Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.14.1

कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना ।
कथं रथार्त्स न्यपतित्पिता मे वासवोपमः ॥ ६.१४.१ ॥

库鲁之牛婆罗门般的毗湿摩如何被湿婆坎丁所杀?如同因陀罗的我的父亲如何从战车上坠落?

6.14.2

कथमाचक्ष्व मे योधा हीना भीष्मेण संजय ।
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥ ६.१४.२ ॥

桑闍耶啊,请告诉我,失去了如神般强大、为师长之故而守梵行的毗湿摩之后,我的战士们是怎样的情况。

6.14.3

तस्मिन्हते महाप्राज्ञे महेष्वासे महाबले ।
महासत्वे नरव्याघ्रे किमु आसीन्मनस्तव ॥ ६.१४.३ ॥

当那位大智慧、大弓手、大力、大勇、人中之虎被杀之时,你的心中如何?

6.14.4

आर्तिं परामाविशति मनः शंससि मे हतम् ।
कुरूणामृषभं वीरमकम्पं पुरुषर्षभम् ॥ ६.१४.४ ॥

你告诉我库鲁之牛、不动摇的英雄、人中之最已经被杀,我的心中充满了巨大的痛苦。

6.14.5

के तं यान्तमनुप्राप्ताः के वास्यसन्पुरोगमाः ।
केऽतिष्ठन्के न्यवर्तन्त केऽन्ववर्तन्त सञ्जय ॥ ६.१४.५ ॥

桑闍耶啊,他前行之时,谁跟随他?谁走在前面?谁停留,谁返回,谁又在后面跟随?

6.14.6

के शूरा रथशार्दूलमद्भुतं क्षत्रियर्षभम् ।
तथाऽनीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ॥ ६.१४.६ ॥

当那车战中的虎、奇异的刹帝利之牛冲入军中时,哪些英雄突然从背后跟随他?

6.14.7

यस्तमोर्क इवापोहन्परसैन्यममित्रहा ।
सहस्ररश्मिप्रतिमः परेषां भयमादधत् ॥ ६.१४.७ ॥

如太阳驱散黑暗,他是驱逐敌军、杀戮仇敌的人,如同千光之日,使敌人心生恐惧。

6.14.8

अकरोद्दुष्करं कर्म रणे पाण्डुसुतेषु यः ।
ग्रसमानमनीकानि य एनं पर्यवारयन् ॥ ६.१४.८ ॥

他在战场上对般度之子完成了艰难的功业,吞噬着军队;而那些将他包围的人。

6.14.9

कृतिनं तं दुराधर्षं सञ्जयास्य त्वमन्तिके ।
कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् ॥ ६.१४.९ ॥

桑闍耶,你就在他身边:般度之子们如何在战场上阻挡了那位精通武艺、难以战胜的檀努之子?

6.14.10

निकृन्तन्तमनीकानि शरदंष्ट्रं मनस्विनम् ।
चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ॥ ६.१४.१० ॥

斩断军队的人,以箭为齿,心志高远,以弓张开其口,可怖,以剑为舌,难以接近。

6.14.11

अनर्हं पुरुषव्याघ्रं ह्रीमन्तमपराजितम् ।
पातयामास कौन्तेयः कथं तमजितं युधि ॥ ६.१४.११ ॥

那位不配如此的人中之虎、谦逊而不败的英雄,被昆蒂之子击倒了;那在战斗中不可战胜的他,是如何被击倒的?

6.14.12

उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे ।
परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः ॥ ६.१४.१२ ॥

手持猛弓、发射猛箭的勇士,立于最好的战车之上,以箭收取敌人的头颅。

6.14.13

पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यतमाहवे ।
कालाग्निमिव दुर्धर्षं समचेष्टत नित्यशः ॥ ६.१४.१३ ॥

见到般度之子们为战而举起的大军,它如时间之火般不可抵挡,不断地涌动。

6.14.14

परिकृष्य स सेनां तु दशरात्रमनीकहा ।
दगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ ६.१४.१४ ॥

摧毁敌军的那人统领军队十夜;完成极为艰难的功业之后,他如落日般陨落。

6.14.15

यः स शक्र इवाक्षय्यं वर्षं शरमयं क्षिपन् ।
जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ ६.१४.१५ ॥

他如因陀罗一般倾泻不尽的箭雨,在十日之内于战中杀死了一亿(arbuda)名战士。

6.14.16

स शेते निहतो भूमौ वातभुग्न इव द्रुमः ।
मम दुर्मन्त्रितेनाजौ यथा नार्हति भारतः ॥ ६.१४.१६ ॥

他在战中被杀,如被风折断的大树倒在地上,皆因我的恶谋;这位婆罗多本不应如此。

6.14.17

कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी ।
प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ॥ ६.१४.१७ ॥

见到山塔努之子、具有可怕威力的毗湿摩,般度之子的大军如何能在那里向他进攻?

