्रणे ॥ ६.११९.५६ ॥
This Pārtha, the enraged great chariot-warrior of the Pāṇḍavas, in battle has attacked me alone with many thousands of arrows.
6.119.57
न चैष समरे शक्यो जेतुं वज्रभृता अपि ।
न चापि सहिता वीरा देवदानवराक्षसाः ॥ ६.११९.५७ ॥
In battle he cannot be conquered even by the thunderbolt-wielder, nor even by heroes united—gods, dānavas and rākṣasas.
6.119.58
मां चापि शक्ता निर्जेतुं किमु मर्त्या महारथाः ।
ऋतेऽर्जुनं सुसंक्रुद्धमेतत्सत्यं ब्रवीमि ते ॥ ६.११९.५८ ॥
Where are the mortal great chariot-warriors who could conquer even me, except Arjuna, greatly enraged? This is the truth I tell you.
6.119.59
एवं तयोः संवदतोः फल्गुनो निशितैः शरैः ।
शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे ॥ ६.११९.५९ ॥
As the two were speaking thus, Phalguna, placing Śikhaṇḍin in front, pierced Bhīṣma in battle with sharp arrows.
6.119.60
ततो दुःशासनं भीष्मः स्मयमान इवाब्रवीत् ।
अर्दितो निशितैर्बाणैर्भृशं गाण्डीवधन्वना ॥ ६.११९.६० ॥
Then Bhīṣma, as if smiling, spoke to Duḥśāsana, greatly afflicted by the sharp arrows of the wielder of the Gāṇḍīva bow.
6.119.61
वज्राशनिसमस्पर्शाः सुपुङ्खाः सुप्रतेजनाः ।
सुमुक्ता अव्यवच्छिन्ना नेमे बाणाःशिखण्डिनः ॥ ६.११९.६१ ॥
Like the touch of thunderbolt and lightning, well-feathered, well-sharpened, well-released, unbroken — these arrows are not Śikhaṇḍin's.
6.119.62
निकृन्तमाना मर्माणि दृढावरणभेदिनः ।
सुसला इव मे ध्नन्ति नेमे बाणः शिखण्डिनः ॥ ६.११९.६२ ॥
Cutting into vital spots, piercing firm armour, striking me like fine lances — these arrows are not Śikhaṇḍin's.
6.119.63
वज्रदण्डसमस्पर्शा वज्रवेगदुरासदाः ।
मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः ॥ ६.११९.६३ ॥
With the touch of a thunderbolt-club, unbearable in the speed of a thunderbolt — these arrows break my life-breaths; they are not Śikhaṇḍin's.
6.119.64
नाशयन्तीव मे प्राणान्यमदूता इवागताः ।
गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः ॥ ६.११९.६४ ॥
As if messengers of Death had come, they destroy my life-breaths; with the touch of clubs and iron bars — these arrows are not Śikhaṇḍin's.
6.119.65
भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः ।
समाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः ॥ ६.११९.६५ ॥
Like enraged serpents, flicking their tongues, terrible with poison — these arrows enter the vital spots; they are not Śikhaṇḍin's.
6.119.66
अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः ।
कृन्तन्ति मम गात्राणि माघमां सेगवा इव ॥ ६.११९.६६ ॥
These arrows are Arjuna's, not Śikhaṇḍin's arrows — they cut my limbs like cows of the month of Māgha.
6.119.67
सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाःक ।
वीरं गाण्डीवधन्वानमृते जिष्णुं कपिध्वजम् ॥ ६.११९.६७ ॥
All the other kings could not cause me pain, except the hero Arjuna, wielder of the Gāṇḍīva bow, the conqueror with the monkey banner.
6.119.68
इति ब्रुवञ्छान्तनवो दिधक्षुरिव पाण्डवम् ।
शक्तिं भीष्मः स पार्थाय ततश्चिक्षेप भारत ॥ ६.११९.६८ ॥
Speaking thus, the son of Śantanu hurled a spear at Pārtha, as if desiring to burn up the Pāṇḍava, O Bhārata.
