Mahābhārata · Adhyāya 6.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.12.1
उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा ।
एवं तत्र महाराज ब्रुवतश्च निबोध मे ॥ ६.१२.१ ॥
O descendant of Kuru, a tale is heard also of the islands in the north. Thus, great king, hear from me what is told there.
6.12.2
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः ।
सुरोदः सागरश्चैव तथान्यो जलसागरः ॥ ६.१२.२ ॥
Here is the ocean of ghee-water, another of curd-scum water, the sea of wine-water, and likewise another, a sea of water.
6.12.3
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप ।
पर्वताश्च महाराज समुद्रैः परिवारिताः ॥ ६.१२.३ ॥
Each of all the islands, O lord of men, is twice the other, and the mountains, great king, are encircled by the oceans.
6.12.4
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् ।
पर्वतः पश्चिमे कृष्णो नारायणसखो नृप ॥ ६.१२.४ ॥
In the middle island is the mountain Gaura, and the great mountain Mānaḥśila. In the west is the mountain Kṛṣṇa, friend of Nārāyaṇa, O king.
6.12.5
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः ।
प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधत्सुखम् ॥ ६.१२.५ ॥
There Keśava himself guards the divine jewels, and there, being pleased, he bestows happiness upon the people.
6.12.6
कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह ।
संपूज्यते शाल्मलिश्च द्वीपे शाल्मलिके नृप ॥ ६.१२.६ ॥
In the middle of Kuśa island the clump of kuśa grass is worshipped together with the peoples there, and in the island of Śālmali, O king, the śālmali tree is worshipped.
6.12.7
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः ।
संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥ ६.१२.७ ॥
On the Krauñca island is the great Krauñca mountain, a mine heaped with jewels. O great king, it is always worshipped by the four social orders.
6.12.8
गोमन्तः पर्वतो राजन्सुमहान्सर्वधातुमान् ।
यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥ ६.१२.८ ॥
O king, the Gomanta mountain is very great and contains all metals. There the glorious lotus-eyed one dwells forever.
6.12.9
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ।
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः ॥ ६.१२.९ ॥
The lord Nārāyaṇa Hari, always praised by those who seek liberation, dwells there. O lord of kings, on the Kuśa island is a mountain adorned with coral.
6.12.10
सुनामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ।
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः ॥ ६.१२.१० ॥
The second, a golden mountain named Sunāman, is unassailable. O Kaurava, the third is the mountain named Kumuda, called Dyutimān.
6.12.11
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ।
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ॥ ६.१२.११ ॥
The fourth is named Puṣpavān, and the fifth is Kuśeśaya. The sixth is named Harigiri. These are the six excellent mountains.
6.12.12
तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः ।
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ ६.१२.१२ ॥
The interval between them is twice as great in every part. The first continent is Audbhida, the second Veṇumaṇḍala.
6.12.13
तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम् ।
धृतिमत्पञ्चमं वर्षं षष्ठं प्रभाकरम् ॥ ६.१२.१३ ॥
The third is Surathākāra, the fourth is remembered as Kambala. The fifth is the varṣa Dhṛtimat, and the sixth is Prabhākara.
6.12.14
सप्तमं कापिलं वर्षं सप्तैते वर्षलम्भकाः ।
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर ॥ ६.१२.१४ ॥
The seventh is the varṣa Kāpila. These seven are the bestowers of the varṣas. In them dwell gods and gandharvas, and the people, O lord of the world.
6.12.15
विहरन्ते रमन्ते च न तेषु म्रियते जनः ।
न तेषु दस्यवः सन्ति म्लेच्छजात्योपि वा नृप ॥ ६.१२.१५ ॥
They wander and delight, and in them no man dies. In them there are no robbers, nor even barbarian tribes, O king.
6.12.16
गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ।
अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर ॥ ६.१२.१६ ॥
Nearly all the people there are fair and tender, O king. Of all the rest I shall speak, O lord of men.
6.12.17
यथाश्रुतं महाराज तदव्यग्रमनाः श्रृणु ।
क्रौञ्चद्वीपे महारा क्रौञ्चो नाम महागिरिः ॥ ६.१२.१७ ॥
Listen to it as it was heard, O great king, with an undistracted mind. On the island of Krauñca, O great king, there is a great mountain named Krauñca.