6.14.18

कथं भीष्मेण संग्रामं प्राकुर्वन्पाण्डुनन्दनाः ।
कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय ॥ ६.१४.१८ ॥

般度之子们如何与毗湿摩交战?啊,全胜,在德罗纳尚在的时候,毗湿摩为何没有取胜?

6.14.19

कृपे सन्निहिते तत्र भरद्वाजात्मजे तथा ।
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ॥ ६.१४.१९ ॥

克利巴在场,婆罗堕阇之子也在场。那么,最善战的毗湿摩究竟如何殒命?

6.14.20

कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना ।
भीष्मो विनिहतो युद्धे देवैरपि दुरासदः ॥ ६.१४.२० ॥

那位连天神也难以逼近的大车将毗湿摩,究竟如何在战场上被那位般遮罗人din……乔罗狄(Śikhaṇḍin)杀死?

6.14.21

यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् ।
अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ॥ ६.१४.२१ ॥

他在战场上常与大力的嚈摩陀尼之子(持斧罗摩)较量;即便是嚈摩陀尼之子也不能战胜他,其勇力与因陀罗相当。

6.14.22

तं हतं समरे भीष्मं महारथकुलोदितम् ।
सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे ॥ ६.१४.२२ ॥

桑闍耶啊,请把那位出身大车将家族、在战场上被杀的英雄毗湿摩的事告诉我;因为他的死,我们不知何处有安宁。

6.14.23

मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् ।
दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ॥ ६.१४.२३ ॥

桑闍耶啊,我方哪些大弓箭手没有抛弃那位不败者(毗湿摩)?又有哪些英雄奉杜尔约达那之命环绕在他身边?

6.14.24

यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः ।
कच्चित्ते कुरवः सर्वे नाजहुः सञ्जयाच्युतम् ॥ ६.१४.२४ ॥

当众般度子在尸犍底的率领下冲向毗湿摩时,桑闍耶啊,你的众俱卢难道没有抛弃那位不败者吗?

6.14.25

अश्मसारमयं नूनं हृदयं मुदृढं मम ।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥ ६.१४.२५ ॥

我的心必定是铁石做的,听到人中猛虎毗湿摩被杀,它竟不碎裂。

6.14.26

यस्मिन्सत्यं च मेधा च नीतिश्च भरतर्षभे ।
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ ६.१४.२६ ॥

真理、智慧与谋略无限的那位婆罗多族雄牛,不可战胜者,怎会在战场上被杀?

6.14.27

मौर्वीघोषस्तनयुत्नुः पृषत्कपृषतो महान् ।
धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः ॥ ६.१४.२७ ॥

弓弦的嗡鸣如雷,箭雨甚大;弓的轰响是巨大的声音,如同高耸的大云。

6.14.28

योऽभ्यवर्षत कौन्तेयान्सपाञ्चालान्ससृञ्जयान् ।
निघ्नन्परथान्वीरो दानवानिव वज्रभृत् ॥ ६.१४.२८ ॥

那位英雄向贡蒂之子以及般遮罗人与萨然耶人倾泻箭雨,击毁战车,如持金刚者击杀达那婆。

6.14.29

इष्वस्त्रसागरं घोरं बाणग्रहं दुरासदम् ।
कार्मुकोर्मिणमक्षय्यमद्वीपं चलमप्लवम् ॥ ६.१४.२९ ॥

箭与兵器的可怖大海,以箭为鳄,难以接近;弓为波涛,无穷无尽,无岛,动荡,无船可渡。

6.14.30

गदासिमकरावासं हयावर्त्तं गजाकुलम् ।
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥ ६.१४.३० ॥

棍棒与刀剑为摩羯之居,马为漩涡,满布象群,步兵如鱼密集,回响着螺号与战鼓之声。

6.14.31

हयान्गजपदातींश्च रथांश्च तरसा बहून् ।
निमञ्जयन्तं समरे परवीरापहारिणम् ॥ ६.१४.३१ ॥

在战场上迅猛地吞没马匹、象群、步兵和众多战车,夺取敌方的英雄[毗湿摩]。

6.14.32

विदह्यमानं कोपेन तेजसा च परंतपम् ।
वेलेव मकरावासं के वीराः पर्यवारयन् ॥ ६.१४.३२ ॥

[毗湿摩]被愤怒与光辉燃烧,是敌人的煎熬者,如同海岸环绕摩伽罗的居所大海,哪些英雄包围了他?