6.119.69
तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् ।
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत ॥ ६.११९.६९ ॥
With his arrows he cut that spear into three pieces and brought it down with three more, O Bhārata, while all the Kuru heroes watched there.
6.119.70
चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् ।
खङ्गं चान्यतरप्रेप्सुर्मृत्योरग्रे जयाय वा ॥ ६.११९.७० ॥
Then the son of Gaṅgā took up a shield adorned with gold, and, desiring either to face death or to win, he also took a sword.
6.119.71
तस्य तच्छतधा चर्म व्यधमत्सायकैस्तथा ।
रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ ६.११९.७१ ॥
He shattered that shield of his into a hundred pieces with arrows; for one who had not come down from the chariot, it seemed a marvel.
6.119.72
ततो युधिष्ठिरो राजा स्वान्यनीकान्यचोदयत् ।
अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि ॥ ६.११९.७२ ॥
Then King Yudhiṣṭhira urged on his own armies: 'Attack the son of Gaṅgā! Let there be not even a little fear in you.'
6.119.73
अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः ।
पट्टसैश्च सुनिस्त्रिंशैर्नाराचैश्च तथा शितैः ॥ ६.११९.७३ ॥
Then with spears, lances, showers of arrows on all sides, broadswords, fine swords, and sharp iron arrows, they attacked.
6.119.74
वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः ।
सिंहनादस्ततो घोरः पाण्डवानामभूत्तदा ॥ ६.११९.७४ ॥
With calf-tooth arrows and barbed arrows they charged at him alone, and then a terrible lion's roar rose from the Pāṇḍavas.
6.119.75
तथैव तव पुत्राश्च नेदुर्भीष्मजयैषिणः ।
तमेकमभ्यरक्षन्त सिंहनादांश्च चक्रिरे ॥ ६.११९.७५ ॥
In the same way your sons, seeking Bhīṣma's victory, roared; protecting him alone, they made lion's roars.
6.119.76
तत्रासीत्तुमुलं युद्धं तावकानां परैः सह ।
दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे ॥ ६.११९.७६ ॥
There arose a tumultuous battle between your men and the enemy, O lord of kings, on the tenth day, at the meeting of Bhīṣma and Arjuna.
6.119.77
आसीद्धोर इवावर्तो मुहूर्तमुदधेरिव ।
सैन्यानां युध्यमानानां निघ्नतामितरेतरम् ॥ ६.११९.७७ ॥
As a terrible whirlpool arises for a moment in the ocean, so there was a whirlpool-like scene among the armies fighting and striking one another.
6.119.78
असौम्यरूपा पृथिवी शोणिताक्ताऽभवत्तदा ।
समं च विषमं चैव न प्राज्ञायत किंचन ॥ ६.११९.७८ ॥
Then the earth, of ghastly form, became smeared with blood, and nothing could be recognized as level or uneven.
6.119.79
योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि ।
अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु ॥ ६.११९.७९ ॥
On that tenth day, having slain ten thousand warriors, Bhīṣma stood in battle, though his vital spots were being pierced.
6.119.80
ततः सेनामुखे तस्मिन्स्थितः पार्थो धनुर्धरः ।
मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् ॥ ६.११९.८० ॥
Then Pārtha, the bowman stationed at the head of the army, drove that host to flight through the middle of the Kuru forces.
6.119.81
तत्राद्भुतमपश्याम पाण्डवानां पराक्रमम् ।
द्रावयामासुरिषुभिः सर्वान्भीष्मपदानुगान् ॥ ६.११९.८१ ॥
There we saw the wonderful valor of the Pāṇḍavas, who with arrows drove back all who followed Bhīṣma's path.
6.119.82
वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात् ।
पीड्यमानाः शितैः शस्त्रैः प्राद्रवाम रणे तदा ॥ ६.११९.८२ ॥
Then, frightened of Dhanañjaya, the son of Kuntī with white horses, and afflicted by sharp weapons, we fled in battle.
6.119.83
पाण्डवैः पञ्चभिः सार्धं सात्यकेन च धन्विना ।
धृष्टद्युम्नसुखैः सर्वैः पाञ्चालैश्च समन्ततःक ॥ ६.११९.८३ ॥
together with the five Pāṇḍavas, with the archer Sātyaki, and with all the Pāñcālas led by Dhṛṣṭadyumna, on every side.