6.12.18
क्रौञ्चात्परो वामनको वामनादन्धकारकः ।
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः । ॥ ६.१२.१८ ॥
Beyond Krauñca is Vāmanaka; beyond Vāmana is Andhakāraka. Beyond Andhakāra, O king, is Mainākа, the best of mountains.
6.12.19
मैनाकात्परतो रादन्गोविन्दो गिरिरुत्तमः ।
गोविन्दात्परतो राजन्निबिडो नाम पर्वतः ॥ ६.१२.१९ ॥
Beyond Mainaka, O king, lies Rādan, and the supreme mountain named Govinda. Beyond Govinda, O king, is the mountain called Nibiḍa.
6.12.20
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ।
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥ ६.१२.२० ॥
Beyond these, O increaser of the line, their extent is twice as great. I shall describe the regions there; hear as I tell it.
6.12.21
क्रोञ्चस्य कुशलो देशो वामनस्य मनोनुगः ।
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह ॥ ६.१२.२१ ॥
The fortunate region of Krauñca, and the region of Vāmana, which follows the mind. Beyond the Manonuga lies the hot region, O bearer of the Kuru line.
6.12.22
उष्णात्परः प्रावरकः प्रावारादन्धकारकः ।
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ॥ ६.१२.२२ ॥
Beyond the hot land is Prāvaraka; beyond Prāvāra is Andhakāraka. Beyond the region of Andhakāraka, the land of sages is recalled.
6.12.23
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ।
सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप ॥ ६.१२.२३ ॥
Beyond the region of sages is called Dundubhi-svana, crowded with Siddhas and Cāraṇas, its people mostly fair-skinned, O lord of men.
6.12.24
एते देशा महाराज देवगन्धर्वसेविताः ।
पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ॥ ६.१२.२४ ॥
These regions, O great king, are frequented by gods and Gandharvas. In Puṣkara there is the mountain named Puṣkara, rich in gems and jewels.
6.12.25
तत्र नित्यं प्रभवति स्वयं देवः प्रजापतिः ।
तं पर्युपासते नित्यं देवाः सर्वे महर्षयः ॥ ६.१२.२५ ॥
There the god Prajāpati himself ever manifests; all the gods and great sages constantly attend upon him.
6.12.26
वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप ।
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत ॥ ६.१२.२६ ॥
O lord of men, honouring him with words pleasing to the mind, various jewels also come forth from Jambudvīpa.
6.12.27
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम ।
ब्रह्मचर्येण सत्येन प्रजानां हि दमेन च ॥ ६.१२.२७ ॥
O best of the Kurus, in all those islands the people live by celibate discipline, by truth, and indeed by self-restraint.
6.12.28
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः ।
एको जनपदो राजन्द्वीपेष्वेतेषु भारत।
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥ ६.१२.२८ ॥
By health and measure of life it grows twice over, and again twice over. O king, in these islands there is one realm, O Bhārata; among the realms that have been described, one dharma alone is seen.
6.12.29
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः ।
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ॥ ६.१२.२९ ॥
The Lord Prajāpati himself, raising the rod of rule, O great king, stands forever protecting these islands.
6.12.30
स राजा स शिवो राजन्स पिता प्रतितामहः ।
गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ॥ ६.१२.३० ॥
He is the king, he is the auspicious one; O king, he is the father and the great-grandfather. O best of men, he protects the people, both the dull and the learned.
6.12.31
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् ।
सिद्धमेव महाबाहो तद्धि भुञ्जन्ति नित्यदा ॥ ६.१२.३१ ॥
Here, O descendant of Kuru, creatures always eat food that has come of its own accord, already prepared, O mighty-armed one.
6.12.32
ततः परं समा नाम दृश्यते लोकसंस्थितिः ।
चतुरश्र महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥ ६.१२.३२ ॥
Beyond that, the arrangement of the worlds called Samā is seen, four-cornered, O great king, and the circle of thirty-three.
6.12.33
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः ।
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ॥ ६.१२.३३ ॥
There stand the four quarter-elephants, honoured by the worlds, O descendant of Kuru, O best of the Bharatas: Vāmana, Airāvata and the others.
6.12.34
सुप्रतीकस्तदा राजन्प्रभिन्नकरटामुखः ।
तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे ॥ ६.१२.३४ ॥
Then there is Supratīka, O king, with temples and mouth streaming in rut; I am not able to count out his measure here.