6.14.33

भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा ।
दुर्योधनहितार्थाय के तस्यास्य पुरोऽभवन् ॥ ६.१४.३३ ॥

萨阳阁啊,敌人的杀手:毗湿摩在战斗中做了什么事迹?为了难敌的利益,哪些英雄站在他面前?

6.14.34

के रक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः ।
पृष्ठतः के परान्वीरानपासेधन्यतव्रताः ॥ ६.१४.३४ ॥

谁守护着光辉无限的毗湿摩的右翼(阵列)?哪些发愿有福的英雄从后方击退了敌方英雄?

6.14.35

के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके ।
के रक्षन्नुत्तरं चक्रं वीरा वीरकस्य युध्यतः ॥ ६.१४.३५ ॥

谁站在前面、靠近毗湿摩守护他?哪些英雄在与毗罗迦交战时守护着左翼?

6.14.36

वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान् ।
अग्नतोऽग्न्यमनीकेषु केऽभ्यरक्षन्दुरासदम् ॥ ६.१४.३६ ॥

萨阳阁啊,站在左翼的是谁击杀了悉伦阁耶人?在火焰般的军队前方,又是谁守护着那不可接近的人?

6.14.37

पार्श्वतः केऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम् ।
समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय ॥ ६.१४.३७ ॥

桑闍耶啊,那些在两侧保护他们、走在艰难道路上的人是谁?那些在军队密集处与敌方勇士交战的人又是谁?

6.14.38

रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते ।
दुर्जयानामनीकानि नाजयंस्तरसा युधि ॥ ६.१४.३८ ॥

既受勇士保护,又得他们守卫,他们为何在战斗中不能以力量战胜那些难以战胜的军队?

6.14.39

सर्वलोकेश्वरस्येव परमस्य प्रजापतेः ।
कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः ॥ ६.१४.३९ ॥

桑闍耶啊,那如同众世界之主、至上的生主一般的人,般度之子们怎能击伤他?

6.14.40

यस्मिन्द्वीपे समाश्वस्य युध्यन्ते कुरवः परैः ।
तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय ॥ ६.१४.४० ॥

桑闍耶啊,你所描述的是那位沉没在岛中的人中虎婆罗多,即毗湿摩;在那岛上,俱卢人重新振作,与敌人作战。

6.14.41

यस्य वीर्यं समाश्रित्य मम पुत्रो बृहद्बलः ।
न पाण्डवानगणयत्कथं स निहतः परैः ॥ ६.१४.४१ ॥

我那力量强大的儿子依靠谁的威力而不把般度之子放在眼里,他又是如何被敌人杀死的?

6.14.42

यः पुरा विबुधैः सर्वैः सहाये युद्धदुर्मदः ।
काङ्क्षितो दानवान्ध्नद्भिः पिता मम महाव्रतः ॥ ६.१४.४२ ॥

昔日作为诸天之盟友、在战斗中傲然无畏、在诛灭檀那婆时受到渴求的那位,便是我的父亲大誓者。

6.14.43

यस्मिज्जाते महावीर्ये शान्तनुर्लोकविश्रुतः ।
शोकं दैन्यं च दुःस्वं च प्राजहात्स च तत्क्षणे ॥ ६.१४.४३ ॥

其出生之时,名闻天下、大勇的Santanu便立刻舍弃了悲伤、沮丧与苦痛。

6.14.44

प्रोक्तं परायणं प्राज्ञं स्वधर्मनिरतं शुचिम् ।
वेदवेदाङ्गतत्वज्ञं कथं शंससि मे हतम् ॥ ६.१४.४४ ॥

你怎能告诉我,那位被称为依靠、有智慧、恪守本分、清净、通晓吠陀与吠陀支分精义的人已被杀害?

6.14.45

सर्वास्त्रविनयोपेतं शान्तं दान्तं मनस्विनम् ।
हतं शान्तनवं श्रुत्वा मन्ये शेषं हतं बलम् ॥ ६.१४.४५ ॥

听闻精通一切兵器、平静、克己、高尚的Śāntanava已被杀,我想其余的军队也已被杀。

6.14.46

धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः ।
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ ६.१४.४६ ॥

我的看法是:非法已胜过法,因为般度之子杀死了长者与师尊,却想要王国。

6.14.47

जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः ।
अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः ॥ ६.१४.४७ ॥

往昔,Jamadagni之子Rāma,一位无人能及的通晓一切兵器者,为Ambā而备战,却在战中被Bhīṣma战胜。

6.14.48

तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् ।
हतं शंससि मे भीष्मं किं नु दुःखमतः परम् ॥ ६.१४.४८ ॥

你告诉我,那位功绩如同因陀罗、为一切弓手之首的Bhīṣma已被杀害。还有什么比这更大的悲痛呢?