6.119.84
भिद्यमानाः शरैस्तीक्ष्णैः सर्वे कार्ष्णिपुरोगमैः ।
द्रोणद्रौणिकृतैः सार्धं सर्वे शल्यशलादयः।
तावकाः समरे राजञ्जहुर्भीष्मं महामृधे ॥ ६.११९.८४ ॥
Pierced by sharp arrows, all of them led by the son of Kṛṣṇa, together with those of Droṇa and Drauṇi, with Śalya, Śala and the rest, your men, O king, abandoned Bhīṣma in that great battle.
6.119.85
सौवीराः कितवाः प्राच्याःप्रतीच्योदीच्यमालवाः ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ ६.११९.८५ ॥
The Sauvīras, the gamblers (Kitavas), the eastern, western and northern peoples, the Mālavas, the Abhīṣāhas, the Śūrasenas, the Śibis and the Vasātis.
6.119.86
साल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह ।
द्वादशैते जनपदाः शरार्ता व्रणपीडिताः।
संग्रामे प्रजहुर्भीष्मं युध्यमानाः किरीटिना ॥ ६.११९.८६ ॥
The twelve realms, the Sālvas and their allies, the Trigartas, the Ambaṣṭhas and the Kekayas, tormented by arrows and afflicted by wounds, abandoned Bhīṣma in battle while fighting against the helmeted one (Arjuna).
6.119.87
ततस्तमेकं बहवः परिवार्य समन्ततः ।
परिकाल्य कुरून्सर्वाञ्शरर्षैरवाकिरन् ॥ ६.११९.८७ ॥
Then many surrounded that single warrior on every side, drove off all the Kurus and rained down showers of arrows upon him.
6.119.88
निपातयत गृह्णीत युध्यध्वमवकृन्तत ।
इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति ॥ ६.११९.८८ ॥
'Strike them down! Seize them! Fight! Cut them to pieces!' Such was the tumultuous clamour, O king, raised towards Bhīṣma's chariot.
6.119.89
निहत्य समरे राजञ्शतशोऽथ सहस्रशः ।
न तस्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ॥ ६.११९.८९ ॥
Having slain hundreds and thousands in battle, O king, there was not a space of two finger-breadths on his body that was left unpierced.
6.119.90
एवंभूतस्तव पिता शरैर्विशकलीकृतः ।
शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् ॥ ६.११९.९० ॥
Thus reduced, your father, cut to pieces by the sharp arrows of Phalguna (Arjuna) in battle, fell headlong from his chariot.
6.119.91
किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम् ।
हाहेति दिवि देवानां पार्थिवानां च भारत ॥ ६.११९.९१ ॥
O Bhārata, when only a little of the sun remained, while your sons watched, a cry of 'alas, alas' rose in heaven among the gods and on earth among the kings.
6.119.92
पतमाने रथाद्भीष्मे बभूव सुमहास्वनः ।
संपतन्तमभिप्रेक्ष्य महात्मानं पितामहम् ॥ ६.११९.९२ ॥
As Bhīṣma fell from the chariot, a very great sound arose, as all beheld the great-souled grandsire falling.
6.119.93
सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः ।
स पपात महाबाहुर्वसुधामनुनादयन् ॥ ६.११९.९३ ॥
Together with Bhīṣma, the hearts of all of us seemed to fall; the mighty-armed one fell, making the earth resound.
6.119.94
इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् ।
धरणीं न स पस्पर्श शरसङ्घैः समावृतः ॥ ६.११९.९४ ॥
Like Indra's banner cast down, the standard of all archers, covered with masses of arrows, did not touch the earth.
6.119.95
शलतल्पे महेष्वासं शयानं पुरुषर्षभम् ।
रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् ॥ ६.११९.९५ ॥
Lying on the bed of arrows, the great archer, bull among men, fallen from the chariot — a divine state entered him.
6.119.96
अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी ।
पतन्स ददृशे चापि दक्षिणेन दिवाकरम् ॥ ६.११९.९६ ॥
The clouds poured down rain and the earth trembled; as he fell, he was seen looking toward the sun in the south.