6.12.35
असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ।
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव हि ॥ ६.१२.३५ ॥
That is always uncounted, sideways, upward and downward as well; there the winds blow from all the directions.
6.12.36
असंबद्धा महाराज तान्निगृह्णन्ति ते गजाः ।
पुष्करैः पद्मसंकाशैर्विकसद्भिर्महाप्रभैः ॥ ६.१२.३६ ॥
Those elephants restrain them, O great king, the unbound winds, with their trunks like lotuses, blossoming and of great splendour.
6.12.37
शतधा पुनरेवाशु ते तान्मुञ्चन्ति नित्यशः ।
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः ।
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ॥ ६.१२.३७ ॥
They release them again and again in a hundred ways. Winds, let loose by the breath of the quarter-elephants, come here, great king, and then creatures endure.
6.12.38
परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः ।
दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ॥ ६.१२.३८ ॥
Sañjaya, you have described it at great length, and shown the arrangement of the islands. Now tell me what follows, Sañjaya.
6.12.39
उक्ता द्वीपा महाराज ग्रहं वै शृणु तत्त्वतः ।
स्वर्भानोः कौरवश्रेष्ठ यावदेव प्रमाणतः ॥ ६.१२.३९ ॥
The islands have been described, great king. Now hear the truth about the planet, best of the Kauravas — Svarbhānu, as far as its measure goes.
6.12.40
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः ।
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ॥ ६.१२.४० ॥
Svarbhānu, the planet, is said to be round, great king. Its breadth is twelve thousand yojanas.
6.12.41
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ ।
षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ॥ ६.१२.४१ ॥
Its circumference, O sinless one, is thirty-six thousand, and its extent six hundred yojanas — so say the wise and those versed in the Purāṇas.
6.12.42
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः ।
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ॥ ६.१२.४२ ॥
The Moon's diameter, O king, is remembered as eleven thousand yojanas; its orb, O best of the Kurus, is thirty-three thousand.
6.12.43
एकोनषष्टिविष्कम्भं शीतरश्मेर्महात्मनः ॥ ६.१२.४३ ॥
The diameter of the great-souled cool-rayed one (the moon) is fifty-nine.
6.12.44
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन ।
विष्कम्भेण ततो राजन्मण्डलं त्रिंशता समम् ॥ ६.१२.४४ ॥
The sun's diameter is eight thousand and two more; O joy of the Kurus, O king, its orbit is then equal to thirty.
6.12.45
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ ।
श्रूयते परमोदारः पतगोऽसौ विभावसुः ॥ ६.१२.४५ ॥
O king, O sinless one, it is said to be fifty-eight in breadth; that most magnanimous bird is Vibhāvasu, the sun.
6.12.46
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ।
स राहुश्छादयत्येतौ यथाकालं महात्तया ॥ ६.१२.४६ ॥
O descendant of Bharata, this is the stated measure of the sun here; Rāhu, by his great power, covers these two in due time.
6.12.47
चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः ।
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा ॥ ६.१२.४७ ॥
O great king, this summary of the moon and the sun has been declared; O great king, all this has been told to you, who asked with the eye of scripture.
6.12.48
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ।
यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ॥ ६.१२.४८ ॥
Everything has been told truly; therefore attain peace. As indicated, I have spoken of this world together with its creation.
6.12.49
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति ।
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् ॥ ६.१२.४९ ॥
Therefore, O descendant of Kuru, take comfort concerning your son Duryodhana, having heard this Bhūmi Parva, O best of the Bharatas, which pleases the mind.
6.12.50
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः ।
आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते ॥ ६.१२.५० ॥
The king who hears this becomes prosperous, successful in his aims, and approved by the good; his life, strength, fame and splendor increase.
6.12.51
यः शृणोति महीपाल पर्वणीदं यतव्रतः ।
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥ ६.१२.५१ ॥
O protector of the earth, the one who, keeping his vows, hears this parva, pleases his forefathers and likewise his grandfathers.
6.12.52
इदं तु भारतं वर्षं यत्र वर्तामहे वयम् ।
पूर्वैः प्रवर्तितं पुण्यं तत्सर्वं श्रुतवानसि ॥ ६.१२.५२ ॥
This land of Bhārata, where we dwell, is a sacred land established by the ancients; all of that you have now heard.