6.14.49

असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः ।
जामदग्न्येन वीरेण परवीरनिघातिना।
न हतो यो महाबुद्धिः स हतोऽद्य शिखण्डिना ॥ ६.१४.४९ ॥

那位摧毁敌方英雄的英勇的甚人之子(持斧罗摩)多次在战斗中击败刹帝利大军;那位大智慧者未曾被杀,今日却被尸婆迪所杀。

6.14.50

तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् ।
तेजोवीर्यबलैर्यूयाञ्शिखण्डी द्रुपदात्मजः ॥ ६.१४.५० ॥

因此,确实是德鲁帕达之子尸婆迪在光辉、勇力与力量上胜过了你们这些大勇士,甚至胜过那沉醉于战斗骄傲的婆利古后裔。

6.14.51

यः शूरं कृतिनं युद्धे सर्वशस्त्रविशारदम् ।
परमास्त्रविदं वीरं जघान भग्तर्षभम् ॥ ६.१४.५१ ॥

在战斗中杀死了勇猛、熟练、精通一切兵器、知晓至高神箭的英雄婆伽纳尔沙跋(人中之王)的人。

6.14.52

के वीरास्तममित्रघ्नमन्वयुः शस्त्रसंसदि ।
शंस मे तद्यथा चासीद्युद्भं भीष्मस्य पाण्डवैः ॥ ६.१४.५२ ॥

在兵器的集会(战场)中,哪些英雄追随那位杀敌者?请告诉我,婆罗诃沙迪与般度之子们的战斗是如何进行的。

6.14.53

योषेव हतवीरा मे सेन्म पुत्रस्य सञ्जय ।
अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ॥ ६.१४.५३ ॥

桑闪耶啊,我儿子的军队因英雄被杀而如同妇女;我的那支军队如同失去牧人而四散的牛群。

6.14.54

पौरुषं सर्वलोकस्य परं यस्मिन्महाहवे ।
परासक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ॥ ६.१४.५४ ॥

在那场汇聚了众世界至高勇力的大战中,他们专注于敌人之时,心境究竟如何?

6.14.55

जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय ।
घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ॥ ६.१४.५५ ॥

桑闍耶啊,在我们推动杀死我们那位大力、世间法的守护者之父(毗湿摩)之后,今日我们的生命中还剩下什么力量?

6.14.56

अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः ।
भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ॥ ६.१४.५६ ॥

就像已经抵达岸边的人看见船沉没在深不可测的水中而悲痛一样,我想,自从毗湿摩被杀之后,我的儿子们正因极大的悲痛而哀叹。

6.14.57

अद्रिसारमयं नूनं हृदयं मम सञ्जय ।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥ ६.१४.५७ ॥

桑闍耶啊,我的心必定是由石头的精华所造,因为听闻人中虎毗湿摩被杀,它竟然没有碎裂。

6.14.58

यस्मिन्नस्त्राणि मेधा च नीतिश्च पुरुषर्षभे ।
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ ६.१४.५८ ॥

在那位人中雄牛、难以战胜的人身上,武器、智慧与治国之道皆无量,他怎会在战场上被杀?

6.14.59

न चास्त्रेण न शौर्येण तपसा मेधया न च ।
न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥ ६.१४.५९ ॥

无论是凭武器,凭勇猛,凭苦行,凭智慧,凭坚忍,还是再凭舍弃,无人能从死亡中解脱。

6.14.60

कालो नूनं महावीर्यः सर्वलोकदुरत्ययः ।
यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय ॥ ६.१४.६० ॥

桑闍耶啊,时间必定有极大的力量,是一切世界都无法超越的;因为你说,尚塔努之子毗湿摩已被杀。

6.14.61

पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन् ।
आशंसेऽहं परं त्राणं भीष्माच्छान्तनुनन्दनात् ॥ ६.१४.६१ ॥

我因失子之痛而备受煎熬,不去想那巨大的悲伤,我希望得到檀努之子毗湿摩的至高庇护。

6.14.62

यदादित्यमिवापश्यत्पतितं भ्रुवि सञ्जय ।
दुर्योधनः शान्तनवं किं तदा प्रत्यपद्मत ॥ ६.१४.६२ ॥

檀闍耶啊,当难敌看见檀努之子毗湿摩如太阳般倒在地上时,他当时做了什么回应?