6.119.97
संज्ञां चोपालभद्वीरः कालं संचिन्त्य भारत ।
अन्तरिक्षे च शुश्राव दिव्या वाचः समन्ततः ॥ ६.११९.९७ ॥
O Bhārata, the hero recovered his consciousness, considered the time, and heard divine voices from the sky on all sides.
6.119.98
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः ।
कालकर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने ॥ ६.११९.९८ ॥
How will the great-souled Gāṅgeya, best of all wielders of weapons, the tiger among men, choose his time of death when the southern course of the sun has arrived?
6.119.99
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् ।
धारयिष्याम्यहं प्राणान्पतितिऽपि महीतले ॥ ६.११९.९९ ॥
Saying 'I am resolved,' Gāṅgeya, having heard those words, spoke: 'Even if I fall to the surface of the earth, I shall sustain my breath of life.'
6.119.100
उत्तरायणमन्विच्छन्सुगतिप्रतिकाङ्क्षया ।
तस्य तन्मतमाज्ञाय गह्गा हिमवतः सुताः ॥ ६.११९.१०० ॥
Desiring the northern course of the sun, longing for a good destination, and having learned his intention, the sons of Gaṅgā and of the Himālaya—
6.119.101
महर्षीन्हंसरूपेण प्रेषयामास तत्र वै ।
ततस्तं प्रति ते हंसास्त्वरिता मानसौकसः ॥ ६.११९.१०१ ॥
There they sent the great sages in the form of swans. Then those swift swans, dwellers of Lake Mānasa, came toward him.
6.119.102
आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् ।
यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः ॥ ६.११९.१०२ ॥
They came together to see Bhīṣma, the grandsire of the Kurus, where the grandsire, best of men, lay on a bed of arrows.
6.119.103
ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः ।
अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम् ॥ ६.११९.१०३ ॥
Having approached Bhīṣma, those sages in the form of swans saw Bhīṣma, the bearer of the Kuru lineage, lying on a bed of arrows.
6.119.104
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् ।
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् ॥ ६.११९.१०४ ॥
Having seen that great-souled one and circumambulated him, they looked upon Gāṅgeya, best of the Bharatas, with the sun on their right.
6.119.105
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः ।
भीष्मः कथं महात्मा सन्संस्थाता दक्षिणायने ॥ ६.११९.१०५ ॥
Calling to one another, the wise ones there said: "How will the great-souled Bhīṣma be established in the southern course of the sun?"
6.119.106
इत्युक्त्वा प्रस्थिता हंसा दक्षिणामभितो दिशम् ।
संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत ॥ ६.११९.१०६ ॥
Having said this, the swans set off toward the southern quarter. O Bhārata, that great-minded one, looking upon them and reflecting...
6.119.107
तानब्रवीच्छान्तनवो नाहं गन्ता कथंचन ।
दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम् ॥ ६.११९.१०७ ॥
Śāntanu's son said to them: "In no way will I go while the sun is turning southward; this is fixed in my mind."
6.119.108
गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् ।
उदगायन आदित्ये हंसाः सत्यं ब्रवीमि वः ॥ ६.११९.१०८ ॥
When the sun is in its northern course, I will go to my own ancient abode. O swans, I tell you the truth.
6.119.109
धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया ।
प्राणानां च समुत्सर्ग ऐश्वर्यं नियतं मम ॥ ६.११९.१०९ ॥
I will hold on to my breaths, desiring the northern course of the sun; the giving up of the breaths is my fixed sovereignty.
6.119.110
तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने ।
यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना ॥ ६.११९.११० ॥
Therefore I will hold on to my breaths until the northern course, desiring to die; that is the boon the great-souled father gave me.
6.119.111
छन्दतस्ते भवेन्मृत्युरिति तत्सत्यमस्तु मे ।
धारयिष्ये ततः प्राणानुत्सर्गे नियते सति ॥ ६.११९.१११ ॥
'Let death come at your will' — let that be true for me. Then I will hold on to my breaths until the release at the appointed time.
6.119.112
इत्युक्त्वा तांस्तदा हंसान्स शेते शरतल्पगः ।
एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि ॥ ६.११९.११२ ॥
Having said this to those swans, he lay on his bed of arrows. Thus, when Bhīṣma, mighty in power, the peak of the Kurus, had fallen,
6.119.113
पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ।
तस्मिन्हते महासत्वे भरतानां पितामहे ॥ ६.११९.११३ ॥
The Pāṇḍavas and the Sṛñjayas then raised a lion's roar when that great-spirited grandsire of the Bharatas had been slain.
6.119.114
न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ ।
संमोहश्चैव तुमुलः करूणामभवत्तदा ॥ ६.११९.११४ ॥
O bull of the Bharatas, your sons could respond to nothing; then a tumultuous bewilderment arose among the Kurus.
6.119.115
कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः ।
विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः ॥ ६.११९.११५ ॥
Led by Kṛpa and Duryodhana, they sighed deeply and wept; and from despair, their senses dulled, they stood there for a long time.
6.119.116
दध्युश्चैव महाराज न युद्धे दधिरे मनः ।
ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् ॥ ६.११९.११६ ॥
O great king, they fell into despair and did not fix their minds on battle; as if their thighs were seized, they did not charge at the Pāṇḍavas.
6.119.117
अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि ।
दुःखार्तास्ते ततो राजन्कुरूणां पतयोऽभवन् ।
अभाव सहसा राजन्कुरुराजस्य तर्कितः ॥ ६.११९.११७ ॥
When Bhīṣma, the mighty son of Śantanu who could not be slain, was killed, O king, the lords of the Kurus were tormented by sorrow; and O king, a sudden dread of the Kuru king's downfall arose.
6.119.118
हतप्रवीरास्तु वयं निकृत्ताश्च शितैः शरैः ।
कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना ॥ ६.११९.११८ ॥
Our heroes have been slain, and we are cut down by sharp arrows; defeated by Savyasācin, we do not know what to do.
6.119.119
पाणडवाश्च जयं लब्ध्वा परत्र च परां गतिम् ।
सर्वे दध्युर्महाशङ्खञ्शूराः परिघवाहवः ॥ ६.११९.११९ ॥
The Pāṇḍavas, having won victory and the supreme destiny in the next world, all sounded their great conches; heroes with arms like iron bars.
6.119.120
सोमकाश्च सपाञ्चालाः प्राहृष्यन्त जनेश्वर ।
ततस्तूर्यसहस्रेषु नदत्सु स महाबलः ॥ ६.११९.१२० ॥
O lord of men, the Somakas and the Pañcālas also rejoiced; then, while thousands of instruments sounded, that mighty one…
6.119.121
आस्फोटयामास भृशं भीमसेनो ननाद च ।
सेनयोरुभयोश्चापि गाङ्गेये निहते विभौ ॥ ६.११९.१२१ ॥
When the mighty son of Gaṅgā was slain, Bhīmasena struck his arms repeatedly and roared, and both armies did likewise.
6.119.122
संन्यस्य विराः शस्त्राणि प्राध्यायन्त समन्ततः ।
प्राक्रोशन्प्राद्रवंश्चान्ये जग्मुर्मोहं तथाऽपरे ॥ ६.११९.१२२ ॥
Some heroes laid down their weapons and sank into dejected thought on every side; some cried out, some fled, and others fell into bewilderment.
6.119.123
क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चान्येऽभ्यपूजयन् ।
ऋषयः पितरश्चैव प्रशशसुर्महाव्रतम् ॥ ६.११९.१२३ ॥
Some condemned the warrior duty and Bhīṣma, while others honored him; the sages and the ancestors praised the one of great vow.
6.119.124
भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे ।
महोपनिषदं चैव योगमास्थाय विर्यवान् ॥ ६.११९.१२४ ॥
The forefathers of the Bharatas also praised him, and the mighty Bhīṣma, taking refuge in yoga and the great Upaniṣad teaching,
6.119.125
जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत् ॥ ६.११९.१२५ ॥
Śāntanu's wise son, reciting in prayer, remained steadfast, awaiting his time.