6.14.63

नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् ।
शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ॥ ६.१४.६३ ॥

檀闍耶啊,我以理智思量自己一方与敌方,却看不到对方阵中的诸王还剩下什么。

6.14.64

दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः ।
यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ ६.१४.६४ ॥

诸仙所示的刹帝利法何其残酷,在其中,般度诸子杀死檀努之子毗湿摩后,却想要王国。

6.14.65

वयं वा राज्यमिच्छामो घातयित्वा महाव्रतम् ।
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ॥ ६.१४.६५ ॥

或者我们为了王国而让大誓者被杀;住于刹帝利法的普利塔之子并未犯错,我的儿子们。

6.14.66

एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय ।
पराक्रमः पराशक्तिस्तत्तु तस्मिन्प्रतिष्ठितम् ॥ ६.१४.६६ ॥

檀闍耶啊,高贵者在艰难的灾难中应当这样做;勇猛与至高之力就确立在他身上。

6.14.67

अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् ।
कथं शान्तनवं तातं पाण्डुपुत्रा न्यवारयन् ॥ ६.१४.६७ ॥

般度之子如何阻挡了那位摧毁军队、知耻而不可战胜的善耆之子——我的父亲?

6.14.68

यथायुक्तान्यनीकानि कथं युद्धं महात्मभिः ।
कथं वा निहतो भीष्मः पिता सञ्जय मे परैः ॥ ६.१४.६८ ॥

列阵有序的军队如何与大德者作战?或者,桑惹耶,我的父亲毗湿摩是如何被敌人杀死的?

6.14.69

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ॥ ६.१४.६९ ॥

难敌、迦尔纳、苏跋罗之子沙恭尼,以及赌徒难降——毗湿摩被杀之后,他们说了什么?

6.14.70

यच्छरीरैरुपास्तीर्णां नरवारणवाजिनाम् ।
शरशक्तिमहाखङ्गतोमराक्षां महाभयाम्।
प्राविशन्कितवा मन्दाः सभां युद्धदुरासदाम् ॥ ६.१४.७० ॥

那集会厅中铺满了人、象、马的尸体,以箭、枪、大剑和投枪为骰子,极为可怖,如同战场般难以靠近,愚蠢的赌徒们走了进去。

6.14.71

प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः ।
के जीयन्ते जितास्तत्र कृतलक्ष्या निपातिताः ।
अन्ये भीष्माच्चान्तनवात्तन्ममाचक्ष्व सञ्जय ॥ ६.१४.७१ ॥

在那以性命为赌注的可怕赌局中,哪些人中的雄牛参与了?谁赢了,谁输了并在那里被当作靶子射倒?除了沙恭之子毗湿摩,还有谁在场?桑惹耶,请告诉我。

6.14.72

न हि मे शान्तिरस्तीह श्रुत्वा देवव्रतं हतम् ।
पितरं भीमकर्माणं भीष्ममाहवशोभिनम् ॥ ६.१४.७२ ॥

听闻天授毗湿摩已被杀害,我那行事可怖、在战场上光辉的父亲,我在此再无安宁。

6.14.73

आर्तिं मे हृदये रूढां महतीं पुत्रहानिजाम् ।
त्वं हि मे सर्पिषेवाग्निमुद्दीपयसि सञ्जय ॥ ६.१४.७३ ॥

散阇耶,这由失去诸子而生、深植于我心中的巨大痛苦,你却像往火里倒酥油一样使它愈加炽烈。

6.14.74

महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् ।
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ॥ ६.१४.७४ ॥

见到遍世闻名、承担重任的毗湿摩被杀,我想我的儿子们正在悲痛哀泣。

6.14.75

श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् ।
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय ॥ ६.१४.७५ ॥

那些由难敌所造成的痛苦,我将要听闻。因此,散阇耶,请把那里发生的一切都告诉我。

6.14.76

यद्वृत्तं तत्र संग्रामे मन्दस्याबुद्धिसंभवम् ।
अपनीतं सुनीतं यत्तन्ममाचक्ष्व सञ्जय ॥ ६.१४.७६ ॥

那场战役中因愚人的愚昧所发生的事,做得不好的与做得好的,散阇耶,请把这一切都告诉我。

6.14.77

यत्कृतं तत्र संग्रामे भीष्मेण जयमिच्छता ।
तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ॥ ६.१४.७७ ॥

毗湿摩在那场战斗中渴望胜利,光辉而精通武艺,他所做的一切,也请完整地告诉我。

6.14.78

यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः ।
क्रमेण येन यस्मिंश्च काले यच्च यथाऽभवत् ॥ ६.१४.७८ ॥

请告诉我,俱卢军与般度军之间的战斗是如何发生的,以何种次序、何种方式、在何时,所发生的事情以及它如何发生。